________________
३२४
प्राकृतपैंगलम् १५१. वसंततिलकामुदाहरति । (जे-) ये लोकाः तीअ-तस्याः तिक्ख चल चक्खुतिहाब दिला तीक्ष्णचलचक्षुस्त्रिभागदृष्टाः, ते काम चंद महु पंचम मारणिज्जा-कामचंद्रमधुपंचममारणीया जाता इति शेषः । जेसुं-येषु उणो-पुनः तस्याः (स) अला बि दिठ्ठी-सकलापि दृष्टिः णिबिडिआ-निपतिता, ते तिल जलांजलि दाण जोग्गा-तिलजलांजलिदानयोग्याः चिकृति-तिष्ठति । कर्पूरमंजरीवर्णनपरं विदूषकं प्रति राज्ञो वाक्यमेतत् । वसंततिलका निवृत्ता ॥
१५२. अथ चतुर्दशाक्षरचरणस्य वृत्तस्यैक(नवत्युत्तरैक)शताधिकाष्टसहस्रतमं ८१९१ भेदं चक्रपदनामकं वृत्तं लक्षयति, संभणिअ इति । मुहो-मुखे प्रथममिति यावत् पलिअ-पतितं चरणगणं गुर्वादिभगणमित्यर्थः संभणिअ-संभण्य, पुणबि-पुनरपि दिअबर जुअलो-द्विजवरजुगलं चतुर्लध्वात्मकगणद्वयमिति यावत् संठविअ-संस्थाप्य । जं-यत्र पअ पअ-पादे पादे प्रतिचरणमिति यावत् करअल गण-करतलगण: गुर्वंतः सगण इति यावत् मुणिओ-ज्ञातः, तत् फणिबइ भणिओ-फणिपतिभणितं चक्कपअ-चक्रपदं प्रभण ॥
१५३. चक्रपदमुदाहरति, खंजणेति । अत्रावहट्टभाषायां पूर्वनिपातानियमात् उपमा शब्दस्य पूर्वनिपातं कृत्वा योजनीयं, तथाच खंजनजु(यु) गलोपमनयनवरा खंलनयुगलस्य उपमा ययोः तादृशे अपि नयने ताभ्यां वरा रमणीत्येत्यर्थः चारु कणअ लइ भुअजुअ सू(सु)समा-चारुकनकलताभुजयुगसुषमा चार्वी कनकलताया इव भुजयुगस्य सुषमा यस्यास्तादृशीत्यर्थः, फुल्ल कमल मुहिफुल्लकमलमुखी गअबर गमणी-गजवरगमना रमणी ललना कस्स सू(सु)किअ फल-कस्य सुकृतफलेन विधिना गटु-सृष्टा ॥ एतादृशी कांता कान्तिभाविता कस्य पुण्येन ब्रह्मणेयं निर्मितेत्यर्थः । चक्रपदं निवृत्तं ।।
१५४. अथ पंचदशाक्षरचरणस्याष्टषट्युत्तरसप्तशताधिकद्वात्रिंशत्सहस्रं ३२७६८ भेदा भवंति, तत्र त्रय(चतु)श्चत्वारिंशोत्तरचतुर्दशसहस्रतमं (१४०४४) भेदं भ्रमरावलीनामकं वृत्तं लक्षयति । यत्र पसिद्ध-प्रसिद्धैः पंच-पंचभिः कर-करैः गुर्वंतसगणैरिति यावत् बिलद्ध बरं-विलद्ध(ब्ध)वरमतिरमणीयमिति यावत् रअणं-रचनं किअं-कृतं, गुरु पंच-पंच गुरवः दहा लह-दश लघवः प्रसिद्ध-प्रसिद्धास्तत् मणोहर-मनोहरं छंदवरं-छन्दः श्रेष्ठं रअणं-रत्नं रत्नप्रायमिति यावत् रइअं-रचितं ठइअ-स्थापितं पिंगलेनेति भावः, एरिसिअं-एतादृशं भमरावलि छंद-भ्रमरावलीच्छन्दः पभणंति-प्रभणंति पंडिता इति शेषः । अत्र छन्दोविशेषणं भिन्नतया लघुगुरुकथनं च पद्यपूरणार्थमिति मंतव्यं, सगणपंचकरचितचरणा भ्रमरावलीति फलितार्थः ।
