________________
प्राकृतपैंगलम्
३१६ ९१. संयुक्तमुदाहरति, तुह इति । हे सुन्दरि सर्वावयवरमणीये विअसंत केअइ संपुडा-विकसत्केतकीसंपुटे एह-अत्र कुंजे इति शेषः बप्पुडा-त्वदनुकंप्यो नायकः णिहु-निभृतं तूष्णीं पराज्ञातमिति यावत् यथा स्यात्तथा आबिह-आगमिष्यति, अत इति शेषः दुज्जण थप्पणा-दुर्जनस्थापनां दुर्जनः श्वश्रूननांद्रादयस्तेषां स्थापनां परपुरुषनिरीक्षणं न विधेयमित्याद्यनेककौलाचारोपदेशमित्यर्थः परितेज्जि-परित्यज्य अप्पणा-आत्मना स्वयमेवेति तावत् तुह-त्वं जाहि-गच्छ संकेतस्थलं । नायकं प्रति उक्त्वा समागतायाः कस्याश्चित्सख्या: पुरा नायकाभिसारणाय कृतसंकल्पां पश्चान्निजकुलक्रमागताचारश्रवणेनाभिसरणमनभिलषमानां कांचिन्नायिकामभिसारार्थं प्रेरयंत्या इदं वाक्यम् । आत्मनेत्यनेन परमनैश्चिंत्यं, बप्पुडेत्यनेन च नायककृपणीयत्वं, विकसत्केतकीसंपुटे इत्यनेन चाभिसारस्थानस्यान्यजनाज्ञेयत्वं व्यज्यत इति मन्तव्यम् । क्वचित् णि हु एबि आबिअ बप्पुडेति पाठस्तत्र निभृतमयमागत इति व्याख्येयम्। संयुता (?) निवृत्ता (?)।
९२. अथ दशाक्षरचरणस्य वृत्तस्यैकोनद्विशततमं भेदं चंपकमालानामकं वृत्तं लक्षयति । हार-गुरुः काहल दुज्जे-काहलद्वयं काहल एकलघ्वात्मको गणस्तद्वयमित्यर्थः, (ए) गुरु जुत्ता-एकगुरुयुक्तः, कुन्तिअ पुत्ताए(?)-कुंतीपुत्रः कर्णः गुरुद्वयात्मको गण इति यावत् ठवीजे-स्थाप्यते । ततः हत्थ-हस्त: गुर्वंतः सगण इति यावत् करीजे-क्रियते, ततश्च हार-एकगुरुः ठबीजे-स्थाप्यते, तत् चम्पअमाला छंद-चंपकमालाच्छंदः कहीजे-कथ्यते पिंगलेनेति शेषः ।
९३. चंपकमालामुदाहरति, ओगरेति । दुद्ध सजुत्ता-दुग्ध संयुक्तम् ओगर भत्ता ओगरभक्तम्, ओगरो धान्यविशेषस्तदोदनमित्यर्थः, गाइक पित्ता-गोघृतं मोइणि मच्छा-मद्गुरमत्स्यः, ना(णा)लिच गच्छा-नालीचवृक्षः, नालीचो गौडदेशे अनेनैव नाम्ना प्रसिद्धः शाकवृक्षविशेष इत्यर्थः, रंभअ पत्ता-रंभापात्रे कंता–कांतया दिज्जे(ज्जइ)-दीयते, पुणबंता-पुण्यवान् खा-खादति । कस्यचिद्विदूषकस्य निजप्रियवयस्यं प्रति वाक्यमिदम् । चंपकमाला निवृत्ता ।
९४. अथ दशाक्षरचरणस्य वृत्तस्यैकोनचत्वारिंशाधिकचतुःशततमं ४३९ भेदं सारवतीनामकं वृत्तं लक्षयति, दीहेति । यत्र प्रथमं दीह-दीर्घ गुरुमिति यावत् तदनंतरं लहु (हू) जुअ-लघुयुगं ततोऽप्यनंतरं दीह लहू-दीर्घलघू इति यावत्, अंते-अंते दीर्घलघ्वोरनंतरमिति यावत् पओहर-पयोधरं मध्यगुरुं जगणमिति यावत् ठाइ-स्थापयित्वा (ध)आ-ध्वजः लघ्वादिस्त्रिकलो गण इति यावत् स्थाप्यत इति शेषः, कहा चउदह मत्त बिराम-कथितः चतुर्दशमात्राविरामः, सारबई-सारवतीनामकं छंद-छन्दः धुअः ध्रुवं कहु (हू)-कथ्यताम् । प्राकृतभाषायां पूर्वनिपातानियमात् कहा-शब्दस्य पूर्वनिपातकरणे न दोष इति मंतव्यम् ।
