________________
३१५
*परिशिष्ट (३) ८२. अथ नवाक्षरचरणस्य वृत्तस्य षट्पंचाशादधिकद्विशततमं भेदं कमलानामकं वृत्तं लक्षयति, सरसेति । गण सरस-गण श्रेष्ठं रमणिआ-रमणीयं दिअबर जुअ-द्विजवरयुगं द्विजबरश्चतुर्लघ्वात्मको गणस्तस्य युगलं तथा चाष्टौ लघूनिति परमार्थः पलिआ-दत्वा । गुरुरेकः प(इ)पओ-प्रतिपादं यत्र धरिअ-धृतः ध्रियते वा दह कलअ-दशकलाकं तत् कमलओ-कमलकं तत्कमलनामकं वृत्तमित्यर्थः ॥ अत्र चान्वयान्यथानुपपत्या कृतस्य गण सरस पूरितस्य निपातस्य दोषापहानं नाशंकनीयमव(ह)ट्टभाषायां तस्य नियमाभावात् । सरसगण रमणिआ इति च पदद्वयं पद्यपूरणार्थमेवेति द्रष्टव्यम् ।
८३. कमलामुदाहरति, चलेति । स्पष्टार्थम्पद्यम् ।
८४. अथ नवाक्षरचरणस्य (वृत्तस्य) षण्णवतितमं भेदं बिंबनामकं वृत्तं लक्षयति, रअईति । सिरहि-सि(शि)रसि पादादाविति यावत् दिअ-द्विजश्चतुर्लध्वात्मको गण इत्यर्थः, मझ्झ-मध्ये राओ-राजा मध्यगुरुर्जगण इत्यर्थः यत्र पततीति शेषः, गुरु जुबल सब्ब सेसो-गुरुयुगलसर्वशेषं गुरुद्वयं सर्वेषां पादानां शेषे अंते यस्य तादृशमित्यर्थः, एतत् बिंब-बिंबं बिंबनामकं वृत्तमिति यावत् गुणिएगुणिनः गुणवंतः पुरुषस्य सहाओ-सहायः गुणोपदेष्टुत्वाद्गुणवत्पुरुषस्य सहायभूत इति यावत् फणि-फणि पिंगलः रअइ-रचयति, गुणह-गुणयत हे बुधजना इति शेषः ।। द्वौ गुरू यत्र प्रतिचरणं कमेण पततस्तबिंबनामकं वृत्तमिति फलितार्थः । अथवा सर्वशेषे पादान्ते गुरुयुगलं सि(शि')रसि द्विजः, विप्रगुरुद्वयमध्ये राजा जगण इत्यर्थः यत्र भवतीति शेषः, फणि रइअ-फणिरचितम् एसोएतत् बिंबं हे गुणि-हे गुणिनः शिष्याः सहाओ-स्वभावादेव गुणह-गुणयत इति भिन्न भिन्न योजनीयं । परे तु गुणिए सहाओहे गुणिनः सखाय इत्यर्थं कृत्वा सखिसंबोधनपरमेतत्पदमिति वदंति ।।
८५. बिबमुदाहरति, चलईति । एतत् चल-चलमाशुगत्वरमिति यावत् बित्त-वित्त चलइ-चलति नश्यतीत्यर्थः, तरुणत्तवेसोतरुणत्ववेषस्तारुण्यावस्थेति यावत् णस(इ)-नश्यति । सुपुरिस गुणेण बद्धा-सुपुरुषगुणेन बद्धा शुद्धा स्वच्छा कित्ति-कीर्ति: थिरस्थिरा रहइ-तिष्ठति ॥ तस्मात्सर्वमनित्यं मत्वा गुणानां लंबे पुरुषैरासमुद्रांतव्यापिनी कीतिर्भवति इति कस्य(चित्) परमाप्तस्य किंचिन्मित्रं प्रत्युपदेशः । बिंबं निवृत्तम् ।
