________________
प्राकृतपैंगलम्
३१४
७२-७३. अथाष्टाक्षरचरणवृत्तस्य चतुःषष्टितमभेदं तुंगनामकं वृत्तं लक्षयति, तरलेति । पढम-प्रथममादाविति यावत् रस सू(सु)रंगो-रसैलघुभिः सू (सु) रंगो-सुन्दर इत्यर्थः, कियद्भिर्लघुभिरित्यपेक्षायां हेतुगर्भविशेषणमाह, णगणेति । णगण यु(जु)बल बद्धो-नग(ण)युगलबद्ध: नगणस्त्रिलघ्वात्मको गण: अंते इति शेषः गुरुः यु(जु)अ(व)ल पसिद्धो-गुरुयुगलप्रसिद्ध: गुरुद्वयप्रसिद्ध नगणद्वयांते यत्रे तादृशमित्यर्थः तरलणअणि-हे तरलनयने स तुंगो-तुंगः तत्तुंगाख्यं वृत्तमित्यर्थः ।। नगणद्वयानंतरं गुरुद्वयं यत्र प्रतिचरणं पतति तत्तुंगनामकं वृत्तमिति फलितार्थः । अत्र पढम रस सू(सु)रंगो इति पदं पद्यपूरणार्थमेवेति बोध्यम् । तुंगमुदाहरति, कमलेति । कमल भमल जीवो-कमलभ्रमरजीवः कमलांत:पातिनो ये भ्रमरास्तेषां बंधनमोचनाज्जीवनदातेत्यर्थः सअल भुअ(व)ण दीवोसकलभुवनदीपः प्रकाशकत्वादिति भावः । दलिअ तिमिरडिंभो-दलिततिमिरोपप्लवः, डिंभस्तूपप्लवः प्रोक्तः इति देशीकोषः, एतादृशस्तरणिबिम्ब: सूर्यबिम्ब: उअइ-उदेति ॥ तुंगो निवृत्तः ।
७४-७५. अथाष्टाक्षरचरणवृत्तस्य षण्णवतितमं भेदं कमलनामकं वृत्तं लक्षयति, पढमेति । जह यत्र विप्पआ–विप्रक: चतुर्लध्वात्मको गण इति यावत् पढम-प्रथमः गणः, गुरु अंतिणा-गुरुसहितांतः यस्यांते गुरुरेतादृश इत्यर्थः णरिंद-नरेन्द्रः मध्यगुरुर्जगण इति यावत् बिह-द्वितीयः गणः पूर्वेणान्वयः एम भंतिणा-एवंप्रकारेण कमलनामकं वृत्तं भवत्यर्थः ॥ यद्वा अवहट्टभाषायां लिंगविभक्तिवचनव्यत्यासे दोषाभावात् । गुरु सहिअ अंतिणा-गुरुसहितांतम् इति वृत्तविशेषणं वाच्यम् । कमलमुदाहरति, सेति । (असु) रकुल मद्दणा-दैत्यवंशमनः गरुड: बर बाहणा-गरुड: वरं श्रेष्ठं वाहनं यस्य तादृश इत्यर्थः बलि भुवण चाहणा-बलिभुवनं बलिराज्यं जिघृक्षुरित्यर्थः सः जणद्दणा-जनार्दनः जअइ जयति ॥ कमलं निवृत्तम् ।।
७६. अथ प्रस्तारक्रियया नवाक्षरस्य द्वादशाधिकं पंचशतं भेदा भवन्ति, तत्राष्ट (सप्त) चत्वारिंशाधिकशततमं भेदं महालक्ष्मीनामकं वृत्तं लक्षयति, दिद्वेति । जा-ये रगणा णाअराएण-नागराजेन पिंगलेनेति यावत् विण्णिआ-विज्ञाता वर्णिता वा, मास अद्धण-मासार्द्धन मासार्द्धपरिमिताभिः पंचदशभिर्मात्राभिरित्यर्थः दिट्ठ-दृष्टा उपलक्षिता इति यावत् ते एतादृशाः तिण्णिआ-त्रय: जोहा गणा-योद्धगणा मध्यलघुरगणा इति यावत् यत्र पाअ-पादे ट्ठिअं-स्थिताः । तां महालच्छिअं-महालक्ष्मी जाण-जानीहीति । अत्र मात्राकथनं श्लोकपूरणार्थमेव । रगणत्रयरचितचरणा महालक्ष्मीरिति तु निष्कृष्टार्थः ।
७७. महालक्ष्मीमुदाहरति, मुंडेति । मुंडमाला गला कंठिआ-मुंडमालैव गलकंठिता कंठभूषेति यावत् यस्यास्तादृशीत्यर्थः संठिआ णाअराआ भु(आ)-संस्थितनागराजभुजा । प्राकृते पूर्वनिपातानियमादग्रे वर्तमानस्यापि संठिआशब्दस्य पूर्वनिपातः । बध्यछाला किआ बासणा-व्याघ्रचर्मकृतवसना सिंहासणा-सिंहारूढा चंडिआ-चंडिका पाउ-पातु ॥ महालक्ष्मीनिवृत्ता ॥
