________________
३१९
परिशिष्ट (३) ११५. इन्द्रवज्रामुदाहति, मंतमिति । मंत-मंत्रं तंतं-तंत्रं णह-खलु निश्चयेनेति यावत् किंपि-किमपि ण-न जाणे-जानामि, झाणं च-ध्यानं च किंपि-किमपि णो-न जाने इति पूर्वेणान्वयः, किंतु मज्जं पिबामो-मद्यं पिबामः महिलं रमामो-महिला रमामहे गुरुप्पसाओ-गुरुप्रसादात् कुल मग्ग लग्गा-कुलमार्गलग्नाः मोक्खं-मोक्षं बजामो-ब्रजामः ॥ अनवरतमैथुनमद्यपानाद्यनेककुलपरंपरागमनकुकर्मात्यासक्ता अपि अयं गुरुप्रसादान्मोक्षं प्राप्नुम इति कापालिकभैरवानन्दस्य राजानं प्रति वाक्यमिदं कर्पूरमंजरीसाटकस्थम् । इंद्रवज्रा निवृत्ता।
११६. अथैकादशाक्षरचरणस्य वृत्तस्याष्टपंचाशदुत्तरत्रिशततमं ३५८ भेदम् उपेंद्रवज्रानामकं वृत्तं लक्षयति, णरिदेति । यत्र प्रथम एक्का-एक: णरिंद-नरेन्द्रः मध्यगुरुजगण इति यावत् ततः तअणा-तगणोंऽतलघुर्गण इत्यर्थः सुसज्जा-सू(सु)सज्जः शोभनीकृत्य स्थापित इति यावत्, ततश्च पओहरा-पयोधरो मध्य गुरुजंगण इत्यर्थः करण गणा-कर्णगणो गुरुद्वयमिति यावत् मुणिज्जा-ज्ञातः तां फणिराअ दिट्ठा-फणिराजदृष्टां पिंगलोपदिष्टां उपेद्रवज्रां छेआ-छइल्ला विदग्धा इति यावत् पढंति-पठति ॥ अथवा नरेन्द्रैकतगणसुसज्जापयोधरकर्णगणाः मुणिज्जा-ज्ञायते यत्र प्रतिचरणमिति शेषः इत्येकमेव पदं कृत्वा योजनीयम् । अत्र (सुसज्जमिति) शुभवर्णसृष्टामिति च पदं पद्यपूरणार्थमेवेति मंतव्यम् ॥
११७. उपेन्द्रवज्रामुदाहरति, सुधम्मेति । सुधम्म चित्ता-सुधर्मचित्तं गुणमंत पुत्ता-गुणवत्पुत्रं सुकम्म रत्ता-सुकर्मरतं पत्यादिशुश्रूषाकर्मण्यासक्तमिति यावत् बिणआ-विनीतं कलत्ता-कलत्रं । बिसुद्ध देहा-रोगादिरहितः देह: धणमंत-धनवत् गेहा-गेहं, एतत्सर्वं यदि भवतीति शेषः तदा के बब्बर-वर्वराः सग्ग णेहा-स्वर्गस्नेहं कुणति-कुर्वंति, अपि तु न कोऽपीत्यर्थः ॥ सर्वपदार्थविकलक(स्य) कस्यचिदिदं वाक्यम् । उपेंद्रवज्रा निवृत्ता ।।
११८. अथेंद्रवज्रोपेंद्रवज्राभ्यां पादेन पादाभ्यां पादैश्च मिलिताभ्यामुपजातिच्छन्दो भवति तच्च (च)तुर्दशविधमित्याह, इंदेति । इंदा उबिंदा-इंद्रोपेन्द्रयोः नामैकदेशेनापि नामग्रहणादिंद्रवज्रोपेंद्रवज्रयोरित्यर्थः एक-ऐक्यं करिज्जसु कुरुष्व, चउ अग्गल दह णामचतुरधिकदशनामानि मुणिज्जसु-जानाहि । सम अक्खर-सामान्यक्षराणि दिज्जसु-ददस्व, सम जाइहि-समजातिभिः तुल्याक्षरचरणजातीयैर्वृत्तैरिति यावत् उपजाइहि-उपजाति किज्जसु-कुरुष्व इति पिंगल-पिंगलो नागः भणति । इदं तु बोध्यं समाक्षराणि दत्वा समजातीयैर्वृत्तैरुपजातिं कुरुष्वेत्यनेन विषमाक्षरचरणजातीयैर्वृत्तैर्नोपजातिरित्युक्तं भवति, तथाचंद्रवज्रोपेन्द्रवज्राभ्यां न त्विद्र(वजेंद्र) वंशाभ्यामिंद्रवंशावंशस्थाभ्यां वातोर्मीशालिनीभ्यां न मालिनीशालिनाभ्यामुपजातिर्भवति इति परमार्थ इति ।
