________________
३२७
परिशिष्ट (३) १७४. अथ षोडशाक्षरचरणवृत्तस्य प्रथमं भेदं ब्रह्मरूपकनाम वृत्तं लक्षयति, जो लोआणमिति । जो-यत् लोआणं-लोकानां बिंबुढ़े-बिंबोष्ठे बिज्जुठ्ठ-विद्युत्स्थाने विद्युत्साम्यतया विद्युत्पदेन दंता लक्ष्यंते, तथाच दंतस्था(न) इत्यर्थः, णास ठाणे-नासिकास्थाने बट्टे-वर्तते, यच्च बुत्तो-वृत्तं छंदु ग्गाअंतो-छन्दोगायद्भिः सव्वे-सर्वैः संमाणीओ-संमानितं, सो-तत् कंतो-कांतं हंसठ्ठाणो-हंसस्थानं हंसस्येव स्थानं स्थितिर्गतिर्यस्य तत्तादृशमित्यर्थः ब्रह्माणं रूपकं छंदो-(ब्रह्मरूपकं) छंदः कण्णढे कर्णाष्टकेन गुरुद्वयात्मकगणाष्टकेन सुज्जाणो पाओ-सुज्ञानो नाग: पिंगल: उछाबे-उत्थापयति, एसो-तत् छंदो-छंदः लीआणं-लोकानां निकटे मयेति शेषः बक्खाणीओव्याख्यातम् ।। अत्र षोडशगुरुरचितचरणं ब्रह्मरूपकनामकं वृत्तमिति फलितार्थः ।।
१७५. ब्रह्मरूपकमुदाहरति, उम्मत्तेति । उठे कोहा-उत्थितक्रोधाः उम्मत्ता-उन्मत्ताः अप्पा अप्पी-आत्मानमात्मानं परस्परमित्यर्थः मेणक्का रंभा णाहं-मेनकारंभानाथं दंभा-दंभात् बुझ्झंता-बुध्यमानाः धाबंता सल्ला छिन्ने(ण्णे) कंठा-धावन्तः शल्यच्छिन्नकंठाः मत्था पिठ्ठी पेरंता-मस्तकानि पृष्ठे पातयन्तः ओत्था ओत्थी-उत्थायोत्थाय जुझ्झंत-युध्यमानाः णं सग्गा मग्गा जाए-ननु निश्चयेनेत्यर्थः स्वर्गमार्गं गच्छंतः लुद्धा-लुब्धाः मेनकादिप्राप्त्यर्थमिति भावः जोहा-योद्धारः अग्गा–अग्रे अद्धा ऊर्ध्वं हेरंता-अन्विष्यति मेनकादिसुखमित्यर्थः ॥
१७६. अथ सप्तदशाक्षरचरणस्य वृत्तस्य द्विसप्तत्युत्तरैकत्रिंशत्सहस्रोत्तरैकलक्षं १३१०७२ भेदा भवंति, तत्र पंचाशदधिकसप्तशताधिकषट् अष्ट)त्रिंशत्सहस्रतमं (३८७५०) भेदं पृथ्वीनामकं वृत्तं लक्षयति, पओहरेति । यत्र मुह-मुखे आदाविति यावत् पओहर-पयोधरः मध्यगुरुर्जगण इति यावत् ठिआ-स्थितः, तहअ-तथाच एक्क-एक: हत्थ-हस्तो गुर्वंतः सगणइत्यर्थः दिआ-दत्तः, पुणोबि-पुनरपि तह संठिअ-तथा संस्थितौ पुनरपि ज(ग)ण-सगणौ कर्त्तव्यावित्यर्थः, तहअ-तथाच गंध-गंध: लघुः सज्जा किआसज्जीकृतः । उणो-पुनः बलआ जुआ बिमल सद्द हारा-वलययुगविमलशब्दहाराः वलयो गुरुस्तद्वयं शब्दोलघुः हारो गुरुरेते इत्यर्थः पलंति-पतंति, चउग्गलअ-चतुरग्राश्च बीसआ-विंशतिर्मात्रा इति शेषः पतंतीति पूर्वेणान्वयः, तत् पुहवि णाम छंदो-पृथ्वीनामछंदः मुणो-ज्ञायताम् । अत्र मात्राकथनं पादपूरणार्थमेव, जगण-सगण-सगण-यगण लघुगुरुरचितं पृथ्वीच्छंद इति निष्कृष्टोर्थः ।
१७७. पृथ्वीमुदाहरति, झणझ्झणिअ इति । झणझुणिअणेउरं-(झण) झणितनूपुरं झणझणेति रवं कुर्वन्नूपुराख्यं भूषणं यस्य तत्तादृशमित्यर्थः, रणरणंत कांची गुणं-अतिगंभीरशब्दायमान: कांचीगुणो यस्य तदित्यर्थः, सहास मुह पंकअं-सहासं मुखमेव पंकजं यस्य तत्तादृग्विधमित्यर्थः, अगुरु धूम धूपुज्जलं-अगुरुधूपधूपोज्ज्वलं । जलंत मणि दीबअं-ज्वलन्मणिदीपकं ज्वलद्देदीप्यमानं भूषणमणिरेव दीपकं यत्र तादृशमित्यर्थः, मअण केलि लीलासर-मदनकेलिलीलासरः णिसामुह मणोहरं-संध्याप्रादुर्भावातिरमणीयमित्यर्थः, जुअइ मंदिर-तरुणीलक्षणं मंदिरं राजते शोभते । पृथ्वी निवृत्ता ॥