७८. अथ नवाक्षरचरणस्य वृत्तस्य चतुश्चत्वारिंशा (अष्टा)धिकद्विशततमं (२०८) भेदं सारंगिकानामकं वृत्तं लक्षयति, दिअबरेति । सहि-हे सखि पअ पअ-पदे पदे दिअवर कण्णो सअणं-द्विजवरकर्णसगणैः, द्विजवरश्चतुर्लघ्वात्मको गणः, कर्णो गुरुद्वयात्मको गणः, सगणोंऽतगुरुगणस्तैरित्यर्थः, मत्ता गणणं-मात्राग(ण)नं यत्र क्रियत इति शेषः, सर मुणि मत्ता लहिअंशरमुनिमात्राश्लाघिता, शराः पंच, मुनयः सप्त, तथाच प्रतिचरणं द्वादशमात्रायुक्तेत्यर्थः, सा सरगिक्का-सारंगिका कहिअं-कथिता ॥ वचनलिंगव्यत्यासस्तु प्राकृते न दोषायेति पूर्वमेवोक्तम् । कियतीनां मात्राणां गणनं विधेयमित्यत्र हेतुगर्भ श(स)र मुणीति वृत्तविशेषणम् । केचित्तु दिअबर कण्णो-द्विजवरकी सअणं-सगणः एवं प्रकारेण यत्रेति शेषः मत्ता गणणं-मात्रागणनं क्रियत इति शेषः, कियंत्यो मात्रा गणनीया इत्यपेक्षायामाह, सरेति, सर मुणि मत्ता-शरमुनिमात्राः, शरा: पंच मुनयः सप्त मिलित्वा द्वादशेत्यर्थः लहिअं-लभ्यन्ते यत्र, सा सहि-हे सखि सारंगिका कहिअं-कथ्यतामिति योजनिकामाहुः । अत्र वर्णवृत्ते मात्राकथनं पादपूरणार्थमेव । द्विजवरकर्णसगणरचितचरणा सारंगिकेति निष्कृष्टार्थः ॥
७९. सारंगिकामुदाहरति । हरिणसदृशनयना कमलसदृशवदना । युवजनचित्तहरणी तरुणी हे प्रियसखि दृष्टा ।। कस्याश्चित्सख्याः कांचिन्निजवयस्यां प्रति वचनमिदम् । सारंगिका निवृत्ता ।
८०. अथ नवाक्षरचरणस्य वृत्तस्यैकचत्वारिंशोत्तरद्विशततमं भेदं पवित्रानामकं वृत्तं लक्षयति, कुन्तीपुत्तेति । जह-यत्र प्रथम कुन्तीपुत्ता जुअ लहिअं–कुन्तीपुत्रयुगलब्धं प्राप्तमिति यावत् कुन्तीपुत्रस्य कर्णस्य गुरुद्वयात्मकगणस्येति यावत् युगं गुरुचतुष्टयमित्यर्थः, तीए-तृतीये स्थाने कर्णद्वयानन्तरमित्यर्थः विप्पो-विप्रश्चतुर्लघ्वात्मको गणः ध्रुवं निश्चितं कहिअं-कथितः । अन्ते विप्रान्ते हार: एकगुर्वात्मको गण: जणिअं-जनितः स्थापित इति यावत्, तं-तां फणि भणिअं-फणिभणितां पइत्ता-पवित्रां विद्धीति शेषः । गुरुचतुष्टयोत्तरचतुल्लघुकान्तस्थापितैकगुरुरचितचरणा पवित्रेति तु निष्कृष्टार्थः ।
८१. पाइत्ता (पवित्रा) मुदाहरति, फुल्लेति । भम भमरा-भ्रमभ्रमराः भ्रमंतः भ्रमरा येषु तादृशा इत्यर्थः णीबा-नीपाः कदंबा इति यावत् फुल्लाः पुष्पिताः, जल समला-जलश्यामला: मेहा-मेघाः दिट्ठा-(दृष्टाः) विज्जू-विद्युत् णच्चे-नृत्यति, अतः हे पिअ सहिआ-हे प्रियसखिके कंता–कांतः कहिआ-कदा आबे-आयास्यति तत्त्वमेवेति शेष: कहु-कथय ॥ इदं च प्रोषितभर्तृकायाः कांचिन्निजवयस्यां प्रति वचनम् । पवित्रा निवृत्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org