________________
३११
परिशिष्ट (३) ३५-३६. अथ पंचाक्षरस्य पंचमं भेदं हारीतनामकं वृत्तं लक्षयति, आईति । आईहि-आदौ अंते-चरणसमाप्तौ च कण्ण सजुत्ते-कर्णसंयुक्ते गुरुद्वययुक्तमित्यर्थः । मझ्झेक्क गंधो-मध्यैकगंधं मध्ये कर्णद्वयमध्ये एकः गन्धो लघुर्यत्र तादृशमित्यर्थः, तत् हारीअ छंदो-हारीतच्छन्दः पिंगलेन कथितमिति शेषः । यत्र प्रतिचरणं प्रथमतो गुरुद्वयं तत एको लघुस्ततश्च गुरुद्वयं भवति, तत् हारी(त) नामकं वृत्तमिति निष्कृष्टार्थः । कुत्रचित् हारे सजुत्ते इति पाठस्तत्र हाराभ्यां संयुक्तमिति व्याख्येयम् । हारीतमुदाहरति, जा भत्तीति । जा भत्ति भत्तायां भर्तृभक्ता धम्मक्क चित्ता-धर्मेकचित्ता-सा नारी स्त्री धण्ण पिआरी-धन्यप्रिया धन्यपुरुषस्य प्रिया गृहिणीत्यर्थः होइ भवति ॥ केचित्तु धण्णति भिन्नं पदं कृत्वा ता नारी धन्या प्रिया च भर्तुरिति शेषः भवतीति योजयंति । हारीतं निवृत्तम् ।
३७-३८. अथ पंचाक्षरस्य प्रस्तारस्य सप्तमं भेदं हंसनामकं वृत्तं लक्षयति, पिंगलेति । भ-आदिगुरुर्भगण इति यावत् कण्ण बि-कर्णोऽपि गुरुद्वयात्मको गणोऽपि यत्र पञ्चाक्षरचरणे वृत्ते दिज्जे-दीयते, पिंगल दिट्ठो-पिंगलदृष्टः सिट्ठो-सृष्टः पिंगलेनेति भावः, सः हंस-हंसः मुणिज्जे-ज्ञायते ॥ यदीयचरणे भगणोत्तरं गुरुद्वयं भवति तत् हंसनामकं वृत्तमिति निष्कृष्टोर्थः । अत्र देइ इति देकारस्य ऐ ओ शुद्धा अ वण्ण मिलिआ वि लहू पूर्वमुक्तत्वाद् ह्रस्वत्वम् पिंगल दिट्ठो सिट्ठो इति पदद्वयं पादपूरणार्धमिति द्रष्टव्यम् ॥ हंसमुदाहरति, सो महेति । सो-स: मह-मम कंता-कांतः धव इत्यर्थः दूर (दिगंता) दूरे (दिगन्ते) गतोऽस्तीति शेषः । अतः पाउसप्रावृट् आवे-आयाति, चेउ-चेतः चलावे-चालयति व्याकुलयतीत्यर्थः ॥ अत: किमाचरणीयं त्वं मे शिक्षयेति गूढाभिप्रायायाः प्रोषितभर्तृकयायाः प्रियसहचरी प्रति वाक्यमिदम् । हंसो निवृत्तः ॥
३९-४०. अथ पंचाक्षरप्रस्तारस्यांतिम भेदं यमकनामकं वृत्तं लक्षयति, सुपीति । हे सुगुण शोभनगुणविशिष्ट शिष्य यत्र पंचाक्षरचरणे वृत्ते सरह गण-श्लाघ्यगणौ अन्यगणेभ्यः श्लाघ्यावित्यर्थः सुपिअ गण-सुप्रियगणौ द्विलघुकौ गणावित्यर्थः, ततश्च सरशर: लघ्वात्मको गणः पतति, तत् यमकं भण पठेत्यर्थः ।। पंच लघवो यत्र प्रतिचरणं भवंति तत् यमकमिति पिंडार्थः, सरह गणेति तु पदं पद्यपूरणार्थमेव । यमकमुदाहरति, पवणेति । पवण-पवनः वह-वाति अत इति शेषः सरिर-शरीरं डह-दह्यते । मअणमदनः हण-हंति, अत इति शेषः मण-मनः तवइ-तपति । सर्वे भेदा वक्तुमशक्या अत: कियंतो भेदाः प्रदर्शिताः शेषभेदास्तु सुधीति:(भिः) एवमूहनीयाः ॥