१५५. भ्रमरावलीमुदाहरति, तुअ देवेति । हे चन्द्रकलाभरण देव दुरित्त गणा हरणा-दुरितगणहरणौ तुअ-तव चरणौ जइयदि सरणा-शरणे पाबऊ-प्राप्नोमि, तदो(दा) (लो) भमण-लोभे मनः भबणं-भवनं च तेज्जिअ-त्यक्त्वा परिपूजउ-परिपूजयामि, हे सोक बिणास मणा-त्रिभुवनतलतियावज्जीवशोकनिवारणमना इत्यर्थः, हे समणा-हे शमन मह-मां सूख-सुखं त्वच्चरणाराधनोद्भूतनित्यानंदमिति यावत् दे-देहि । कस्यचिद्भक्तस्य महादेवप्रार्थनावाक्यमेतत् । भ्रमरावली निवृत्ता।
१५६. अथ पंचदशाक्षरचरणस्य वृत्तस्य प्रथमं भेदं सारंगिकानामकं वृत्तं लक्षयति, कण्णेति । सत्ता कण्णा-सप्त कर्णाः गुरुद्वयात्मका गणा इति यावत् दिण्णा-दीयंते दत्ता दत्वा वेत्यर्थः, अंते-सप्तकर्णांते एक्का हारा-एको हाराः गुरुरित्यर्थः माणिआमान्यते, एवंप्रकारेण यत्र पाए-पादे पण्णाराहा-पंचदश हार-गुरवः मत्ता मात्राश्च तीसा–त्रिंशत् पत्ता-प्राप्ताः जाणीआ-ज्ञायते, यत्र सूणी-श्रुत्वा मंथा-मस्तकं कंपंता-कंपते श्लाघते इति भावः, तत् सारंगिक्का छंदा सारिंगकाच्छन्दः इति भोई राआ-भोगिराजः पिंगल: जंपंत-जल्पति, किं च एतत् छंदा-छंदः किज्जे-क्रियते कित्ती-कीतिः लिज्जे-गृह्यते । अत्र मात्राकथनं चतुर्थश्चरणश्च पद्यपूरणार्थमिति ध्येयं, पंचदशगुरुरचितचरणा सारंगिकेति निष्कृष्टोर्थः ॥
१५७. सारंगिकामुदाहरति । मत्ता-उन्मत्ता: अप्पा अप्पी गब्बीआ-अहमहमिकया गर्विताः बढे कोहा-वद्धितक्रोधाः रोसारत्ता सव्वा गत्ता-रोषा रक्तसर्वगात्रा: जोहा-योद्धारः ज्ञाताः, सल्ला–शल्यानि भल्लाश्चआयुधविशेषाः उठ्ठीआ-उत्थिताः । हत्थी जूहाहस्तियूथानि सज्जा-सज्जितानि हुआ-जातानि, तेषां पाए-पादैः भूमी-भूमिः कंपंता-कंपिता, लेही-गृहाण देहि-दे (हि) छड्डोत्यज ओड्डो-प्रतीक्षध्वमिति सव्बा सूरा-सर्वे शूराः जंपंता-जल्पंति यत्र संग्रामे इति शेषः यथायथं योजनीयः । सारंगिका निवृत्ता।
१५८. अथ पंचदशाक्षरचरणस्य वृत्तस्यैक(स्य त्रयो)विंशत्युत्तरनवशताधिकदशसहस्रतमं (१०९२३) भेदं चामरनामकं वृत्तं लक्षयति, चामरस्सेति । हे कामिनि ठाइ ठाइ-स्थाने स्थाने अंतरेति यावत् णिम्मला-निर्मला: अठ्ठ हार-अष्टौ हारा गुरवः सत्त सा(र)सप्त सारा लघवः, एवंप्रकारेण दाहाइ पंच-दशपंच पंचदशेत्यर्थः अक्खरा-अक्षराणि तीणि मत्त अग्गला–त्रिमात्राधिका: बीस मत्तविंशतिर्मात्राश्च चामरस्स-चामरस्स चामराख्यवृत्तस्येति यावत् पादे पतंतीति शेषः, आइ अंत-आद्यंतयोः पादाद्यंतयोरित्यर्थः हारो गुरुः सार: श्रेष्ठः मुणिज्जए-मन्यते, पादादौ अंते च गुरुर्देय इति भावः, इति पिंगले भणिज्जए-पिंगलेन भण्यते । अयमाशयः-प्रथम गुरुस्तदनंतरं लघुः पुनः गुरुः पुनस्तदनंतरं लघुरेवंप्रकारेण पंचदशा(क्षरा)णि कर्त्तव्यानि, तथा च रगण-जगण रगण-जगण-रगणरचितचरणं चामरमिति फलितार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org