________________
प्राकृतपैंगलम्
३१८ कण्णा गंध कण्णा-शल्यकर्णगंधकर्णाः शल्यो लघुः कर्णो गुरुद्वयात्मको गणः, गंधो लघुः, कर्णो गुरुद्वयात्मको गण एते इत्यर्थः पाए पाए-पादे पादे प्रतिचरणमिति यावत् सुणिज्जे-श्रूयते, तथा बीसा-विंशतिः रेहा-रेखा मात्रा इति यावत् गणिज्जे गण्यन्ते, सा सप्पा राए-सर्पराजेन सालिणी-शालिनीनामकं वृत्तमिति यावत् मुणिज्जे-मन्यते ॥ अत्र मात्राकथनं पादपूरणार्थमेव, लिंगविभक्तिवचनव्यत्यासस्तु प्राकृतभाषायां न दोषायेति मन्तव्यं । मगण-तगणत्र(द्व)योत्तरगुरुद्वयरचितचरणा शालिनीति फलितार्थः ।।
१०७. शालिनीमुदाहरति, रंडेति । चंडा परमकोपवती दिक्खिदा-दीक्षिता शाक्तशास्त्रोक्तविधिगृहीतमन्त्रेति यावत् रंडा-विधवा धम्मदारा-धर्मपत्नी, मज्ज-मद्यं पिज्जिए-पीयते, मंसं अ(आ)-मांसं च खज्जए-खाद्यते । भिक्खा-भिक्षा भोज्जं-भोज्यं चर्मखंडं च सेज्जा-शय्या । एतादृशः कोलो-कौलः वंशपरंपरापरिप्राप्तः शाक्ततंत्रविशेषोक्त इति यावत् धम्मो-धर्मः कस्स-कस्य रम्मोरम्यो नो भाति । अपि तु सर्वस्यापीत्यर्थः । कर्पूरमंजरीसाटकस्थं कपालिकभैरवानन्दस्य राजानं प्रति वाक्यमिदम् । शालिनी निवृत्ता।
१०८. अथैकादशाक्षरचरणस्य वृत्तस्य चतुर्विंशत्युत्तरसहस्रतमं भेदं दमनकवृत्तं लक्षयति, दिअबरेति । दिअबर जुअद्विजवरयुगलं चतुर्लध्वात्मकगणद्वयमिति यावत् लहु जुअलं-लघुयुगलं बल-बलयं गुरुरिति यावत् यत्र पअ पअ-पादे पादे प्रतिचरणमिति यावत् पअलि-प्रकटितं । चउ पअ-चतुः पादेषु चउ बसु कलअं चतुर्वसुकलाकं दक्षिणगत्यैवांकस्थापनेन ४८ चतुर्वसुशब्देनाष्टचत्वारिंशन्मात्रा लभ्यते, तथा चतुर्ध्वपि पादेषु मिलित्वाष्टचत्वारिंशन्मात्राकमिति तत्त्वं, दमणअ-दमनकं फणी ललिअंललितं यथा स्यात्तथा भण-भणति ॥ लघुदशकोत्तरगुरुरचितचरणो दमनक इति फलितार्थः ।
१०९. दमनकमुदाहरति, परिणअ इति । परिणअ (ससहर बअणं)-परिणतशशधरवदनं विमलकमलदलनयनं । विहितासुर(कुल) दमनं महुमहणं-मधुमथनं श्रीकृष्णं (सिर-शिरसा) पणमह-प्रणमत ।। दमनको निवृत्तः ।
११०. अथैकादशाक्षरचरणस्य वृत्तस्य त्र्यशीत्युत्तरषट्शततमं ६८३ भेदं सेनिकानामकं वृत्तं लक्षयति, तालेति । आदौ ताल णंदए-तालनन्दाभ्यां ततः समुद्द तूरआ-समुद्रतू-(भ्यां) गुर्वादित्रिकलगणाभ्यामित्यर्थः ततश्च जोहलेन मध्यलघुकेन रगणेनेति यावत् एह-एतत् सेणिआ-सेनिकानामकं छंद-वृत्तं पूरआ–पूर्य्यतां । अत्र च प्रतिपदं गारहा(ह) अक्खराइ-एकादशाक्षराणि जाणिआज्ञातव्यानि, एअ-एतत् णाअ राअ-नाग राज जंपि(प)-जल्पति ।। यद्वा एकादशाक्षरज्ञातेत्येकं पदं कृत्वा वृत्तविशेषणपरतया गारहाई इति चरणो जो(यो)जनीयः । अत्राक्षरकथनमनतिप्रयोजनकतया पद्यपूरणायेति बोध्यम् । गुरुत्तरैः पंचभिर्गुर्वादित्रिकलगणै रचितचरणा सेनिकेति निष्कृष्टार्थः ॥