४१-४२. अथ षडक्षरचरणस्य पद्यस्य प्रस्तारक्रियया चतुःषष्टिः भेदा भवंति, तत्राद्यं भेदं शेषराजनामकं वृत्तं लक्षयति, बाराहेति । बाराहामत्ता-द्वादशमात्रका: द्वादश मात्रा येषामेतादृशा इत्यर्थः, तिण्ण-त्रयः कण्णा-कर्णा गुरुद्वयात्मकागणाः जं-यत्र षडक्ष(र)चरणे वृत्ते होत्तं-भवंति । हारा छक्का बंधो-हारषट्कबद्धं गुरुषट्कयुक्तमित्यर्थः, तत् सेसा राआ छंदो-शेष राजच्छन्दः ।। तत् शेषराजनामकं वृत्तमित्यर्थः । अन्ये तु द्वादश मात्रा: त्रयः कर्णा यत्र भवंतीति पृथगेव पदं, हारा छक्का बंधो इति च पदं, पद्यपूरणार्थमेव । यत्र कर्णत्रयं प्रतिचरणं पतति तत् शेषराजनामकं वृत्तमिति त्वलम् । शेषराजमुदाहरति, जुझ्झंतीति । उद्दामे-उद्भटे संग्रामे संग्रामे, जुझ्झंती-युद्धं कुर्वंती णच्चंती-नृत्यन्ती कालिक्का-कालिका हम्मारो-अस्माकं दूरित्ता-दुरितानि संहारो-संहरतु ।। शेषराजो निवृत्तः ॥
४३-४४. अथ षडक्षरचरणस्य वृत्तस्याष्टाविंशतितमं भेदं तिल्लनामकं वृत्तं लक्षयति, पिअ इति । यस्य पओ-पदे छअ वण्ण-षड्वर्णाः कल अट्ठ-कला: अष्टौ धओ-धृताः, सगणेण-गुर्वन्तगणेन जुअं-युतं, तत् हे प्रिय ध्रुवं विनिश्चितं तिल्ल-तिल्लं तिल्लनामकं वृत्तमित्यर्थः ॥ छअ वण्णेत्यनेन सगणद्वयं युक्तं भवतीत्युक्तं भवति, मात्राकथनं तु पादपूरणार्थमेव । तिल्लमुदाहरति, पिअ इति । पिअ भत्ति-प्रियभक्ता पतिव्रतेति यावत् पिआ-प्रिया गृहिणीत्यर्थः गुणवंत-गुणवान् सुआ-सुतः । धणमंत-धनवत् घरागृहम् एतत्सर्वमिति शेषः बहुसुक्खकरा-बहुसुखकरम् ।। तिल्लच्छन्दो निवृत्तम् ।।
४५-४६. अथ षडक्षरचरणवृत्तस्यैकोनविंशति(त)मं भेदं विज्जोहानामकं वृत्त लक्षयति, अक्खरेति । जं यत्र पाअ पाअंपादे पादे छआ-षट् अक्खराअक्खरा-अक्षराणि ठिआ स्थितानि । पंचा दुण्ण-पंच द्विगुणिता दशेत्यर्थः मत्तमात्राः यत्र पादे पादे स्थिता इति पूर्वेणान्वयः, अवहट्ठभाषायां लिंगादिव्यत्यासे दोषाभावात् । अथ गणनियममाह, बिव्यणीति । बिण्णि-द्वौ जोहा गणायोद्धगणौ मध्यलघुरगणावित्यर्थ । पादे पादे स्थिताविति पूर्वेणान्वयः, तत् विज्जोहाख्यं वृत्तमि(ति) गणनाम्नैव छन्दोनामकथनं बोध्यमिति संप्रदायः । विज्जोहामुदाहरति, कंसेति । कंससंहरणः पक्षिसंचरणः गरुडगामीत्यर्थः । देवई भिआ-देवकीडिंभक: मेमह्यं णिभ्भआ-निर्भयं देउ-ददातु || विज्जोहा निवृत्ता ॥
४७-४८. अथ षडक्षरचरणस्य वृत्तस्य षोडशतमं भेदं चतुरंसानामकं वृत्तं लक्षयति, ठविति । दिअवर कण्णो-द्विजवरकरें द्विजवरश्चतुर्लध्वात्मको गणः, कर्णः गुरुद्वयात्मको गणस्तावित्यर्थः यत्र प्रतिचरणं पतत इति शेषः, फुल रस वण्णो स्फुटरसवर्णा प्रकटषडक्षरामिति यावत् फणिवइ भासा-फणिपतिभाषितां तां चउरंसाचतुरंसां ठउ-स्थापय ॥ चतुरंसानामकमेतद्वृत्तं विद्धीत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org