११९. अथासां चतुर्दशभेदानयनप्रकारमाह, चउ अक्खरेति । चउ अक्खरके-चतुरक्षरांणां पत्थर-प्रस्तारं किज्जसु-कुरुष्व, इंद उबिंदा-इन्द्रोपेंद्रयोः गुरु लहु-गुरुलघू इन्द्रवज्रायां गुरुमुपेंद्रवज्रायां लघुमित्यर्थः बुझ्झसु-बुध्यस्व । मझ्झह-मध्ये सर्वगुरुसर्वलघुप्रस्तारयोरिति यावत् चउद्दह-चतुर्दश उबजाइ-उपजातयः हो-भवंति इति कित्ति वेलाई-वेल्लितकीतिः पिंगलः जंपइजल्पति ।। अत्रेदं तत्त्वं-चतुरक्षरस्य प्रस्तारक्रियया षोडश भेदा भवंति, तत्र चतुर्गुरुः प्रथमः स चंद्रवज्रापादचतुष्टयज्ञापकस्तत्र प्रतिचरणं प्रथमगुरोरुपादानात् तत्रैकैको गुरुरिंद्रवज्राया एकैकचरणज्ञापक इति हृदयं । चतुर्लघुश्चान्तिमः स चोपेंद्रवज्रापादचतुष्टयज्ञापकस्तत्रै(कै) को लघुरुपेंद्रवज्राया एकैकचरणज्ञापक इति सहृदयैकगम्योर्थस्तत्र प्रतिचरणं प्रथमलघोरुपादानात् । एवं चावशिष्टा मध्ये चतुर्दशभेदास्तदनुसाराच्च चतुर्दशोपजातयो भवंति । तथाहि चतुरक्षरस्य द्वितीयप्रस्तारे प्रथममेको लघुस्तदनन्तरं च त्रयो गुरवो भवन्ति, तथा चोपेंद्रवज्रायाः प्रथमश्चरणः त्रयश्चंद्रवज्राया एवं मिलित्वा प्रथमो भेदः । चतुरक्षरस्य तृतीयप्रस्तारे प्रथममेको (गुरुस्तत एको) लघुस्तदनंतरं गुरुद्वयं, तथा चंद्रवज्रायाः प्रथमश्चरणो द्वितीयश्चोपेंद्रवज्रायाः तृतीयचतुर्थौ च पुनरिंद्रवज्राया मिलित्वा द्वितीयो भेदः । चतुरक्षरस्य चतुर्थप्रस्तारे प्रथमं लघुद्वयं तदनन्तरं गुरुद्वयं भवति, तथाच प्रथमद्वितीयौ चरणौ उपेंद्रवज्रायाः तृतीयचतुर्थी चंद्रवज्राया एवं मिलित्वा तृतीयो भेदः । एवमग्रेपि सुधीभिरवधेयमित्यस्मत्तातचरणोपदिष्टः पंथाः ।
१२०. उपजातिमुदाहरति, बाल इति । कुमारः कार्तिकेयः बालः स छमुंडधारी स च षण्मुण्डधारी, उप्पाउ हीणाअजनापायविकला एक-एका अपरा असहाया णारी स्त्री हउ-अहं, भिषा(खा)री-भिक्षुकस्त्वम् अहन्निशं विसं खाहि-विषं भक्षयसि, अतः हमारी-अस्मदीया का गतिरवस्था किल निश्चयेन भवित्री । षड्मुखधारिणो बालस्य बहुतरमत्यावश्यकं च भक्ष्यमपेक्षितमहं च निस्सहाया अजनासमर्था स्त्री त्वं चाहन्निशं विषभोजनेनैव स्वस्य तृप्तिमुत्पादयस्यतोऽस्मदीया का गतिर्भविष्यति तन्न जाने इति महादेवं प्रति पार्वतीवाक्यं । पूर्वार्द्ध इंद्रवज्राया उत्तरार्द्ध चोपेंद्रवज्राया लक्षणसत्वाद्रामाख्या द्वादशीयमुपजातिः ।
१२१. अथासां नामान्याह, कित्तीति । निगदेनैव ख्यातं । अथासामस्मत्तातचरणनिर्मितानि क्रमेणेदाहरणानि यथादृढं धनुर्वामकरे दधानो वामे शरं स्वर्णविचित्रपुंखं । पृष्ठप्रदेशेऽक्षयि तूणयुग्मं बिभ्रत्स रामः शरणं ममास्तु ।१।। यस्यानुकम्पायुतदृष्टिपद्म-कटाक्षसंप्रेक्षित एव लोकः । सर्वापदब्धि तरति प्रतूर्णं श्रीरामचंद्रः शरणं ममास्तु ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org