________________
प्राकृतपैंगलम्
३१० १७-१८. अथ त्र्यक्षरप्रस्तारस्य चतुर्थभेदं रमणनामकं वृत्तं लक्षयति, सगणेति । सगणः गुर्वंतगणो यत्र त्र्यक्षरचरणे वृत्ते सहिओ-साधितः निर्दिष्ट इति यावत्, स रमणः कहिओ-कथितस्तद्रमणनामकं वृत्तं कथितमित्यर्थः । केचित्तु सगण इत्यनन्तरं भवतीत्यध्याहृत्य सहिओ इदं सखीसंबोधनपरतया व्याकुर्वते । परे तु सगणेन सहिओ-सहितः रमणः कथित इत्याहुः । रमणमुदाहरति, सेति । शशिना चन्द्रेण रअणी-रजनी । पइणा-पत्या भर्तृभूतेनेति यावत् तरुणी शोभादयेत्यर्थः । केचित्तु शोभत इत्यध्याहृत्य शशिना पत्या तरुणीति पृथग्व्याकुर्वते । र(म)णो निवृत्तः ।।
१९-२०. अथ त्र्यक्षरचरणस्य वृत्तस्य पंचमं भेदं पंचालनामकं वृत्तं लक्ष(य)ति, तक्केति । जंयत्र त्र्यक्षरचरणे वृत्ते प्रतिचरणं तकारो तलघुस्तगण इत्यर्थः । दिट्ठ-दृष्टः, स उक्किठ्ठ-उत्कृष्टः पंचाल: कथि(त) इति शेषः । तत् पंचालनामकं वृत्तमित्यर्थः । अत्र उत्कृष्ट इति विशेषणं छंदःपूरणार्थमेव । पंचालमुदाहरति, सविति । सो-सः श्रीरामचन्द्र इति शेष: दुक्खाइ-दुःखानि संघारि-संहृत्य, सुखानि देउ-ददातु ।। पंचालो निवृत्तः ॥
२१-२२. अथ त्र्यक्षरचरणस्य वृत्तस्य षष्ठं भेदं मृगेन्द्रनामकं वृत्तं लक्षयति, णदेति । भो बुधा त्र्यक्षरचरणे वृत्ते प्रतिचरणमिति शेषः नरेन्द्र गुरुमध्यं जगणं ठवेहु-स्थापयत । मइंद-मृगेन्द्रं कहेहु-कथयत । मृगेन्द्रमुदाहरति, दुरंतेति । दुरंतो वसंतः । दिगंतरे कांत: ॥ अतो हे सखि कश्चिद्युवानमत्रानयेति गूढाभिप्रायायाः प्रोषितभर्तृकाया इदं वचनम् । मृगेन्द्रो निवृत्तः ॥
२३-२४. अथ त्र्यक्षरचरणस्य छन्दसः सप्तमं भेदं मंदरनामकं वृत्तं लक्षयति; भविति । हे सहि-सखि (ज)हि-यत्र त्र्यक्षस्चरणे वृत्ते भो-आदिगुरुर्भगणो भवति, सो-स सुन्दर: मंदरः तन्मंदरनामकं वृत्तमित्यर्थः ॥ अत्र सुन्दरेति पादपूरणार्थमेव । मंदरमुदाहरति, सविति । सो-स: हरः शिवः तोहर-युष्माकं संकटं दुःखं संहर क्षपयतु । मन्दरो निवृत्तः ॥
२५-२६. अथ त्र्यक्षरवृत्तस्यांत्यभूतमष्टमं भेदं कमलनामकं वृत्तं लक्षयति, कमलेति हे सुमुखि णगण-यत्र त्र्यक्षरचरणे वृत्ते नगणः सर्वलघुः पतति, तत्कमलं कमलनामकं वृत्तं पभण-प्रभणेत्यर्थः ॥ कमलमुदाहरति, रमणेति । रमण गमण-रमणस्य गमनं रमणगमनं तस्मिन् । कमण-कुत्र गमण-गमनं क्रियते इति शेषः इत्याह कमलं निवृत्तम् ॥
२७-२८. अथ चतुरक्षरस्य प्रस्तारक्रियया षोडश भेदा भवंति, तेषु प्रथमं भेदं तीर्णानामकं वृत्तं लक्षयति, चारीति । यत्र चतुरक्षरचरणे वृत्ते बिण्णे-द्वौ कण्णा-कौँ गुरुद्वयात्मको गणाविति यावत्, एवं प्रकारेण चारी हारा-चत्वारो हारा गुरवः पतन्ति, तां तिण्णा-तीर्णा जाणे-जानीहि तीर्णानामकं तद्वृत्तं विद्धीत्यर्थः कीदृशाः हाराः अट्ठा काला-अष्टौ कला येषां ते अष्टकला इत्यर्थः । अत्र चारी हारा अट्ठा कालेति वृत्तपूरणार्थमेव । यत्र प्रतिचरणं कौँ गुरुद्वयात्मको गणौ भवतः सा तीर्णेति निष्कर्षः । क्वचित्तु इट्ठाकारा इति पाठस्तत्र इष्टः पादपूरणार्थमपेक्षित इति यावत् आकारः स्थापनं येषां ते तादृशा इत्यर्थः । तीर्णामुदाहरति, जाआ इति । जाया वधूः । (माआ)-माया मायावतीत्यर्थः, पुत्तो धुतो-पुत्रो धूर्तः । इणे-एतत् जाणी-ज्ञात्वा जुत्तो-युक्तं किज्जे-क्रियताम् ।। कस्यचिदुपदेष्टुः संसारासक्तं प्रतिवचनमिदम् ॥
२९-३०. अथ चतुरक्षरचरणवृत्तस्यैकादशं भेदं घारीनामकं वृत्तं लक्षयति, वण्ण चारीति । अवहट्टभा(षा)यां पूर्वनिपातानियमादन्यथानुपपत्या सशब्दस्य हार-शब्दस्य च पूर्वनि(पा)तं विधाय योजनीयं, तथाच यत्र चतुरक्षरचरणे वृत्ते स दो सास्-ि सद्विस(श)रं हारि बिण्णि-हारद्धयम् । हारो गुरुः तद्वयमित्यर्थः । एवं प्रकारेण वण्ण चारि-वर्णचतुष्टयं भवति, हे मुद्धि-हे मुग्धे सा घास्-ितद्घारीनामकं वृत्तमित्यर्थः । अयमर्थः शरशब्दो लघुवाची हारशब्दश्च गुरुवाची, तथा च शरद्वयसहितं हाद्धयं यत्र भवत्येतस्यायं भावः-प्रथमं गुरुस्तदनंतरं लघुः पुनः गुरुः पुनस्तदनंतरं लघुः कर्त्तव्य एवंप्रकारेण चत्वार्यक्षराणि घारीच्छन्दसि प्रतिचरणं कर्तव्यानि, रगणान्तरं लघुः कर्त्तव्य इति तु परमार्थ इत्यस्मत्तातचरणोपदिष्टः पन्थाः । घारीमुदाहरति, देविति । जासु-यस्य सीसशीर्षे चंद-चंद्रः दीस-दृश्यते देउ (देउ)-देवदेवः शंभुरिति शेषः सुम्भ-शुभं देऊ-ददातु मह्यमिति शेषः । घारी निवृत्ता ॥
३१-३२. अथ चतुरक्षरप्रस्तार(र)स्य षष्ठभेदं नगाणिकानामकं वृत्तं लक्षयति, पओहरेति । गुरुत्तरो-गुरूत्तर: गुरु: उत्तर: अग्रे स्थितो यस्यैतादृशः पयोधरो मध्यगुरुर्जगणः यत्र चतुरक्षरचरणे वृत्ते पतति । स-सा णगाणिआ-नगाणिका जाणिआ-ज्ञातव्या ॥ तत् नगाणिकानामकं वृत्तं ज्ञातव्यमित्यर्थः । नगाणिकामुदाहरति, सरस्सईति । सरस्सई-स(र)स्वती पसण्ण हो–प्रसन्ना यदि भवति । कइत्तआ-कवित्वानि फुरं-स्फुरंति तआ-तदा ॥ नगाणिका निवृत्ता ।।
३३-३४. अथ पंचाक्षरस्य प्रस्तारक्रियया द्वात्रिंशद्भेदा भवंति, तत्राद्यं भेदं संमोहानामकं वृत्तं लक्षयति, संमोहेति । बे कण्ण हारा-द्विकर्णहारौ यत्र पंचाक्षरचरणे वृत्ते पततः, कर्णो गुरुद्वयात्मको गणः, हारो गुरुस्तथा पंचगुरवो यत्र भवंतीति भावः, भूअंता सारा-भुवनसारं, तो-तत् भू-भूमौ संमो(हा)-रुअं-सम्मोहास्वरूपं दिट्ठो-दृष्टं । सत्संमोहानामकं वृत्तमित्यर्थः । सम्मोहामुदाहरति, उदंडेति । दूरित्ता खंडी-दुरितखंडिनी उदंडा-उद्भटा महिषासुरादिवधेनेति भाव: चंडी-चण्डिका । तेधो(लो) क्का सोखं-त्रैलोक्यसुखं मोक्खं-मोक्षं त्रैलोक्यसुखरूपमोक्षमित्यर्थः मे-मह्यं देऊ ददातु ॥ केचित्तु तेलोक्केति षष्ठ्यन्तं पदं कृत्वा त्रैलोक्यस्य सुखं च पुनः मे मह्यं ददात्विति व्याकुर्वते । संमोहा निवृत्ता ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org