९५. सारा(र)वतीमुदाहरति, पुत्तेति । (पबित्त)-पवित्राः पितृभक्ता इति यावत् अथवा पवेः वज्रात् त्रायंत इति पवित्राः वज्रादपि रक्षका इत्यर्थः पुत्राः बहुत्त धणा-बहुतरं धनं भत्ति-भक्ता प्रियभजनपरेति यावत् (सुद्ध मणा:)-शुद्धमनाः अकुटिलांत:करणा कुटुम्बिणी-वधूः यदि एतत्सर्वं भवतीति शेषः । भिच्च गणा-भृत्यगणः हक्क-हक्केन शब्दव्यापारमात्रेणेति यावत् तरासइ-त्रस्यति, तदा को-क: बब्बर-वर्बरः सग्ग-स्वर्गे मणा-मनः कर-करोति न कोऽपीत्यर्थः ।
९६. अथ दशा (क्ष)रचरणस्य वृत्तस्य सप्तनवत्यधिकत्रिशततमं भेदं सू(सु) स(ष)मानामकं वृत्तं लक्षयति, कण्णो इति । पढमो-प्रथमः कणो-कर्णः गुरुद्वयात्मको गण इति यावत् जुअलो-द्वितीयः हत्थो-हस्त: गुर्वन्तः सगण इत्यर्थः, तिअलो-तृतीयः कण्णो-कर्णः पुन: गुरुद्वयात्मक एव गण इति यावत्, चउथो-चतुर्थः हस्तो-हस्तः पुनः सगण इत्यर्थः यत्र भवतीति प्रतिगणानंतरमध्याहृत्य योजनीयं । सोला कलआ-षोडशकलाका षोडश कला: मात्रा यस्यां सा तादृशीत्यर्थः, छक्का बलआ-षड्बलया षट् बलया गुरवो यस्यां सा तादृशीत्यर्थः षड्गुरुयुक्तेति यावत् एसा-एषा असुसमा प्राणसमा सुसमा-सुषमा दिट्ठा-दृष्टा पिंगलेनेति शेषः । सुषमानामकमेतद्वृत्तं पिंगले(न) प्रकाशितमित्यर्थः । अत्र कलाज्ञापकं च पदं पद्यपूरणार्थमेव, वर्णवृत्तेषु मात्राकथनस्यानतिप्रयोजनकतया (लघु)गुरुज्ञापकत्वाच्चेति मंतव्यं । क्वचित्तु हत्थो पअलो इति पाठस्तत्र हस्तः प्रकट इति व्याख्येयम् ।
९७. सुषमामुदाहरति, भो इति । यस्याः भ्रूः कबिला-कपिला ललाट: (ट) उच्चा-उच्च: (च्चं) णेत्ता यु(जु)अला-नेत्रयुगलं मझ्झा पिअला-मध्यपीतं मार्जारनयनसदृशमित्यर्थः । बअणा-वदनं रुक्खा-रूक्षं दंता विरलाः, ताका-तस्याः पिअला-प्रियः कै(के)से-कथं जिबिआ-जीवति । परमकुत्सितरूपा यस्य कांता स कथं प्राणान्धारयति इति सकलावयवरमणीयकांताकस्य कस्यचित्कुकांताकं प्रति वचनमिदम् ।
९८. अथ दशाक्षरचरणस्य वृत्तस्य षण्णवत्यधिकचतु:शततम भेदम् अमृतगतिनामकं वृत्तं लक्षयति, दिअबरेति । दिअबर हार पअलिआ-द्विजवरहारप्रकटिता द्विजवरश्चतुर्लघ्वात्मको गण: हारो गुरुस्ताभ्यां प्रकटितेत्यर्थः, अथवा प्राकृतभाषायां पूर्वनिपातं कृत्वा योजनीयं, पुणबि-पुनरपि तहट्ठिअ-तथैव संस्थाप्य द्विजवरहारौ दत्वेति यावत् करिआ-कृता । अथवा पूर्वोक्तप्रकारेण करिआशब्दस्य पूर्वनिपातं कृत्वा पुणबि करिआ तहट्ठिअ-पुनरपि कृततथास्थितिः कृत्वा तथा तेन प्रकारेण द्विजवरहारस्थापनप्रकारेणेति यावत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org