________________
३२५
परिशिष्ट (३) १५९. चामरमुदाहरति, झत्तीति । तं खणा-त(त्) क्षणे बज्ज-वाद्यानि डिडिमप्रभृतीनि गज्ज-गर्जति, हक्क-हक्का सिंहनादमिति यावत् दिज्ज-ददति, चलंतओ-चलंति च, बीर पाअ-वीरपादैः भूतलंतगा-भूतलांतर्गतः णाअराअ-नागराजः शेषः कंप-कंपते जे जोह-हे योधाः झत्ति-झटिति सज्ज-सज्जिताः कृतसन्नाहा इत्यर्थः होह-भवत ॥ दैत्यसेनाजयाय प्रस्थितस्य शकस्य देवान् प्रति वाक्यमेतत् । चामरं निवृत्तम् ॥
१६०. अथ पंचदशाक्षरचरणस्य (वृत्तस्य) पंचदशोत्तरनवशताधिकैकादश (पंचदशोत्तरद्धादश) (१२०१५) सहस्रतमं भेदं निशिपालनामकं वृत्तं लक्षयति, हाविति । हारु-हारः गुरुरित्यर्थः तिण्णि सरु-त्रयः शरा लघव इत्यर्थः हित्थि परि-अनया परिपाट्या तिग्गणा-त्रिगणान् धरु-स्थापय त्रीन् गुर्वादीन् पंचकलान् गणान् स्थापयेत्यर्थः, (अं)ते गणत्रयांते रगणा-रगणं मध्यलघु गणमित्यर्थः करु-कुरु, एवं प्रकारेण यत्र पदे इति शेषः पंच गुरु-पंच गुरवः दुण्ण लहु-द्विगुणिता लघवः पंच द्विगुणिता दश लघव इति भावः बीस लहु-विंशतिर्लघवः मात्रा इति यावत् आणआ-आनीता: आनीयंते वा, हे चंद्रमुहि सहि-हे चन्द्रमुखि सखि एत्थ-एतत् णिसिपालआ-निशिपालकं छंदः इति कब्बबस्-काव्यवर: काव्ये लोकोत्तरवर्णनानिपुणे कविकर्मणि वरः श्रेष्ठ इत्यर्थः सप्प-सर्पः पिंगल: भण-भणति । अत्र पृथक्तया गुरुलघुकथनं मात्राकथनं च पद्यपूरणाय । भगण-जगण-सगण-नगण-रगण-रचितचरणं निशिपालनामकं वृत्तमिति फलितार्थ इति ध्येयं ।
१६१. निशिपालमुदाहरति, जुझ्झेति । जुझ्झ-युद्धे भूमि-भूमौ पङ–पतिताः पुणु-पुनः उठ्ठि-उत्थाय लग्गिआ-लग्नाः युद्धायेति भावः, सग्ग मण-स्वर्गमनसः भट-भटाः खग्ग हण-खड्गेन हं(घ्न)ति, तथापि कोइ णइ-कोऽपि नहि भग्गिआ-भग्नः । तिक्ख-तीक्ष्णः बीस-विंशतिः सर-शराः कण्ण-कर्णेन गुण अप्पिआ-गुणार्पिता: प्रत्यंचा(पतंजिका) युक्ता इति यावत् कर-कृताः तह-तथा पत्थ-पार्थेन दह-दश बाणान् इति शेषः जोलि-योजयित्वा चाउ सह-चापेन सह कप्पिआ–कत्तिताः, कर्णबाणा इति भावः ॥ निशिपालो निवृत्तः ॥
१६२. अथ पंचदशाक्षरचरणस्य (अष्टा)विंशत्युत्तरषट्शताधिकैकादशसहस्रतमं (११६२८) भेदं मनोहंसनामकं वृत्तं लक्षयति, जहीति । जहि आइ हत्थ-यत्र आदौ हस्तः गुर्वतः सगण इत्यर्थः णरिंद बिण्णबि-नरेन्द्रद्वयमपि मध्यगुरुजगणद्वयमपीत्यर्थः दिज्जिएक्रियते । अंतहि-अंते लघुद्वयांते इत्यर्थः गुरु गाइ-गुरुमुच्चार्य गंध अ हार-गंध: लघुश्च पुनः हारो गुरु थप्पिआ-स्थापितः, तत् पिंगल जंपिआ–पिंगलजल्पितं पसिद्ध-प्रसिद्ध मणहंस छंद-मनोहंस (च्छन्दः) ॥
