________________
प्राकृतपैंगलम्
३२२
कोकिलारावेण दुरंत: दुष्टः मरणादिजनकः अंतो यस्य तादृशो वसंतनामा ऋतुः, तस्मात् कि णिद्दअ काम-कि निर्दयः कामः कि णिद्दअ कंत-किं निर्दयः कांतः ॥ एतादृशेऽपि समयेन आगतः सः प्रियो निर्दयः, प्राणेश्वरप्राणां मां ज्ञात्वा योऽतिदुःखं प्रयच्छति स कामो वा निर्दय इति कस्याश्चित्प्रोषितपतिकायाः सखी प्रति वचनमेतत् । मौक्तिकदाम निवृत्तम् । .
१३५. अथ द्वादशाक्षरचरणस्य वृत्तस्यैकादशोत्तरपञ्चत्रिंशत्शततमं ३५११ भेदं मोदकनामकं वृत्तं लक्षयति, तोलेति । तोलअ छंद-तोटकच्छंद: बिरीअ-विपरीतं ठबिज्जसु-स्थापयस्व, अतएव चारि गणा-चत्वारो गणाः भअणा-भगणा आदिगुरुकाः गणा इति यावत् सुपसिद्धऊ-सुप्रसिद्धा यत्र प्रतिचरणं पतंतीति शेषः, तस्य छंदह-छंदसः मोदअ-मोदकं नाम अभिधानं करिज्जसु-कुरुष्व इति कितिहि लुद्ध-कीर्तिलुब्धः पिंगल: जंपइ-जल्पति ॥ इदमत्र तत्त्वं, चतुर्भिर्गुक्तगणैस्तोटकच्छंदो भवति तद्विपरीतस्थापनेनादिगुरुकैश्चतुर्भिर्गणैर्मोदकं भवति । वक्रोक्तिस्तु पद्यपूरणायेति मंतव्यम् ।
१३६. मोदकमुदाहरति । गज्जेति । मेह-मेघः गज्जउ-गजंतु, कि-किंवा अंबर-अंबरम् आकाशमिति यावत् साबरश्यामलं भवत्विति शेषः णीब-नीपः कदम्बः फुल्लउ-विकसतु, कि-किंवा भम्मर-भ्रमरा: बुल्लउ-गुंजंतु अम्मह-अस्माकं पराहिणपराधीनमन्यायत्तमिति यावत् एक्कऊ-एकमेव जीवं किंवा पाउस-प्रावृट् लेउ-गृह्णातु || अत्र लेउ इति एकारो ह्रस्वो बोध्यः । वर्षागमेऽप्यनागतं विदेशिनं पति ज्ञात्वा अतिकामार्तायाः कस्याश्चित्प्रोषितभर्तृकायाः कांचित्प्रियसखीं प्रति वचनमेतत् । मोदकवृत्तं निवृत्तम् ।
१३७. अथ द्वादशाक्षरचरणस्य वृत्तस्यांतिमं भेदं तरलनयनानामकं वृत्तं लक्षयति, णगणेति । हे कमलमुखि णगण-प्रथम नगणः सर्वलघ्वात्मको गणः पुनः नगणः स एव, एवंप्रकारेण चउ गण-चतुरः गणान् नगणचतुष्टयमित्यर्थः कइ-कृत्वा सब-सर्वान् द्वादशापि पादस्थान् वर्णान् लहु-लघून् कुरु, जबऊ-यावंतः सब गुरु-सर्वगुरवो गुरुयुक्ता यावंतो द्वादशाक्षरभेदा इत्यर्थः तावंत इति शेषः णिबरि-निराकृत्य भिन्नीकृत्येति यावत् तरलणअणि-तरलनयना एतन्नामकं वृत्तमित्यर्थः कह-कथय इति सूकइ-सुकविः फणि-फणी पिंगल: भण-भणति ॥ अत्र गुरुयुक्तयावद्भे(द)कथनं पद्यपूरणार्थमेवेति मंतव्यं नगणचतुष्टयरचितचरणा तरलनयनेति निकृष्टोर्थः ॥
१३८. तरलनयनामुदाहरति, कमलेति । कमल बअण-कमलवदनः तिणअ(ण)-त्रिनयनः गिरि बर सअण-गिरिवरशयन: तिसुलधर-त्रिशूलधरः । ससहर तिलअ-शशधरतिलकः गल गरल-कंठस्थितविषः हर-हर: महादेवः मह-मह्यं अभिमत बरसमीहितवरं बितरउ-वितरतु ॥ तरलनयना निवृत्ता ॥
