________________
३२१
परिशिष्ट (३) सेणा-सेनेव सेनेति भावः ॥ यद्वा पादस्थापितमहामातंगा कटाक्षा एव धृतास्तीक्ष्णबाणा यथा वेत्यर्थः भुजपाशा भुजैव पाशो यस्याः सेत्यर्थः, धनुःसमानभ्रूका नागरी कामनृपतेः सेनेव यातीति शेषः इति योजनीयं । पूर्वापरशब्दव्यत्यासस्तु प्राकृतभाषायां न दोषायेति मंतव्यम् । भुजंगप्रयातं निवृत्तम् ।
१२७. अथ द्वादशाक्षर(चर)णवृत्तस्यैकसप्तत्युत्तरैकादशशततमं ११७१ भेदं लक्ष्मीधरनामकं वृत्तं लक्षयति, हार गंधेति । हार गंधा-हारगंधौ गुरुलघू इति यावत् तहा कण्ण गंधा-तथा कर्णगन्धौ कर्णो गुरुद्वयात्मको गण: गंधो लघुस्तावित्यर्थः उणो-पुनः कण्ण सद्दा-कर्णशब्दौ गुरुद्वयात्मकगणलघू इति यावत् तहा तो-तथा तो तलघुस्तगण इत्यर्थः गुरुआ गणो-गुरुकगणः । हए रूएण-एवं रूपेण एतावदुपादानविधिनेति यावत् चारि जोहा गणा-चत्वारो योद्धगणा रगणा इति यावत् यत्र प्रतिचरणं पतंतीति शेषः, सो-सः लच्छीहरो-लक्ष्मीधरः मुणो-ज्ञातव्यः, इति णाअराआ-नागराजा पिंगल इति यावत् भणो-भणति ॥ रगणचतुष्टयरचितचरणं लक्ष्मीधरनामकं वृत्तं ज्ञातव्यमिति फलितार्थः । अत्र रगणचतुष्टयोट्टवनिकाप्रकार: पूर्वार्द्धणोक्तमिति ध्येयम् ।।
१२८. लक्ष्मीधरमुदाहरति, भंजिआ इति । मालवा-मालवदेशाधिपतयो राजानः भंजिआ-भंजिता भग्ना इति यावत् कण्णला-कर्णाटाः कर्णाटदेशीया राजान इति यावत् गंजिआ-गंजिता मारिता इति यावत्, लुंठिआ कुंजरा-लुंठितकुञ्जराः लुण्ठिताः बलाद्गृहीताः कुञ्जरा हस्तिनो येषां तादृशा इत्यर्थः गुज्जरा-गुजरदेशीय राजानो जिण्णिआ–जिताः । बंगला-वंगाः भंगलापलायिताः, ओड्डिआ-ओड्रदेशीया राजानः मोड्डिआ-मोटिताः मेच्चआ-म्लेच्छाः कंपिआ-कंपिताः, कित्तिआ-कीर्तयः थप्पिआस्थापिताः ॥ स रामो जयतीति प्रबंधेन युज्यते । लक्ष्मीधरो निवृत्तः ॥
१२९. अथ द्वादशाक्षरचरणस्य वृत्तस्य पंच(षट्) पंचाशदधिकसप्तदशशततमं (१७५६) भेदं तोटकनामकं वृत्तं लक्षयति सगणेति । जही-यत्र चारि चत्वारि सगणा गुर्वंतगणाः धुव-ध्रुवं पलंति-पतंति, सोलह मत्त विराम कही-षोडशमात्राकथितविराम षोडशमात्रासु कथितो विरामो विच्छेदो यस्मिस्तदित्यर्थः । तह-तथा रइअं-रचितं पिंगलेनेति यावत् छंद बरं-छंदः श्रेष्ठं इअ-एतत् तोटअ-तोटकं भण-कथय इति पिंगलिअं-पिंगलीयैः पिंगलप्रयुक्तच्छंदःशास्त्राभिज्ञैरिति यावत्, उचिअं-उचितं भणि-भणितं ॥
__ १३०. तोटकमुदाहरति, चलेति । हे बब्बर-बर्बर गुज्जर-गुजराधीश तुअ-तव जीअ(ब)ण-जीवनं अज्जु-अद्य णहीनास्ति, अत: कुज्जर-कुंजरान् मही-महीं तेज्जि-त्यक्त्वा चल-गच्छ त्वमिति शेषः । कथं जीवनं नास्तीत्यत आह जईति । कण्ण णरेंद बरा-कर्णनरेंद्रवरः जइ-यदि कुप्पिअ-कुपितस्तदेति शेषः रण-रणे को हस्-को हरः हरि को-हरि: क: बज्जहरा-वज्रधरः ॥ गुजरजयार्थं प्रयातकर्णनरपतिप्रतियुद्धाय समुपस्थितं गुजरदेशाधिपति प्रति कस्यचिद्वंदिजनस्यैतद्वचनम् । तोटकं निवृत्तम्। .
