________________
परिशिष्ट (३)
१४२. मायामुदाहरति । ए- एतत् शरीरा शरीरं अत्थीरा- अस्थिरं देक्खु-पश्य, घरु जाआ बित्ता पुत्ता सोअर मित्तागृहजायावित्तपुत्रसोदरमित्राणि एतत्सर्वं माया मिथ्याभूतमित्यर्थः । अतः हे बब्बर - बर्बर काहे लागी - किमर्थं मुझे - विमुह्य बेलाबसिविलम्बयसि जइ सुझ्झे-यदि जानासि, तदा जुत्ती - युक्तां कित्ती - कीर्ति किज्जहि कुरु । अतिसंसारासक्तं कुकर्मिणं कंचित्प्रति कस्यचिन्मित्रस्योपदेशवाक्यमेतत् । माया निवृत्ता ॥
३२३
१४३. अथ त्रयोदशाक्षरचरणस्य वृत्तस्य षट्पंचाशदुत्तरसप्तदशशततमं भेदं (१७५६) तारकनामकं वृत्तं लक्षयति, ठईति । यत्र पाअ - पादे आह- आदौ - लहू जुअ-लघुद्वयं ठइ - स्थापयित्वा गुरु सल्ल जुआ - गुरुशल्ययुगे करीजे - क्रियेते एको गुरुः लघुद्वयं च क्रियत इत्यर्थः, ततो भअणा जुअ- भगणो गुर्वादिर्गणस्तद्युगं दीजे - दीयते । पअ अंतह पाइ गुरु जुअ-पादांतः पातिगुरुयुगं किज्जेक्रियते, सहि- हे सखि तस्य छंदह-छंदसः तारअ - तारकम् - इति णाम- अभिधानं भणिज्जे-भण्यते ॥ सगणचतुष्टयोत्तरगुरुरचितचरणं तारकमिति फलितार्थः ॥
१४४. तारकमुदाहरति, णबेति । चूअगाछे-चूतवृक्षेण णब-नवा मंजरि-मंजरि लिज्जिअ - गृहीता, केसू (सु) णआ वणकिंशुकनूतनवनं आछे सम्यक्यथा स्यात्तथा परिफुल्लिअ - परिपुष्पितं । जइ - यदि एत्थि - अत्र वसंतसमये इत्यर्थः कंता-कांत: दिगंतरदिगंतरं जाइहि-यास्यति, तदा किअ-किं बम्मह - मन्मथः णत्थि - नास्ति, कि- किंवा नास्ति वसंतः ॥ कांतं देशांतरजिगमिषुं ज्ञात्वा विमनायमानां कांचिन्नायिकां (प्र) ति - यद्यस्मिन्नपि कान्तो गमिष्यति तदा तस्य निवारकः कामः वसंतो नास्ति किंतु विद्यत एवेति त्वं मा विषीदेति गूढाभिप्रायायाः कस्याश्चित् सख्या वाक्यमेतत् । तारकं निवृत्तम् ।
१४५. अथ त्रयोदशाक्षरचरणवृत्तस्य द्वयशीत्युत्तरषट्शताधिकचतुः सहस्रतमं ४६८२ भेदं कंदनामकं वृत्तं लक्षयति, धआ इति । यत्र पूर्वं धआ-ध्वजो लघ्वादित्रिकल इति यावत् तत: तूर - तूर्यं गुर्वादिस्त्रिकल इति यावत् हारो - गुरुः उणो- पुनः हारेण - गुरुणा सह तूर - तूर्यं गुर्वादिस्त्रिकलः पुरः स्थितगुरुर्गुर्वादिस्त्रिकल इति यावत् अ-पुनः एक्का तआरेण - एकतकारेण लब्धं तगणेनेति यावत् गुरु- गुरु: सद्द - शब्दो लघुः पुरः स्थिततगणो गुरुलघुश्चेति यावत् किज्जे-क्रियते, इदं च क्रियापदं यथायथं योज्यं । यत्र च सब्ब पाएण-पादेन पादचतुष्टयेनेति यावत् चउ अग्गला-चतुरधिका असी-अशीतिः कला - मात्रा होई - भवंति, तत् कईसा - कवीशेन णाएण - नागेन पिंगलेन जंपिज्ज - जल्पितं कंदु - कंदः ॥ तत् कंदनामकं वृत्तमित्यर्थः । अत्र मात्राकथनं पद्यपूरणार्थमिति ध्येयं । गुरु (लघु) तरयगणचतुष्टयेन कंद इति फलितार्थः ।
