________________
प्राकृतपैंगलम्
३१२ चतुरंसामुदाहरति, गवरिअ इति । अभिणउ संता-अभिनयश्रांतः, अभिनयस्तांडवचेष्टाविशेषः, गवरिअ कंता-गौरीकांतः । जइ-(यदा) परसण्णा-प्रसन्नः, तदेति शेषः महि-मह्यं धण्णा-धनं दिअ-ददातु ॥ अथवा अभिणउ-अभिनये संता-सन् वर्तमान इत्यर्थः जए परसण्ण यस्य प्रसन्नः, स इति शेषः दिअ महि धण्णा द्यावापृथिव्यो:धन्यः यतस्तांडवानंदितः शिवोऽदेयमपि ददातीति लोकप्रसि(द्धि)रितिभाव इति वा व्याख्येयम् । द्वितीयम् उदाहरणं । श्लोकस्तु निगदेनैव व्याख्यातः । चतुरंसा निवृत्ता ।
५०-५१. अथ षडक्षरचरणस्य वृत्तस्य सप्तत्रिंशत्तमं भेदं मंथाननामकं वृत्तं लक्षयति, कामेति । कामावआरस्स-कामावतारस्य तगणचतुष्टयनिर्मितद्वादशाक्षरचरणस्य सारंगरूपकापरनाम्न इत्यर्थः अद्धेण पाएण-अर्द्धन पादेन अंतलघुतमणद्वयेनेत्यर्थः । सुद्ध दहा मत्ता-शुद्धा दश मात्रा: यत्र षडक्षरचरणे वृत्ते प्रतिचरणं पतंति, सो-स: मंथाण-मंथानः बुझ्झ-ज्ञातव्यः । अथवा अवहट्टभाषायां लिंगविभक्तिवचनव्यत्यासे दोषाभावात् । सो-तं मंथाण-मंथानं बुझ्झ-विद्धीति वा व्याख्येयं, तगणद्वयचरणे मंथान इति तु निष्कृष्टार्थः । वर्णवृत्ते चात्र मात्राकथनं पद्यपूरणार्थमेव । मंथानमुदाहरति, राआ इति । जहा यत्र राआ-राजा लुद्धलुब्धः पंडीअ-हे पंडित मुद्धमुग्धः हो-भव । हो इति देशीयं भवेत्यर्थप्रसिद्धं । कित्ती-कीर्ति करे रक्ख-रक्षस्व, सो वाद (तं वादं) उप्पेख-उपेक्षस्व ॥ यत्र राजा कृपणस्तत्र विवदंतं(दमानं) जनमुपेक्ष्य पंडितेनापि त्वया निजकीर्तिमिच्छता मूर्खेण भवितव्यमिति कस्यचित् पंडितं प्रत्युपदेशः । मंथानो निवृत्तः ॥
५२-५३. अथ षडक्षरचरणस्य वृत्तस्य दशमं भेदं शंखनारीनामकं वृत्तं लक्षयति, खडेति । खडा वण्ण बद्धो-षड्वर्णबद्धा भुअंगा पअद्धो-भुजंगप्रयातार्द्ध । पआ-प्राप्ता, आदिलघुयद्वयनिर्मितेकैकचरणेत्यर्थः, पाअ चारीपादचतुष्टया शंखनारी कही-कथिता ॥ अत्र पाअ चारीति पदं पद्यपूरणार्थमथवाग्रे षोडशचरणस्यापि भुजंगप्रयातस्य वक्ष्यमाणत्वात्तदर्धाष्टचरणनिषेधार्थमिति द्रष्टव्यम् । आदि लघुयगणद्वयचरणा शंखनारीति तु समुदायार्थः । शंखनारीमुदाहरति, गुणेति । जस्य-यस्य गुणाः (शुद्धाः) दोषासंवलिताः वहू-वधूः रूअमुद्धा-रूपमुग्धा अतिसुंदरीति यावत् । घरे-गृहे वित्त-वित्तं धनमिति यावत् जग्गा-जाग्रत् सदा परिपूर्णमिति यावत्, तासु-तस्य मही पृथ्वी सग्गा-स्वर्गः ॥ यस्यैतत्सर्वं स भूमावपि स्वर्गसुखमनुभवतीत्यर्थः । धरा वित्त जग्गेति क्वचित्पाठः, तत्र गृहा जाग्रद्वित्ता इति प्राकृते पूर्वानिपातानियमाद्व्याख्येयम् । शंखनारी निवृत्ता।
