________________
प्राकृतपैंगलम्
३२६
फणिपतिभणितं सरभ-सरभं कह-कथय सरभनामकं तवृत्तमित्यर्थः ॥ अत्र पुनश्चतुष्कल-चतुष्टकथनं पद्यपूरणार्थमेव, नगणचतुष्टयोत्तरसगणरचितचरणं सरभनामकं वृत्तमिति फलितार्थ इति ध्येयम् ॥
१६७. सरभमुदाहरति, तरलेति । तरल कमलदल सरि जुअणअणा-तरलकमल दलसदृशनयनयुगा, सरअ समअ ससि सू(सु)सरिसबअणा-शरत्समयशशिसुसदृशवदना मअ गअ गल करिबर सअलसगमणी-मदकलकरिवरसालसगमना एतादृशी रमणी कमण सू(सु) किअ फल-केन सुकृतफलेन बिहि-विधिना स्रष्ट्रेति यावत् गहु-निर्मिता । सरभो निवृत्तः ।
१६८. अथ षोडशाक्षरणस्य वृत्तस्य षट्त्रिंशदुत्तरपंचशताधिकपञ्चषष्टिसहस्रं (६५५३६) भेदा भवंति, तत्र षट्चत्वारिंशोत्तरा(ष्टशता)धिकैकविंशतिसहस्रतमं (२१८३६) भेदं नाराचनामकं वृत्तं लक्षयति, णरिंदेति । जत्थ-यत्र सव्वलो-सबल-णरिंदनरेन्द्रः मध्यगुरुर्जगण इति यावत् सुपण्ण चक्क-सुपर्णचक्रम् अन्त-अन्ते पादान्ते चारुः सुंदरः सारः पादपूरकत्वात् श्रेष्ठ इति हारहारः गुरु: बट्टए-वर्त्तत, यत्र च पआ-पादे चउबीसए-चतुर्विशति: मात्रा इति शेषः, मध्यलघुरगणश्चेति यावत् दीसए-दृश्यते पंचमे ठाम-पंचमे स्थाने पइक्क-पदातिः मध्यगुरुर्जगण इति यावत् दृश्यते इति पूर्वेणान्वयः, जस्स-यस्य अठ्ठए-अष्टौ गंध-गंधा लघव इति यावत् बंक-वका गुरुवश्चेत्यर्थः पलंत-पतंति, पसिद्ध-प्रसिद्धः ए-एषः णराउ-नाराच: जंप-जल्पत, इहाप्यत्र तत्त्वं पंचमस्थाने पदातिदृश्यत इत्युक्त्या तृतीयचतुर्थस्थाने पुनरपि जगणरगणावेव देयाविति लभ्यते, अन्यथा प्रथमद्वितीयस्थाने जगणरगणयोः पंचमस्थाने पदातेरेवंवचनास्योक्तत्वात् तृतीयचतुर्थस्थाने को गणो देय इत्याकांक्षाया अनिवृत्यापत्तिः, तथाच जगण-गण-जगण-रगण-जगणगुरुरचितचरणः नाराच इति फलितार्थः । यद्यपि अष्टोत्तर-(ष्टाक्षर) प्रस्तारे पमाणि इत्यनेन प्रागेवैतल्लक्षितं, तथापि प्रकरणानुरोधात्तस्यैव पुनरनुवादः कृत इत्यस्मत्तातचरणोपदेशसरणिः । अत्र मात्राकथनं पृथक्त(या) गुरुलघुकथनं च पद्यपूरणार्थमिति ध्येयम् ॥
१६९. नाराचमुदाहरति, चलंतेति । किबाण बाण सल्ल भल्ल चाब चक्क मुग्गरा-कृपाणबाणशल्यभल्लचापचक्रमुद्गरैः रण कम्म अग्गरा-रणकर्मण्यग्राः दक्षा इति यावत् मत्त कोह-क्रोधमत्ताः पहारे बार धीर-प्रहारवारणधीराः शत्रुकृतशस्त्रप्रहाररक्षणे कृतधैर्या इति यावत् बीर बग्ग मझ्झ-वीरवर्गमध्ये पंडिआ-पंडिताः कृतशस्त्रविद्याध्ययना इत्यर्थः पअठ्ठ ओठ कंत दंत-प्रदष्टौष्ठकांतदंताः प्रदष्ट
ओष्ठो यैस्तादृशाः कांताः दंता येषां ते तादृशा इत्यर्थः जोह योद्धार: चरंति, तेन योधचलनेन सेण-सेना मंडिआ-मंडिता । नाराचो निवृत्तः ॥