१३१. अथ द्वादशाक्षरचरणस्य वृत्तस्य एकचत्वारिंशतोत्तरत्रयोविंशतिशततमं २३४१ भेदं सारंगरूपकनामकं वृत्तं लक्षयति, जा चारीति । यत् चारि तक्कार संभेअ उक्किट्ठ-चतुस्तकारसंभेदोत्कृष्टं चतुस्तकाराणां चतुर्णामंतलघुतगणानां यः संभेद: संबाधस्तेनोत्कृष्ट सुश्राव्यत्वाद्युत्कर्षयुक्तमित्यर्थः, यत् पाएहि-पादेषु तीअ बीसाम संजुत्त-तृतीयविश्रामसंयुक्तं तत्र तृतीयाक्षरे यतिस्तादृशमित्यर्थः अण्णोण्ण भाएहि-अन्योन्यभागैः परस्परविच्छेदैरिति यावत् यस्येति शेषः कंति-कांतिर्न ज्ञायते, सो-तत् पिंगले दिठ्ठ-पिंगले दृष्टं सारंगरुअक्क-सारंगरूपकं तत्सारंगरूपकनामकं वृत्तमित्यर्थः । अत्र चतुर्थश्चरणः पद्यपूरणार्थमेवेति मन्तव्यम् ।
१३२. सारंगरूपकमुदाहरति, रे गोडेति । रे गोड-रे गोडदेशाधीश ते हत्थि बूहाइ-हस्तिव्यूहानि(?) थक्कंति-श्राम्यंति, अत इति शेषः पाइक्क बूहाइ-पदातिव्यूहानि पल्लट्टि-परावृत्य जुझ्झंतु-युध्यंतु(ताम्) नाम, तथापीति शेषः कासीस राआ सरासार अग्गेकाशीश्वरराजशराऽऽसाराग्रे दिवोदासबाणधाराग्रे इति पाठश्च, ण-ननु निश्चयेन की हत्थि-किं हस्तिभिः की पत्ति-(किं) पत्तिभिः की बीर बग्गेण-कि वीरवर्गेण ॥ । १३३. अथ द्वादशाक्षरचरणस्य वृत्तस्य षड्विंशत्युत्तरैकोनत्रिंशशतततमं २९२६ भेदं मौक्तिक(दाम) नामकं वृत्तं लक्षयति, पओहरेति । यन्मध्ये ति तेरह मत्तह-त्रित्रयोदशमात्राभिः षोडशभिर्मात्राभिरिति यावत् उपलक्षिताः चारि-चत्वारः पओहर-पयोधरा मध्यगुरुका: जगणा इति यावत् प्रसिद्धा भवंतीति शेषः, यत्र च अंत-अंते पादान्ते इत्यर्थः पुव्वहि-पूर्वं पादादावित्यर्थः हास्-हारो गुरुः ण दिज्जे-न दीयते, बिहू सअ अग्गल छप्पण मंत-द्विशताधिकषट्पंचाशन्मात्राकं तत् मोत्तिअदाम-मौक्तिकदामनामकं वृतमित्यर्थः ॥ ननु यत्र पयोधरचतुष्टयं पततीत्युक्त्यैव पादाद्यंतयोर्गुरुदानाप्रसक्तेः कथं ण पुब्बहीत्यनेन तत्र तत्प्रतिषेधः साधु संगच्छत इति चेत्, यत्र एवं चत्वारो जगणाः पतंतीत्यत एवं पूर्वम् अंते वा हारो न दीयत इति पूर्वोक्तस्यैव विवरणमेतदित्याहुः । षट्पंचाशदुत्तशतद्वयमात्राकथनं षोडशचरणाभिप्रायेण, जगणमात्राज्ञापकं तद्विशेषणपदं पादपूरणार्थमेवेति मंतव्यम् ॥
१३४. मौक्तिकदामोदाहरति । गरास-ग्रासं भोजनमिति यावत् तेज्जि-त्यक्त्वा कआ-कायः दुव्बरि-दुर्बल: भउ-जातः, खणे खणे(ण)-क्षणे क्षणे अच्छ-स्वच्छ: णिसास-नि:श्वासः रोदनकालीनश्वास इत्यर्थः जाणिअ-ज्ञायते । तार-तारेण कुहू रब
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org