१३९. अथ द्वादशाक्षरचरणस्य वृत्तस्य चतुःषष्ट्युत्तरशतचतुष्टयाधिकसहस्रद्वया(सहस्रा)त्मकं भेदं (१४६४) सुंदरीनामकं वृत्तं लक्षयति, णगणेति । हे सुमुखि यत्र पूर्वे णगण चामर गंधजुआ-नगणचामरगंधयुगानि नगणस्त्रिलघ्वात्मको गणः चामरम् एकोगुरुः गंधजुआ-गंधयुगं लघुद्वयमिति यावत् तानीत्यर्थः ठबे-स्थाप्यंते, ततः जइ-यदि चामरम् एको गुरुः सल्लजुआ-शल्ययुगं शल्यो लघुस्तद्वयमित्यर्थः संभवे-संभवति । पअंभ(त)हि-पादान्ते एक्क-एक-रगण:-मध्यलघुर्गण: लेक्खिआ-लिखितः सा पिंगलदर्शिता पिंगलेन उपदर्शितेति यावत् सुंदरी सुंदरीनामकं तवृत्तं पिंगलेनोपदिष्टमित्यर्थः । तस्यैव ग्रंथांतरे दुत्तविलम्बिते(तमि)ति नाम, अतएव द्रुतविलम्बितमाह नभौ भराविति लक्षणमपि तत्रैव कृतमिति ।।
१४०. सुंदरीमुदाहरति । काचित्सखी कलहांतरितां महामानवी कांचिन्नायिकामाह, बहईति । हे सुन्दरि सर्वावयवरमणीये माहब संभवा-माधवो वसंतस्तत्रोत्पन्न इत्यर्थः सीअला-शीतः दक्खिण मारुअ-दक्षिणमारुतः बहइ-वाति, कोइला-कोकिलः पंचम कोमल-पंचमं कोमलं यथा स्थात्तथा गवइ-गायति । महु पाण बहू सरा-मधुपानबहुस्वरा मधु मकरंदस्तस्य पानेनातिगंभीरस्वरा इत्यर्थः महुअरा-मधुकरा भ्रमराः भमइ-भ्रमंति ॥ अतस्त्वमपि मानं विहाय कांतमभिसरेत्याशयः । सुमुखी (सुंदरी) निवृत्ता ।
१४१. अथ त्रयोदशाक्षरचरणस्य वृत्तस्य द्विनवत्युत्तरैकशतोत्तराष्टसहस्रं ८१९२ भेदा भवंति, तत्र द्वा(त्रयः) त्रिंशोत्तरषोडश(शत)तमं भेदं (१६३३) मायानामकं वृत्तं लक्षयति, कण्णेति । जं-यत्र पूर्वं कण्णा दुण्णा-कर्णद्वयं गुरुद्वयात्मकगणयुगमिति यावत्, ततः चामरचामरं गुरुस्ततश्च सल्ला जुअला-शल्ययुगलं शल्यो लघुस्तद्वयमित्यर्थः, ततोऽपि बीहा दीहा-द्वौ दीघौ गुरुद्वयमिति यावत्, ततश्च गंधअ जुग्गा-गंधयुगं गंधो लघुस्तद्वयमित्यर्थः, अन्ते लघुद्वयान्ते पादांते वा कंता-कांतौ चामर हारा-गुरुद्वयमित्यर्थः, एते गणा इति शेषः पअला-प्रकटिताः, तं-तां सू(सु)हकाआ-शुभकायां बाईसा मत्ता-द्वाविंशतिमात्राकां गुणजुता-गुणयुक्ताः माआ-मायां भणू-कथय । केचित्तु शुभकायाः शुद्धशरीरा: गुणजुता-गुणयुक्ताः द्वाविंशतिर्मात्राश्च पतंतीति मात्राविशेषणतया पदद्वयं योजयंति । मात्राकथनं सुहकाआ गुणजुत्तेति च पदद्वयमत्र पादपूरणार्थमेवेति ध्येयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org