१७०. अथ षोडशाक्षरचरणवृत्तस्य सप्ताशीत्युत्तरसप्तशताधिकसप्तविंशति २७७८७ (अष्टाविंशति २८०८७) सहस्रतमं भेदं नीलनामकं वृत्तं लक्षयति, णीलेति । हे रमणि प्रिये जहि-यत्र येषां वा अंत-अंते हार-हारो गुरुरिति यावत् ठिआ–स्थितः मुणिज्जइज्ञायते एरिसही-एतादृशैः पंचउ भग्गण-पंचभगणैरादिगुरुकैर्गणैरिति यावत् पाउ(अ) पआसिअ-पादे प्रकाशितं प्रकाशि(त)पादं वा, अवहट्टभाषायां पूर्वनिपातानियमात् बाइसही-द्वाविंशत्या मत्त-मात्राभिः उपलक्षितं णीलसरूअ-नीलस्वरूपं नीलनामकस्य छंदसः स्वरूपमिति यावत् बिआणह-विज्ञायताम्, अत्र च बाबण अग्गल-द्विपंचाशदधिकानि तिण्णि सआ-त्रीणि शतानि मत्त-मात्राः धुअध्रुवं निश्चितमित्यर्थः मुणी-ज्ञायंतां । इदं च चतुः(छंद)करणाभिप्रायेणेति बोध्यं ॥
१७१. नीलमुदाहरति, सज्जिअ इति । बिबठ्ठिअ कोह-विवद्धितक्रोधाः धणू-धनूंषि चलाउ-चालयंतः धनुभ्यो बाणान् क्षिपंत इति भावः जोह-योधाः सज्जिताः कृतसन्नाहाः जाताः, फुरंत तणू-फुरत्तनुः रणणाह-रणनाथ: सेनापतिरित्यर्थः पक्खर बाहकवचिताश्वेन चलितः, करे पाणौ कुंतान् पाशान् धरि-धृत्वा सुसग्गकर-सत्सरुकराः पत्ति-पत्तयः चलंत-चलिताः, एवंक्रमेण कण्ण णरेंद-कर्णनरेन्द्रे सज्जितवृन्दे सति धरा पृथ्वी चलंत-चलिता । नीलो निवृत्तः ।।
१७२. अथषोडशाक्षरचरणस्य वृत्तस्यैकनवत्युत्तरषट्शताधिकत्रिचत्वारिंशत्सहस्रतमं ४३६९१ भेदं चंचलानामकं वृत्तं लक्षयति, दिज्जिए-दीयते तो-तत: एक्क-एक: पओहराइ-पयोधरः मध्यगुरुर्जगण इति यावत् दीयते इत्यनेन पूर्वेणान्वयः, हिण्णि रूअ-अनेन रूपेण मणोहराइ-मनोहराणि सव्वलो-सबलानि पंच चक्क-चक्राणि गणा इत्यर्थः कियंत इति शेषः । अत्र चक्रशब्दो गणवाची, तथा च रगण-जगण-रगणाः अनेन रूपेण पंचगणाः कर्त्तव्याः इत्यर्थः । अंत-अंते पदांते गणपंचकांते वा वंधु-बंधुः निर्वाहकत्वात् गंध: लघुरिति यावत् दिज्ज-दीयते, यत्र च सोलहाइ अक्खराइ-षोडश अक्षराणि पादे पतंतीति शेषः, फणिंद-फणींद्रेण पिंगलेनेति यावत् बिणिम्मिआ-विनिर्मिता बल्लहाइ-वल्लभा पिंगलस्येति भावः, एउ-उषा चंचला-तच्चंचलानामकं वृत्तमित्यर्थः ।।
१७३. चंचलामुदाहरति । कण्ण पत्थ-कर्णपार्थों राधेयफाल्गुनाविति यावत् ढुक्कु-युद्धार्थं मिलितौ, बाण संहएण-बाणसंधेन सूर-सूर्यः लुक्कु-निलीनः, जासु–यस्य घाउ-घात: प्रहारनिपातजात इति शेषः तासु तस्य अंधकारजालप्रविष्ट इव जात इति भावः, एत्थ-एतस्मिन्नवसरे इत्यर्थः कण्ण पूरि-कर्णं पूरयित्वा आकर्णपर्यन्तमाकृष्येति यावत् पत्थ-पार्थेन छड्डएण-मुक्तान् सठ्ठिबाणषष्टिबाणान् पेक्खि-प्रेक्ष्य कित्ति धण्ण-कीर्तिधनेन कण्ण-कर्णेन सब बाण-सर्वे बाणा: कट्ठिएणः कत्तिताः । चंचला निवृत्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org