________________
३१७
परिशिष्ट (३) स्थितिर्यस्याः सा तादृशीति योजनीयम् । बसु लघु बे २ गुरु सहिआ-वसुलघुद्विगुरुसहिता वसवोऽष्टौ, तथा चाष्टसंख्याकैर्लघुभिर्गुरुद्वयेन च युक्तेत्यर्थः, अमिअगई-अमृतगति: धुअ-ध्रुवं कहिआ-कथिता ।। तदमृतगतिनामकं वृत्तं कथितमित्यर्थः । अत्र लघुगुरुज्ञापकश्चरणोऽनतिप्रयोजनकत्वात् पद्यपूरणार्थमिति मंतव्यं, प्रथमं लघुचतुष्टयं तदनंतरमेको गुरुः पुनर्लघुचतुष्टयं पुनरेको हार एते गणाः क्रमेण यस्य चरणे पतंति तदमृतगतिनामकं वृत्तमिति निष्कृष्टोर्थः ।
९९. अमृतगतिमुदाहरति, सरेति । सरअ सुधाअर बअणा-शारदसुधाकर वदना विकच सरोरुह णअणा-विकचरोरुहनयना। मअ गल कुंजर गमणी-मदकलकुंजरगमना तरुणी हे प्रि(य)सखि दिट्ठा-दृष्टा ॥ क्वचित् जिबिह सुधा रस बअणेति पाठस्तत्र जीवितस्य प्राणस्य सुधारस इव वचनं यस्याः सा जीवितसुधारसवचना इति व्याख्येयम् । अमृतगतिर्निवृत्ता ।
१००. अथैकादशाक्षरचरणस्य वृत्तस्याष्टचत्वारिंशोत्तरं सहस्रद्वयं भेदा भवंति, तत्रैकोनचत्वारिंशोत्तरचतुःशततमं ४३९ भेदं बंधुनामकं वृत्तं लक्षयति, णीलेति । जत्थ-यत्र पाअ-पादे तिण्णि-त्रयः भआ गण-भगणाः भणीजे-भण्यन्ते--अंतहि-अंते भगणत्रयांते पादांते वेत्यर्थः दुग्गुरु-द्विगुरुः करीजे-क्रियते, सोलह मत्तह-षोडश मात्राश्च ठबीजे-स्थाप्यन्ते, एह-एतत् णील सिरोरुह-नीलशिरोरुहेण पिंगलेनेति यावत् बंधु-बंधुनामकं वृत्तं कहीजे-कथ्यते ॥ यद्वा णील सरूअह-नीलस्वरूपापरनामकमिति यावत् बंधु-बंधुनामकं वृत्तं कथ्यत इति व्याख्येयम् । अत्र मात्राज्ञापकचरणमनतिप्रयोजनकत्वात् पद्यपूरणार्थमेवेति मंतव्यं, भगणत्रयानंतर गुरुद्वयं यत्र प्रतिचरणं पतति तद्बधुनामकं वृत्तमिति फलितार्थः ।
१०१. बंधुमुदाहरति, पण्डबेति । पण्डब बंसहि-पांडववंशे पांडोरयं-पाण्ड(व:)पांडवश्चासौ वंस(श)श्चेति पांडववंस(श)स्तस्मिन्नित्यर्थः यस्येति (शेषः) जन्म-जन्म क्रियते विधात्रेति भावः, अज्जिअ-अर्जयित्वा संपअ-संपत् धम्मके-धर्माय दिज्जे-दीयते तेनेति शेषः । सोऊ-सोऽपि जुहुछिर-युधिष्ठिर: संकट-संकटं पाआ-प्राप्तः, अत: दै(दे)बक-दैवस्य विधेरिति यावत् लेक्खिअ लिखितं केण-केन मेटावा-विलुप्यते ॥ न केनापीति भावः बंधुनिवृत्तः । एतस्यैवान्यत्र दोधकसंज्ञा ।
१०२. अथैकादशाक्षरचरणस्य वृत्तस्याशीत्यधिकमष्टशततमं भेदं ८८० सुमुखीनामकं वृत्तं लक्षयति, दिअबरेति । दिअबस्द्विजवरश्चतुल्लघ्वात्मको गणः ततो हार-हारो गुरुरिति यावत्, ततो लहू जुअला-लघुयुगलं, ततश्च बलअ-वलयो गुरुः, ततश्च हत्थ अला-हस्ततलं गुर्वतः सगण इति यावत्, एवं प्रकारेण यत्र चउदह (१) कल-चतुर्दश कला: पअ-पादे परिठ्ठिअ-परिस्थिताः, सो-सा (सु)मुही-सुमुखी जाणह-ज्ञायतां तत्सुमुखीनामकं वृत्तं ज्ञेयमित्यर्थः, इति कइबर-कविबरः अही-अहि: पिंगल इति यावत् जंपइ (१)-जल्पति ।।