१६३. मनोहंसमुदाहरति, जहीति । जहि-यत्र मंजुला-(मंजुला)निज केसु असोअ-चंपअ किंशुकाशोकचंपकानि फुल्ल पुष्पितानि, भम्मरा-भ्रमरा: सहकारकेशरगंधलुब्धा जाता इति शेषः । माणह भंजणा-मानस्य भंजन: अतएव दक्ख-दक्षः मानिनीमानभंजने इति शेष: दक्खिण वाउ-दक्षिणवातः वह-वहति, स: लोअ लोअण रंजणा-लोकलोचनरंजनो महुमा(स)-मधुमास: वसंतसंबंधी मास इत्यर्थ आबिअ-आगतः ॥ मनोहंसो निवृत्तः ॥
१६४. अथ पंचदशाक्षरचरणस्य वृत्तस्य द्विसप्तत्युत्तरषट्शताधिकचतुःसहस्रतमं (४६७२) भेदं मालिनीनाम वृत्तं लक्षयति, पढमेति । यत् पढम-प्रथमं रस सहित्तं-रससहितं रसाभ्यां सहितमित्यर्थः, "भाबा रस तांडबअंणारीअइ कुल भामिणि। तिलहु गणस्स कइअरो इअ णामं पिंगलो भणइ ।" इति पूर्वं रसपदस्य त्रिलघुनामसूपात्तत्वाद्रसशब्दस्त्रिलघुकगणवाची, बीअ ठाणेद्वितीयस्थाने चरमे (चमर) तिअ णिबद्धं-चमरत्रयनिबद्धं, चमरो गुरुत्रयेण मगणेनेति यावत् निबद्धं यत्र चेति शेषः, अंत-अंते मगणांते इत्यर्थः सर-शरः लघुः गुरुजुअ-गुरुयुगं गंध-गंधा लघुः कण्णा-कर्णः द्विगुरुको गण: णिबद्धं-निबद्धः तत् चित्त मझ्झे णिहित्तंचित्तमध्ये निहितं पसिद्ध-प्रसिद्ध मालिणी णाम वुत्तं-मालिनीनाम वृत्तं ज्ञातव्यमिति शेषः, इति सरस कब्बो-सरसकाव्यः सरसं काव्यं यस्य स तादृशः पिंगल इत्यर्थः भणइ-भणति ॥
१६५. मालिनीमुदाहरति, बहईति । हे हंजे-चेटिके मलअ बाआ-मलयवातः बहइ-(बह)ति, हंत इति खेदे, काआ–कायः कंपंत-कंपते, कोइलालाब बंधा-कोकिलालापबंधः सबण रंधा-श्रवणरंध्र हणइ(-ह)ति । भिंग झंकार भारा-भृगझंकारसमूहाः दह दिहासुं-दशदिक्षु सुणिअ-श्रूयंते, चंड चंडाल मारा-चंड: चंडालमार: चंडो महाक्रोधी चंडालइव चंडालस्तद्वन्निष्ठुरः मारः काम: हणिअ-हतं मल्लक्षणं जनं हणइ-हंति ॥ मलयवातादिभिर्हतां मां यदयं कामो हंति कोऽयस्य पुरुषार्थः, मत्प्रियं हत्वा मद्वशं यदि नयति तदैनं परमपुरुषार्थिनं मन्ये इति गूढाभिप्रायायाः कस्याश्चिद्वाक्यमेतत् । मालिनी निवृत्ता ।।
१६६. अथ पंचदशाक्षरचरणस्य वृत्तस्य चतुरशीत्युत्तरद्वि(त्रि)शताधिकषोडशसहस्रतमं (१६३८४) भेदं सरभनामकं वृत्तं लक्षयति, भणिअ इति । यत्रादौ सर लह सहिओ-सरलघुसहितं सर-सर: एकलध्वात्मको गणः अथच लघुस्ताभ्यां युक्तमित्यर्थ सू(सु) पिअ गण सुप्रियगणं सुप्रियो द्विलघ्वात्मको गणस्तमित्यर्थः भणिअ-भणित्वा, दिअबर जुअ (कर)ल-द्विजवरयुगकरतलौ द्विजवरश्चतुर्लघ्वात्मको गणस्तधुगं करतलो गुर्वन्तसगणस्तमित्यर्थः लहिओ-लब्धौ, एवंप्रकारेणेति शेषः जह-यत्र चउ चउकल गणचत्वारश्चतु:कला गणाः पअ पअ-पादे पादे प्रतिपादमिति यावत् मुणिओ-ज्ञाता: हे सुपिअ-सुप्रिय शिष्य तत् फणिबइ भणिओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org