१४७. कंदमुदाहरति, ण रे इति । रे कंस तो वंस कालाइ - त्वद्वंशकालः देबई पुत्त - देवकीपुत्रः एक्क - एक: अद्वितीय इति यावत् बाला-बालकः हो - भवामि इति मुहे - मां ण जाणेहि-न जानासि । इत्युक्त्वेति शेषः जणाणंद कंदेण-सकलजीवानंदहेतुना श्रीकृष्णेनेत्यर्थः तथा कंसो - कंसः गणहु - गृहीतः यथा णिआ णारि बिदेण- निजनारीवृन्देन हंति - हतः दिट्ठ- दृष्टः । कंदो निवृत्तः । १४८. अथ त्रयोदशाक्षरचरणस्य वृत्तस्यैकोनचत्वारिंशोत्तर (सप्त) सहस्रतमं ७०३९ भेदं पंकावलीनामकं वृत्तं लक्षयति, चामरेति । पढमेहि-प्रथमं चामर-चामरं गुरुं ततः धुव - (ध्रुवं) निश्चितमिति यावत् पापगणं-पंचकलस्याष्टमं भेदं सर्वलघ्वात्मकमिति यावत् जुब - युगं ठाबहि - स्थापय । इदं च क्रियापदं यथायथं योज्यं । पअप्पअ-पादे पादे प्रतिचरणमित्यर्थः यत्रेति शेष: सोलहषोडश कलअ - कलाश्च जाणिअ-ज्ञायंते, तं तां पंकअबालिअ-पंकावलीं तत्पंकावलीनामकं वृत्तमित्यर्थः पिंगल-पिंगल: पभणइप्रभणति । अत्र मात्राकथनं पद्यपूरणार्थमिति मंतव्यं । भगण-नगण- लघूत्तरजगणद्वय-रचितचरणा पंकावलीति निष्कृष्टोर्थः ॥
१४९. पंकावलीमुदाहरति, सो जणेति । सो-सः जण - जनः जणमेउ-जातः सजन्मेति यावत्, सः गुणमंतर - गुणवान्, जेयः हसंतउ-हसन् सन् पर उबआर - परोपकारं बिरुझ्झइ - विरुणद्धि तासू-तस्य जणणि- जननी वंझ्झ-वंध्यैव किं न कथक्क-तिष्ठति । व्यर्थमेव प्रसूयते इत्यर्थः ॥ किंचित् स्वमित्रं प्रति कस्यचिदुपदेशवाक्यमेतत् । पंकावली निवृत्ता ॥
१५०. अथ चतुर्द्दशाक्षरचरणस्य वृत्तस्य चतुरशीत्यधिकशतत्र्योत्तरषोडशसहस्रं भेदा भवंति, तत्रैक (त्र त्रयः ) त्रिंशोत्तरन (व) - शताधिकाद्विसहस्रमं भेदं (२९३२) वसंततिलकानामकं वृत्तं लक्षयति, कण्णविति । पढमे -प्रथमे स्थाने कण्णो-कर्णः गुरुद्वयात्मको गण इति यावत् अ-च पुनः बीए द्वितीये स्थाने जअणो- जगणो मध्यगुरुगणः, अंते-जगणांते तुरंग - तुरंगश्चतुर्मात्राकः सगण इति यावत् ततश्च सगणो- पुनः सगण एवं गुर्वंत इति यावत् । क्वचिच्च दुअम्मि सतणो इति पाठस्तत्र दु (अ)म्मि सगणो- सगणद्वयमपि
तगणद्वयमिति यावदित्यर्थः कर्त्तव्यः, अवहट्टभाषायां पूर्वापरव्यत्यासे दोषाभावात् अ-च पुनः पाअ गणो-लघ्वादिर्गण इत्यर्थः जत्थ-यत्र पाए - पादे ठबिज्ज-स्थाप्यत इति यथायथं योज्यताम् । फणिणा- पिंगलेन उत्ता-उक्तां उकिठ्ठा - उत्कृष्टां सु कइंद दिठ्ठासुतरां कवींद्रदृष्टां सरसा- प्रेमाविष्टाः छेआ - विदग्धाः बसंततिलआ - वसंततिलकां पठंति ॥ तगणभगणगुरुद्वयोत्तरय (ज) गणद्वयरचितचरणा वसंततिलकेति फलितार्थः ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org