१८०. अथाष्टदशाक्षरचरणस्य वृत्तस्य चतुश्चत्वारिंशोत्तरैकशताधिकद्विषष्टिसहस्रोत्तरलक्षद्वयं २६२१४४ भेदा भवन्ति, तत्र द्वि(त्रि) सप्तत्युत्तरषट्शताधिकद्वादशसहस्रतमं (१२६७३) भेदं मंजीरनामकं वृत्तं लक्षयति, कुंतीपुत्तेति । यत्र मंथा-मस्तके प्रथममिति यावत् तिण्णा-त्रीन् कुंतीपुत्रान् गुरुद्वयात्मकान् गणानिति यावत् दिण्णउ-दत्वा एक्का-एकः पाए-पाद: गुर्वादिर्भगणमि(इ)त्यर्थः संठबि-संस्थाप्यते, ततश्च एक्का हारा-एकोहार: गुरुः कंकण दुज्जे-कंकणद्वयं गुरुद्वयमिति यावत्, अवहट्टभाषायां पूर्वव्यत्यासदोषाभावात् दुज्जे इत्यस्य व्यत्यासे अपि न दोषः, गंधा-गंधस्य लघोरित्यर्थः जुग्गलाए-जुगलं संठबि-संस्थाप्यते । पाआ अन्ते(-पादांते) भब्बा कारऊ-भव्याकाराः चारी हारा-चत्वारो हारा गुरवः सज्जीआए-सज्जिताः, ए-एतत् मंजीरा-मंजीरनामकं वृत्तमिति यावत्, इति सुद्धकाअउ-सुद्धकायः शुद्धो निष्कलंक: कायो यस्य स तादृश इत्यर्थः सप्पा राआ-सर्पराजः पिंगलः जंप-जल्पति ।
१८१. मंजीरमुदाहरति, (णीला कारउ)-नीलाकारा मेहा-मेघाः गज्जे-गर्जति उच्चा राबा-उच्चस्वराः मोरङ-मयूराः सद्देशब्दायन्ते, ठामा ठामा-स्थाने स्थाने पिंगा देहउ-पिंगदेहा पीतवर्णेति यावत् बिज्जू-विद्युत् रेहइ-राजते हाराश्च किज्जे-क्रियते मेधैरिति भावः । फुल्ला णीबा-पुष्पितान् नीपान् कदंबपुष्पाणि भम्मरु-भ्रमरा: पीबे-पिबंति, दक्खा-दक्षः मानिनीमानभंजने इति भावः मारुअमारुतः बीअंताए-वीजयति, हंहो हंजे-चेटिके काहा किज्जउ-किं कियंतां कि विधीयतामिति यावत्, कीलंताए-क्रीडंती पाउमप्रावृट् आओ-आगता || मानं त्यक्त्वा कांतमुपगच्छेति चेटीमुखान्निष्कासयितुं कस्याश्चिन्मानिन्याः प्रावृडागमनात् किं विधीयतामिति चेटीं प्रति वाक्यं । मंजीरो निवृत्तः ॥
१८२. अथाष्टादशाक्षरणस्य वृत्तस्यैक(स्य)पंचाशदुत्तरशतत्रयमा(चतु)शताधिकसप्तत्रिंशत्सहस्रतमं भेदं (३७४५०) क्रीडाचक्रनामकं वृत्तं लक्षयति, ज इंदासणेति । ज इंदासणा-यत्र इंद्रासनं लघ्वादिर्यगण इति यावत् तदने एवकारः पूरणीयस्तथा चंद्रासनमेवेत्यर्थः, एक्क-एक: नान्यगणमिलित इति यावत् गणा-गणः पाएहि पाए-पादे पादे सू(सु) हाबेइ-शोभते यत्र पादे यगणातिरिक्तो गणः न पततीत्यर्थः, सुदंडा-सु शोभना दंडा लघवो ज(य)गणादिभूता इति भावः येषु तादृशा इत्यर्थः दहा अठ्ठ-अष्टादश बण्णा-वर्णा यत्र सूठाए-सुस्थाने णिबद्धाइ-निबद्धाः सोहे-शोभंते, जहा-यत्र दहा तिण्णि गुणा-दश त्रिगुणिताः त्रिंशदिति यावत् मत्ता-मात्राः सुपाएसुपादे संठआ-संस्थिताः होंति-भवति, तत् किलाचक्क छंदा-क्रीडाचक्रं छंदः जाए-जायते इति फणिंदा-फणींद्र: पिंगलः भणंता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org