१११. सेनिकामुदाहरति, झत्तीति । झत्ति-झटिति पत्ति पाअ पदातिपादैः भूमि-भूमि: कंपिआ-कंपिता, टप्पु खुंदि खेइटापोत्खातखेहैश्चलदश्वखुरोद्धतरेणुभिरिति परमार्थः सूर-सूर्यः झंपिआ-आच्छादितः । गौड राअ जिण्णि-गौडराजं जित्वा माण मोडि(लि)आ-मानमोडिता कामरूअ राअ बंदि छोलिआ-का (म) रूपराजवंदी मोचिता । सेनिका निवृत्ता ।।
११२. अथैकादशाक्षरचरणस्य वृत्तस्य प्रथमं भेदं मालतीनामकं वृत्तं लक्षयति, कुंतीति । यत्र पाआ (पाआ)-पादे पादे प्रतिपादमिति यावत् दिण्णा-दत्ता: पंच कुंतीपुत्राः कर्णा गुरुद्वयात्मका गणा इति यावत् जाणीआ-ज्ञायंते, अंते-कर्णपंचकांते पादांते वा कंता-कांत: एक्का-एक: हारा-हार: गुरुरिति यावत् माणीआ–मान्यते । बाईसा-द्वाविंशतिः मत्ता-मात्राः दिठ्ठा-दृष्टा यत्र पादे पादे इति पूर्वेणान्वयः, तत् मालती छंदा-मालतीच्छन्दः णाएसा-नागेश: जंपंता-जल्पति । अत्र कांतपदं मात्राज्ञापकं च पद्यपूरणार्थमिति मंतव्यम्, एकादशगुरुरचिता मालतीति निकृष्टोर्थः ।
११३. मालतीमुदाहरति, ठामेति । मेरु सिंगा-मेरुशृंगे यथेति शेषः णीला मेहा-नीला मेघाः पेक्खीआ-प्रेक्ष्यंते, ठामा ठामास्थाने स्थाने हत्थी जूहा-हस्तियूथानि (तथे)ति शेषः देक्खीआ-दृश्यते । णीला मेहा मझ्झे-नीलमेघमध्ये यथेति शेषः विद्युत् णच्चंती-नृत्यति, बीरा(आ) हत्था अग्गे–वीरहस्ताग्रे तथेति शेषः खग्गा खड्गाः राजंता-राजंति ॥ केनचिद्वन्दिना कृतं संग्रामवर्णनमेतत् । मालती निवृत्ता।
११४. अथैकादशाक्षरचरणस्य वृत्तस्य सप्तपंचाशदुत्तरत्रिशततमं भेदं ३५७ इन्द्रवज्रानामकं वृत्तं लक्षयति, दिज्जे इति । यत्रादौ तआरा जुअला-तकारयुगलं लब्धं तगणद्वयमित्यर्थः अंते-तगणद्वयांते गुरु जुग्ग सेसं-गुरुयुगशेषः गुरुद्वयं शेषेऽते यस्य तादृश इति यावत् णरेंदो-नरेन्द्रो मध्यगुरुर्जगण इति यावत् पएसुं (सूं)-पदेषु दिज्जे-दीयते । सा मत्ता दहा अट्ठ समा सुसज्जा-सुसज्जसमाष्टादशमात्राका सुसज्जा: सुस्थापिताः समाः पदचतुष्टये न्यूनातिरिक्ता अष्टादश मात्रा यस्यां सेति यावत् इदंबज्जा-इंद्रवज्रा इति धुअ-ध्रुवं फर्णिदाफर्णीद्रः जंपे-जल्पति ।। सुसज्जा-शोभनीकृत्य स्थापिताः समा-पदचतुष्टये समानाः दहा अट्ठ-अष्टादश मत्ता-मात्राः यत्र पएसुं (सू)-पदेषु पतंतीति शेष इति भिन्नमेव योजनीयं । अत्र मात्राकथनं पद्यपूरणार्थमेव, अवहट्टभाषायां पूर्वनिपातानियमात् पूर्वापरव्यत्यासस्तु न दोषायेति ध्येयं, तगणद्वयानंतर जगणानंतरगुरुद्वयरचितचरणा इंद्रवज्रेति फलितार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org