________________
३१३
परिशिष्ट (३) भ-भगणः आदिगुरुर्गण इति यावत् लहइ-लभ्यते, लहसू(सु) विसेसउ-लघुविशिष्टं तं (सुवासवणउ-भणत ॥ सू(सु)वासकनामकं तवृत्तमित्यर्थ । अत्र लहसू(सु) विसेसउ इदं विशेषेणं प्रथमस्थापितचतुर्मात्राणां लघुपरत्वलाभायेति बोध्यम् । द्विजवरभगणरचितचरणं सुवासकमिति फलितार्थः । सू(सु)वासकमुदाहरति, गविति । गुरुजण भत्तउ-गुरुजनभक्ता गुणजुत्तउगुणयुक्ता जसू-यस्य वहु-वधू: भार्येति यावत् जिअ पुत्तउ-जीवत्पुत्रा सइ–स एव पुणवंत(उ)-पुण्यवान् ॥ इति शेषः । सुवासकं निवृत्तम् ।
६२-६३. अथ सप्ताक्षरचरणवृत्तस्य षण्णवतितमं भेदं करहंचनामकं वृत्तं लक्षयति, चरणेति । पढम-प्रथमे चरणे विप्पविप्रं चतुर्लघ्वात्मकमिति यावत् गण-गणं लइ-गृहीत्वा थप्प-स्थापयत । तसु-तस्य विप्रगणस्येति यावत् अंत-अन्ते जगण-मध्यगुरुं थप्प इति पूर्वेणान्वयः, करहंच कर (हंचम्) एवं मुणह-जानीत । करहंचनामकमेतद्वृत्तमित्यर्थः । अत्र प्रथमे इति द्वितीयादीनामुपलक्षकम् । करहंचमुदाहरति, बिबेति । एह-एतं देह-देहं गइ-गत्वा जइ-यदि तजउ-त्यजामि जिवउं-जीवामि तदेति शेषः, जइ-यदि रमण-भर्ता स एव होइ भवति, विरह-वियोगः जणु-मा भवत्विति शेषः । विरहानलदग्धशरीरत्याग एव मम श्रेष्ठ इति गूढाभिप्रायायाः कस्याश्चिन्मृतभर्तृकायाः सहगमनं कर्तुमुद्यतायाः श्रीरघुनाथं प्रति प्रार्थनावाचनमिदम्, सा चोत्तरार्द्धन प्रकटिता । करहंचो निवृत्तः ।
६४-६५. अथ सप्ताक्षरचरणवृत्तस्य अंतिमं (आद्यं) भेदं शीर्षरूपकनामकं वृत्तं लक्षयति, सत्तेति । आदौ कला ती-कर्णान् गुरुद्वयात्मकान् गणान् त्रीन् तदनंतरं गो-गुरुं माणेही-मानय, एवंप्रकारेण चाउद्दाहा मत्ताणा-चतुर्दश मात्रा: सत्त दीहा-सप्त दीर्घान् सीसारुआ छंदाणा-शीर्षरूपकच्छन्दसि जाणेही-जानीहि ॥ दीर्घसप्तकरचितचरणं शीर्षरूपकमिति फलितार्थः शीर्षरूपकमुदाहरति, चंदेति । चंद्रः कुंद: काशाः ए-एते हार: मौक्तिकदाम इति यावत् हारा-हीरकं मणिभेदः हंसा-हंसः ए-एते । जे जे सेत्ता वण्णीआये ये श्वेता वर्णिताः ते ते इति शेषः तुम्ह कित्ती जिण्णीआ–युष्मत्कीर्त्या जिताः ॥ कंचिद्राजानं प्रति कस्यचित्कवेरियमुक्तिः । शीर्षरूपकं निवृत्तम् ।
६६-६७. अथाष्टाक्षरचरणवृत्तस्य प्रस्तारक्रियया षट्पंचाशदधिकशतद्वयं भेदा भवन्ति, तत्राद्यं भेदं विद्युन्मालानामकं वृत्तं लक्षयति, विज्ज्विति । यत्र ष(ख)त्ती-क्षत्रिये प्रस्तारे इत्यर्थः, पूर्वाचार्याणां क्षत्रिय इति प्रस्तारसंज्ञा, सोला मत्ता-षोडशमात्राका: चारीचत्वारः कर्णाः गुरुद्वयात्मका गणाः पाए-पादे लोला-लुठंति, एअं रुअं-एवंरूपेण चारी पाआ-चतुःपादिका विज्जूमालाणाआराआ-नागराजेनेत्यर्थ भत्ती-भण्यते ॥ षत्ती-क्षत्रिया जातिरिति कश्चित् । अत्र मात्राकथनमनतिप्रयोजकं पादपूरणार्थमेवेति बोध्यम् । विद्युन्माला-मुदाहरति, उन्मत्तेति । उन्मत्त-उन्मत्ता: दुक्कंता-ढौकमानाः परस्परं मिलता इति यावत् विप्पक्खा मझ्झे लुक्कंताविपक्षमध्ये लीनाः, णिकंता-निष्क्रांता विपक्षान् हत्वेत्यर्थः, यं(ज)ता-यांतः प्रतिपक्षसैन्यं प्रतीति भावः धावंता इतस्ततो धाबनं कुर्वंतः जोहायोद्धारः णिम्भंती-निर्धान्तां नितरां त्रैलोक्यभ्रमणशीलामिति यावत् कित्ती-कीति पावंता-प्राप्नुवन्ति । केनचिद्वन्दिना श्रीरामचन्द्रसंग्रामवर्णनपरतयेदं कृतम् ।
६८-६९. अथाष्टाक्षरचरणवृत्तस्य षडशीतितमं भेदं प्रमाणिकानामकं वृत्तं लक्षयति, लहु इति । लहु गुरु णिरंतरालघुगुरूनिरंतराणि अठक्खरा-अष्टावक्षराणि यत्र प्रतिचरणं पतंतीति शेषः सा पमाणिआ-प्रमाणिका तत्प्रमाणिकानामकं वृत्तमित्यर्थः । लहू गुरू णिरंतरेत्यनेन प्रथममेको लघुस्तदनन्तरं गुरुः पुनर्लघुः पुनर्गुरुरेवंप्रकारेणाष्टावक्षराणि कर्त्तव्यानीति सूच्यते । प्रसंगान्नाराचनामकं षोडशाक्षरचरणं वृत्तं लक्षयति, पमाणीति, पमाणीति । पमाणि-प्रमाणी प्रमाणिकेत्यर्थः नामैकदेशादपि सत्येत्यादौ नामप्रतीतेः, दूणद्विगुणा लघुगुरूनिरंतरषोडशाक्षरेति यावत् किज्जिए-क्रियते यदेति शेषः, सो-स: णराउ-नाराचः भणिज्जए-भण्यते प्रमाणिकामुदाहरति, णिसुंभेति । णि(नि)शुभशुंभखंडिनी गिरीस(श) गेहमंडिनी महादेवगृहं भूषयित्रीत्यर्थः । पअंड मुंड खंडिआ-प्रचंडमुंडखंडिही(नी) पसण्ण होउ चंडिआ-प्रसन्ना भवतु चंडिका ॥ प्रमाणिका निवृत्ता ।
___७०-७१. अथाष्टाक्षरचरणवृत्तस्य द्वि(एक)सप्तत्यधिकशततमं भेदं मल्लिका नामकं वृत्तं लक्षयति, हारेति । हार गंध बंधुरेणहारो गुरु: गंधो लघुस्ताभ्यां बंधुरेण-मनोहरेण दिट्ठ अट्ठ अक्खरेण–दृष्टाष्टाक्षरेण दृष्टान्यष्टावक्षराणि यत्र तादृशेनेत्यर्थः चरणेनेति शेषः । बारहाइ-द्वादशैव मात्रा यत्र जाण-ज्ञायंते, तत् मल्लिकासुच्छन्दः मल्लिकाख्यं सुन्दरं वृत्तमित्यर्थः माण (जाण)-माणय ॥ प्रमाणिकामल्लिकयोश्चैतावानेव भेदः यत्प्रमाणिकायां लघुगुरुक्रमेणाक्षराणि चरणे दीयंते, मल्लिकायां गुरुलघुक्रमेणेति बोध्यम् । मल्लिकामुदाहरति । जेण-येन जिण-जितः खत्ति वंस-क्षत्रियवंशः परशुरामरूपेणेत्यर्थः, रिट्ठिमुठ्ठि केसि कंस-रिष्टिक: मुष्टिक: केशी कंस: येन जित इति पूर्वेणान्वयः । बाण पाणि-बाणासुरपाणयः सहस्रबाहव इत्यर्थः (जेण)-येन कट्टिएउ-कर्तिताः, सोउ-सोऽयं तुम्हयुष्मभ्यं सूक्ख-सुखं देउ-ददातु मल्लिका निवृत्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org