१०३. सुमुखीमुदाहरति, अईति । जोब्बण देह धणा-यौवनदेहधनानि अइचल-अतिचलानि, सोअर-सोदरा भ्रातर-इति यावत् बंधु जणा-अन्ये कुटुम्बा इत्यर्थः सिबणअ-स्वप्नवत् स्वप्नेन तुल्यम् इति यावत् । यद्वा बंधुजनाः सिबिणअ सोअस्-स्वप्नसोदरा: स्वप्नतुल्या इत्यर्थः । काल पुरी गमणा-यमपुरीगमनम् अबस(उ)-अवश्यम् अतो हेतोः हे बर्बर मणा-मनः पाप-पापात् परिहर ।। कंचिन्महापापकर्मसिक्तं प्रति कस्यचिन्मित्रस्योपदेशवाक्यमेतत् । सुमुखी निवृत्ता ।
१०४. अथैकादशाक्षरचरणस्य वृत्तस्यैकोनचत्वारिंशोत्तरचतुःशततमं भेदं पुनरपि दोधकमेवेति नामांतरेणाह, चामरेति । यत्र प्रथमं चामर-चामरं गुरुरिति यावत् काहल जुग्ग-काहलयुगं काहलो लघुस्तज्जु(यु)गमित्यर्थः, ठबीजे-स्थाप्यते, ततश्च हार-हारो गुरुः लहू-लघू हारानन्तरं द्वौ लघू इत्यर्थः, जुअ-जु(यु)गं वारद्धयमित्यर्थः एको गुरुस्तदनन्तरं लघुद्वयमिदं वारद्वयमिति परमार्थः, तत्थ-तथ्यं तथा वा धरीजे-ध्रियते । एवं सति भगणत्रयं सिध्यति, अन्यथा चामरकाहलयुगानन्तरं हारलघुद्वयमात्रोक्त्या तृतीयभगणालाभाद्भांतप्रलपितत्वापत्तिरित्यस्मत्तातचरणोपदिष्टव्याख्योपदेशो निर्मत्सरैः सुधीभिर्विभावनीयः । पअ अंत-पादांते कण्ण गणाकर्णगणः गुरुद्वयात्मको गण इति यावत् करीजे-क्रियते फणी पिंगल: तत् दोधकच्छन्दः दोधकनामकं वृत्तं पभणीजे-प्रभणति ।। यत्र भगणत्रयोत्तरं गुरुद्वयं तद्दोधकनामकं वृत्तमिति फलितार्थः । बंधुदोधकयोश्चोट्टवनिकामात्रभेदाढ़ेदः स्वरूपतस्तु न कश्चिद्विशेषः इति विभावनीयम् ।
१०५. दोधकमुदाहरति, पिंगेति । येन पिंग जटावलि-ता(म्र)जटावल्यां गंगा ठाबिअ-स्थापिता, अथवा यः पिंगजटावलीस्थापितगंग इत्येकमेव पदं शिवविशेषणं, येन अद्धं(ध)गा-अर्धागे नागरी स्त्रीति यावत् धारिअ-धृता । जसु-यस्य सीसहि-शीर्षे णोक्खा-रमणीया चंदकला-चन्द्रकला दृश्यते इति शेषः, सो-सः संकर-शिवः तुअ-तुभ्यं मोक्खा(?)-मोक्षं दुःखप्रागभावासमानाधिकरणं दुःखध्वंसमिति यावत् दिज्जउ-ददात्विति यावत् ।। दोधकं निवृत्तम् ॥
१०६. अथैकादशाक्षरचरणस्य वृत्तस्यैकोनवत्युत्तरद्विशततमं भेदं २८९ शालिनीनामकं वृत्तं लक्षयति, कण्णविति । यत्र प्रथम कण्णो दुण्णो-कर्णद्वयं कर्णो गुरुद्वयात्मको गणस्तद्वयमित्यर्थः, हार एक्को-हार एक: हारो गुरुरित्यर्थ बिसज्जे-विसृज्यते, ततः सल्ला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org