५४-५५. अथ षडक्षरचरणवृत्तस्य षट्चत्वारिंशत्तमं भेदं मालतीनामकं वृत्तं लक्षयति, धअमिति । यत्र षडक्षरचरणे वृत्ते प्रथमं धअं-ध्वजः लघ्वादिस्त्रिकलो गण इत्यर्थः द्वितीयस्थाने च सर बीअ-शरद्वयं लघुद्वयमित्यर्थः तीअ-तृतीये स्थाने इति शेषः लहु अंत-लध्वंतः लघुरते यस्य तादृश इत्यर्थः मणीगुण-मणीगुणः हारो गुरुरित्यर्थः, दई-दीयते, इदं च यथायथं योजनीय, सा कंत-कांता सुंदरीति यावत् मालइ-मालती ॥ तन्मालतीनामकं वृत्तमित्यर्थः । कैश्चितु कंत इति कांतासंबोधनपरतया व्याख्यायते । मालतीमुदाहरति, करेति । सहि-हे सखि बहु गुणवंत-प्रासादाह्लादकत्वाद्यनेकगुणयुक्ता इत्यर्थः करा-किरणाः पसरंत-प्रसरंति, कुंदकुंदाः पफुल्लिअ-प्रफुल्लिताः यतः, अतः चंद-चन्द्रः उगो-उदित इति ज्ञायत इति शेषः ॥ मालती निवृत्ता ॥
५६-५७. अथ षडक्षरचरणवृत्तस्य चतुःषष्टितममंतिमं भेदं दमनकनामकं वृत्तं लक्षयति । दिअवस्-द्विजवरं चतुर्लध्वात्मकं गणमिति यावत् किअ-कृत्वा, सू(सु)पिअ-सुप्रियं लघुद्वयात्मकं गणमिति यावत् भणहि-कथय । दमणअ गुणि-दमनकं गुणय जानीहीति यावत् इति फणिवइ-फणिपतिः भणि-भणति ॥ न(गण)द्वययुक्तं दमनकनामकं वृत्तमिति फलितार्थः । दमनकमुदाहरति, कमलेति । कमल णअणि-कमलनयना अमिअ वअणि-अमृतवचना । तरुणि-तरुणी धरणि-गृहिणी भार्येति यावत् सू(सु) पुणिसुपुण्येन मिलइ-मिलिति ॥ मिलइ ज पुणीति क्वचित्पाठस्तत्र मिलति यदि पुनरित्यनंतरं तदा तां विहाय कुत्रापि न गमिष्यामीत्यध्याहृत्य व्याख्येयम् । दमनको निवृत्तः । इति षडक्षरं वृत्तम् ॥
५८-५९. अथ सप्ताक्षरचरणवृत्तस्याष्टाविंशत्यधिकशतं भेदाः भवंति, तत्र त्रिचत्वारिंशत्तमं भेदं समानिकानामकं वृत्तं लक्षयति, चारीति । यत्र सप्ताक्षरवृत्ते हार चारि-हारचतुष्टयं गुरुचतुष्टयमति यावत् किज्जि(ही)-क्रियते तिण्णि-त्रयः गंध-गंधा लघव इति यावत् दिज्जिहि(ही)-दीयंते । अंतरा अन्तरे णेति शेषः । एवं विधिना सत्त अक्खरा-सप्ताक्षराणि ठिआ-स्थितानि, सा समाणिआसमानिका पिआ–प्रिया पिंगलस्येति शेषः ॥ प्रथमं गुरुस्ततो लघुः पुनर्गुरुः पुनर्लघुरेवं क्रमेण यत्र प्रतिचरणं सप्ताक्षराणि स्थाप्यन्ते सा समानिकेति समुदायार्थः । केचित्तु पिआ इति पदं प्रियासंबोधनपरतया वदंति समानिकामुदाहरति, कुञ्जरा इति । पव्वआ-पळतान् पलंतआ-प्रेरयंतः कुञ्जरा-हस्ति(न:) चलंतआ-चलंति । कुम्म पिठ्ठि-कुर्मपृष्ठं कंपए-कंपते धूलि-धूत्या सूर-सूर्यः झंपएआच्छाद्यते ॥ श्रीरामचन्द्रे प्रचलति सतीति शेषः । समानिका निवृत्ता ।
६०-६१. अथ सप्ताक्षरचरणवृत्तस्यैकाशीत्युत्तर(वृत्तस्य द्वादशोत्तर)शततमं (११२) भेदं सुवासकनामकं वृत्तं लक्षयति, भणेति । यत्र चउ मत्तह-चतस्रः मात्राः चतुरो लघून् इत्यर्थः । अत्र मात्राशब्दो लघुपरः । रइ-रचयित्वा अंतह-अन्ते चतुर्लध्वन्ते इत्यर्थः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org