________________
प्राकृतपैंगलम्
३२० यदीयपादाब्जपरागपातात् शिलामयी गौतमयोषिदाशु । कामस्त्रियोऽपि स्पृहणी(य)रूपं लेभे स रामः शरणं ममास्तु ।।३।। सुग्रीववातात्मजमुख्यकीश-बंद्धांजलीकैरुपसेव्यमानः । सुवर्णसिंहासनसंस्थितः स श्रीरामचंद्रः शरणं ममास्तु ॥४॥ त्रिलोकसंपालनबद्धसंध: कारुण्यपीयूषमहांबुराशिः । स्वभक्तदुःखोद्धरणैकवीरः श्रीसमचंद्रः शरणं ममास्तु ॥५॥ आजानुबाहुद्वितयः प्रबद्धयमासनस्थो धृतपीतवासाः । प्रफुल्लराजीवपलाशनेत्रः श्रीरामचंद्रः शरणं ममास्तु ॥६॥ समस्तपृथ्वीपतिमौलिरत्न-प्रभाभिनीराजितपादपद्मं । अशेषगीर्वाणगणप्रगीताकीर्ति तमीशं प्रणतोऽस्मि रामं ॥७॥ नानाविभूषामणिरश्मिजाल-प्रच्छन्ननीलाश्मसमानगात्रः । सौंदर्यसंनाशितकामगर्वः स रामचंद्रः शरणं ममास्तु ॥८॥ अरातिनारीहृदयं प्रविष्टस्तत्र स्थितान्दग्धुमिवारिवर्गान् । यस्य प्रतापप्रबलानलस्तु स रामचंद्रः शरणं ममास्तु ॥९॥ स्वांकप्रसुप्तां धृतकांचनाब्जां समीक्ष्य सीतां कनकप्रभांगीं । आनंदितांत:करणः स पायादपायतो मां रघुवंशकेतुः ॥१०॥ अनन्यसाधारणकीर्तिचंद्रकरावधूताष्टदिगंधकारः । पौलस्त्यवंशद्रुमकालवह्निः स जानकीशः शरणं ममास्तु ॥११॥ मत्वा भवंतं त्रिजगद्विपत्तिसंनाशकं देवगणान् विहाय । भवत्पदाब्जं शरणं गतोऽस्मि प्रसीद राम त्वमतोऽतिशीघ्रम् ॥१२॥ भवत्समानोऽपि यदा नरेंद्रः श्रीराम कापण्यमुरीकरोति । तदाश्रयेत्कः खलु दातृभावमतस्त्वमीश त्यज निष्ठुरत्वं ॥१३।। वीरासनाध्यासित उग्रवीर्यो नवाम्बुदश्यामरुचिजितारि: । समस्तविद्याम्बुधिपारगश्च स रामचंद्रः शरणं ममास्तु ॥१४॥
१२२. अथ द्वादशाक्षरचरणस्य वृत्तस्य षण्णवत्युत्तरं सहस्रचतुष्टयं भेदाः ४०९६ भवंति, तत्राद्यं भेदं विद्याधरनामकं वृत्तं लक्षयति, चारीति । यत्र पाए-पादे सब्बा सारा-सर्वसारान् सर्वसारं वा चारी कण्णा-चतुरः कर्णान् कर्णचतुष्टयं वा गुरुद्वयात्मकगणचतुष्टयमिति यावत् दिण्णा-दत्वा, पाआ अंते-पादांते कंता–कांता: चारी हारा-चत्वारो हारा गुरवः दिज्जे-दीयंते । तं छण्णाबेआ मत्ता पत्ता चारी पाआ-षण्णवतिमात्राप्राप्तचतुष्पादं प्रतिपादं चतुर्विशतिमात्राणां विद्यमानत्वात् षण्णवतिमात्रां प्राप्ताश्चत्वारः पादा यस्य तत्तादृशमिति यावत् सारा-द्वादशाक्षरचरणवृत्तमध्ये आदिभूतत्वात् सा(र) भूतं श्रेष्ठमिति यावत् तं बिज्जाहारा-विद्याधरं विद्याधरनामकं वृत्तं णाआ राआ-नागराजः जंपे जल्पति ।। अत्र वर्णवृत्ते मात्राकथनस्यानतिप्रयोजनकत्वान्मात्राज्ञापकश्चरणः सब्बासारेति कर्ण(वि)शेषणं (च) पद्यपूरणार्थमेवेति मंतव्यं, द्वादशगुरुरचितचरणो विद्याधर इति फलितार्थः ।