८६. अथ नवाक्षरचरणस्य वृत्तस्य चतुःषष्ट्युत्तरत्रिशततमं भेदं तोमरनामकं वृत्तं लक्षयति, जस्विति । जस्(सु)-यत्र (आइ)आदौ हत्थ-हस्त: गुर्वंतः सगण इति यावत् बिआण-विज्ञात: विज्ञायते वा, तह-ततस्तथा वा बे पओहर-द्वौ पयोधरौ मध्यगुरुको जगणावित्यर्थः जाण-ज्ञायेते ज्ञातौ वा तत् तोमर छंद-तोमरनाम माणु-मानय, एम-एवं णाउ णरेंद-(नाग) नरेन्द्रः पभणेइ-प्रभणति । यत्र प्रथम सगणस्तदनंतरं च जगणद्वयं प्रतिचरणं प(त)ति तत्तोमरनामकं वृत्तमित्यर्थः ।
८७. तोमरमुदाहरति, चलीति । कोइल साब-कोकिलशावकाः चूअ-चूते सहकारवृक्षे चलि-गत्वा महुमास-मधुमासे वसंतसमये पंचम-पंचमं स्वरभेदं गाब-गायति । अत इति शेषः मझ्झ-मम मण-मनः बम्मह-मन्मथः ताब-तापयति, अज्जबिअद्यापि कंत-कांतः ण हु-न खलु आब-आगतः । एतादृशेऽपि कांतो नायातोऽतः किमाचरणीयं मया तत्त्वमेवादिशेति गूढाभिप्रायायाः कस्याश्चित् प्रोषितभर्तृकाया प्रियसखीं प्रति वाक्यमिदम् । तोमरं निवृत्तम् ।
८८. अथ नवाक्षरचरणस्य वृत्तस्य प्रथमं भेदं रूपमालानामकं वृत्तं लक्षयति, णाआराआ इति । चारी कण्णा चत्वारः कर्णा गुरुद्वयात्मका गणा इति यावत् अंते-कर्णचतुष्टयांते हाराए-हार: गुरुरित्यर्थः । एवं-प्रकारेण पाआए-पादे अट्ठाराहा-अष्टादश मत्तामात्रा यत्र भवंतीति शेषः, ए-एतत् सारा-सारमत्युत्कृष्टमिति यावत् रूआमाला छंदा-रूपमालाच्छंद: जंपाए-जल्प्यते कथ्यत इति यावत्, इति णाआराआ-नागराजः पिंगलः जंपे-जल्पति ॥ अत्र सारपदं मात्राज्ञापकश्च चरणः पद्यपूरणार्थमेव वर्णवृत्तेषु मात्राकथनानुपयोगादिति वाच्यम् ।
८९. रूपमालामुदाहरति, जमिति । जं-यस्मात् कारणात् बिज्जू-विद्युत् णच्चे-नृत्यति मेहंधारा-मेघांधकारा दिश: जा(ता)इति शेषः, णीबा-नीपाः कदंबा: पंफुल्ला-प्रफुल्लिताः, मोरा-मयूराः सद्दे-शब्दायन्ते । मंदा-मंदगामिनः सीआ-शीताः बाआ-वाताः बाअंता-वांति, कंता–कांतः णाआ-नागतः, अत: गाआ-गात्रं कंपंता-कंपते ।। वर्षाकालमवधि कृत्वा गतः कांतो नाद्याप्यागतोऽत: किमाचरणीयमिति स्वयमेव विचारं कुर्वत्याः प्रोषितभर्तृकाया वाक्यमेतत् । रूपमाला निवृत्ता ।
९०. अथ दशाक्षरचरणस्य वृत्तस्य चतुर्विंशत्यधिकदशशतं भेदा भवंति, तत्र चतुःषष्ठ्युत्तरत्रिशततमं भेदं संयुक्तनामकं वृत्तं लक्षयति, जस्विति । जसू(सु)यत्र आइ-आदौ हत्थ-हस्तः गुर्वतः सगण इति यावत् बिआणिओ-विज्ञाता, तह-ततस्तथावा बे पओहर-द्वौ पयोधरौ मध्यगुरुको जगणाविति यावत् जाणिओ-ज्ञातौ । अंत-जगणद्वयांते पादांते वा गुरु-गुरु: विज्ञात इति पूर्वेणान्वयः पिंगल जंपिओ-पिंगलजल्पितं सइ-तदेव संजुत-संयुक्तं छंद-वृत्तं, थप्पिओ-स्थाप्यतां । तत्संयुक्तनामकं वृत्तं ज्ञायतामित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org