१२३. विद्याधरमुदाहरति, जासू इति । जासू-ज(य)स्य कंठा-कंठे बीसा-विषं दीसा-दृश्यते, सीसा-शीर्षे गंगा दृश्यते, अंगा-अंगे अर्धांगे इति यावत् गोरी-गौरी पार्वतीत्यर्थः दृश्यते, येन णआराआ-नागराजः हार: कंठभूषा किज्जे-क्रियते कृतो वा। गंते-गात्रे चामा-चर्म करिकृत्तिरिति यावत् धृतमिति शेषः, येन च कामा-कामं मार-मारयित्वा दग्ध्वेति यावत् कित्ती-कीर्तिः लिज्जे-गृहीता, सोई-स एव देओ-देवः शशिकलाभरण इत्यर्थः भत्ती-भक्त्या तुम्हा-युष्मभ्यं सुक्खं-सुखं निरतिशयानन्दमिति यावत् देओ-ददातु । विद्याधरो निवृत्तः ।
१२४. अथैका(थ द्वादशाक्षरचरणस्य वृत्तस्य षडशीत्युत्तरपंचशततमं ५८६ भेदं भुजंगप्रयातनामकं वृत्तं लक्षयति, धओ इति । हे मुद्ध-हे मुग्धे यत्र धओ-ध्वजो लघ्वादिस्त्रिकलः चामरो-चामरं गुरुः एवं चउ-चत्वारः रूअओ-रूपकाः गणा इति यावत् पए-पदे प्रतिचरणमित्यर्थः किज्जे-क्रियते तत्पदे इत्यनुषंजनीयं बीस रेहं-विंशतिरेखं विंशतिः रेखाः मात्रा यत्र तादृशमित्यर्थः शुद्धदेहं भुअंगापआअं-भुजंगप्रयातं छंद-छन्दः सेस-शेषेण पिंगलेन जत्थ-यथा हारो-हार: मुक्तादाम तहा-तथा कंठए-कंठे ठए-स्थाप्यते । केचित्तु धओ-ध्वजः लघ्वादिस्त्रिकल इति यावत् ततः चामरो-चामरं गुरुरिति यावत् रूअओ-एवं रूपेण चउ-चतुभिर्गणैर्यत्र चरण इति शेषः सारो-सारः श्रेष्ठ इति यावत् सेस-शेषः संपूर्ण इत्यर्थः तहा-तथा किज्जे-कियते पूर्यते इति यावत्, पए बीस रेह-पदे विंशतिरेखं शुद्धदेहं तूट्टवनिकया समीकृतगणं तत् भुअंगापआअं-भुजंगप्रयातं छन्दः, तथा कथमित्याह, ठए इति, जत्थयथा मुद्धए-मुग्ध(या)कंठए-कंठे हार: मुक्तादाम ठए-स्थाप्यते इत्याहुः । अत्र ठए इति द्वितीयश्चरण: मात्राकथनं च पद्यपूरणार्थमेवेति मंतव्यं, यग(ण) चतुष्टयरचितचरणं भुजंगप्रयातमिति फलितोऽर्थः ॥
१२५. अथास्यैव प्रकारांतरं गाथया वदति, अहिगणेति पसिद्धा-सर्वत्र छंदोग्रन्थे प्रसिद्धाः चारि-चत्वारः अहिगणःअहिगणाः पञ्चकला: यगणा इति यावत् यत्र प्रतिचरणे पतंतीति शेषः, वीसग्गल-विंशत्यधिकानि तीणि सअ-त्रीणि शतानि समग्गाईसमग्रा मत्त संखा-मात्रासंख्या यत्र भवतीति शेषः पिंगलो-पिंगल इति भणइ-भणति ।। श्लोकचतुष्टयस्यैक: श्लोक: कर्त्तव्य इति फलितार्थः ।
१२६. भुजंगप्रयातमुदाहरति, महामत्तेति । यस्याः पाए-पादे महामत्तमातंग: ठबीआ-स्थापितः, तहा-तथा यस्याः कडक्खेकटाक्षे तिक्ख बाणा-तीक्ष्णबाणाः धरीआ-धृताः । यस्याः भुआ-भुजयोः फास-पाशो धृत इति पूर्वेणान्वयः, यथा च भोहा-ध्रुवोः धणूआ-धनुः धृतमिति पूर्वेणान्वयः सेयं नागरी अहो इत्याश्चर्ये कामराअस्स-कामनृपतेः (समाणा)-समाना त्रिभुवनविजयेनातिगविता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org