________________
द्वितीयः परिच्छेदः
अभ्यन्तर्वतिनीलद्युतिमणिनिकरप्रस्फुद्रश्मिजालाभिव्याप्तक्षीरसिंधुद्युतिसदृशमहाकान्तकायप्रभोम्मि । नित्येच्छाज्ञानयत्नत्रिभुवनजनकं निर्विकारस्वरूपं नित्यानंदं भजेऽहं निजहृदयगतं ब्रह्म रामाभिधानम् ॥१॥
वंशीधरेण कविना रघुवीरमंतर्ध्यात्वादरात् पवनजांघ्रियुगं च नत्वा ।
व्याख्यायते गणपतिं बहुशः प्रणम्य श्रीशेषपिंगलविनिम्मितवर्णवृत्तम् ॥२॥ १-२. अथैकाक्षरचरणवृत्तमारभ्य षड्विंशत्यक्षरपर्यंत यथाशक्यं लक्षणीयेषु वृत्तेषु प्रस्तारक्रियाप्राप्तभेदद्वयस्यैकाक्षरचरणवृत्तस्य प्रथमभेदं श्रीनामकं वृत्तं ल(क्ष)यति सी सविति । जं-यत्र एकाक्षरपादे वृत्ते गो-गुरुः प्रतिचरणं भवतीति शेषः, एवमग्रेऽपि अध्याहारो बोध्यः, सा श्री:-तत् श्रीनामकं वृत्तमित्यर्थः ॥ श्रियमुदाहरति । जहा-यथा उदाह्रियते इत्यर्थः, एवमग्रेऽपि बोध्यम् । गोरीति । गौरी पार्वती, रक्खो-रक्षसु मामिति शेषः । आद्योऽयं भेदः उक्तः । द्वितीयस्तु शिव जयेति द्रष्टव्यः । श्रीनिवृत्ता ।
३-४. अथ व्यक्षरचरणस्य वृत्तस्य चत्वारो भेदाः प्रस्तारक्रियया भवंति, तत्राद्यं भेदं कामाख्यं वृत्तं लक्षयति, दीहेति । बीहा-द्वौ दीहा-दीघौ यत्र व्यक्षरचरणे वृत्ते भवतः स रामः सुन्दरः (कामः) कामाख्यं वृत्तमित्यर्थः । अत्र रामपदं पादपूरणार्थमेवेति मन्तव्यम् काममुदाहरति जुझ्झे इति । जुझ्झे-युद्धे तुभ्यं शुभं देऊ-ददतु ॥ श्रीरामचन्द्र इति शेषः ।।
५-६. व्यक्षरचरणस्य वृत्तस्यान्तिमं भेदं मधुनामकं वृत्तं लक्षयति, लह्विति । लहु जुअ-लघुयुगं यत्र व्यक्षरचरणे वृत्ते पतति । तत् महु-मधु हुअ-भवति । मधुनामकं तवृत्तमित्यर्थः । मधूदाहरति, हरेति । हे हर मम मलु-मलं पापं हर क्षपय ॥ मधु निवृत्तम्
७-८. व्यक्षरपादस्य वृत्तस्य द्वितीयं भेदं महीनामकं वृत्तं लक्षयति, लगाविति । जही-यत्र व्यक्षरचरणे वृत्ते लगौ (गो)लघुगुरू क्रमेण भवतः । सा मही कही-कथिता ॥ तन्महीनामकं वृत्तमित्यर्थः । जहा (यथा) सईति । सई-सती पतिव्रतेति यावत् उमा पार्वती । तुमा-त्वां रक्खो-रक्षतु ॥ मही निवृत्ता ॥
९-१०. व्यक्षरपादवृत्तस्य तृतीयं भेदं सारुनामकं वृत्तं लक्षयति, साविति । यत्र व्यक्षरचरणे वृत्ते पूर्वं गो-गुरुस्तदनन्तरं रेह-रेखा लघुरित्यर्थः पतति, एह-एतत्सारु सारुनामकं वृत्तमित्यर्थः । विशब्दोऽप्यर्थकोऽत्र पादपूरणार्थमेव । अथवा गो-गुरुः रेहरेखा एवं प्रकारेण यत्र बि-अक्षरद्धयात्मकं पदं भवति इह-एतत्सारुनामकं वृत्तमिति व्याख्येयम् । सारूदाहरति, संभ्विति । एउदेवः संभु-शंभुः शिवः । सुम्भ-शुभं देउ–ददातु इति शेषः ॥ सारु निवृत्तम् । व्यक्षरवृत्तं गतम् ॥
११-१२. अथ त्र्यक्षरचरणस्य वृत्तस्य प्रस्तारक्रियया अष्टौ भेदा भवंति, तत्राद्यं भेदं तालीनामकं वृत्तं लक्षयति, तालीति । यत्र त्र्यक्षरपादे वृत्ते पूर्वं गो-गुरुस्तदनन्तरं कण्णो-कर्णः गुरुद्वयात्मको गणो भवति, सा ए-इयं ताली जाणीए-ज्ञायते, तत्तालीनामकं वृत्तमित्यर्थः । कीदृशो ती वण्णो-त्रिवर्णेत्यर्थः । यद्वा गो-गुरु: कण्णो-गुद्धयात्मको गण एवं प्रकारेण यत्र प्रतिचरणं ती वण्णोत्रयो वर्णा भवन्ति, ए-इयं ताली जाणीए-ज्ञायते ॥ अथवा ती वण्णो-त्रिवर्ग: गो कण्णो-गुरुकर्णरूपैः तालीए-तालीयं जाणीएज्ञायत इति व्याख्येयम् । तालीमुदाहरति, त्विति । सो-सः चंडेसो-चंडीश: तुम्हाणं-युस्मान् अम्हाणं-अस्मान् रक्खे-रक्षत्वित्यर्थः ॥ ताली निवृत्ता ॥
१३-१४. अथ त्र्यक्षरपादस्य वृत्तस्य तृतीयं भेदं प्रियानामकं वृत्तं लक्षयति, हे पिए इति । तिण्णि-त्रीणि रे-राणि मध्यलघुरगणात्मकानि अक्खरे-अक्षराणि यत्र त्र्यक्षरचरणे वृत्ते लेक्खिए-लिख्यते, हे-इयं पिए-प्रिया प्रियानामैतवृत्तमित्यर्थः ।। केचित्तु हे पिए इति प्रियासंबोधनपरतया व्याकुळते । प्रियामुदाहरति, संकरविति । पाउणो-पावनः संकरो-शिवकर: संकरो-महादेवः णो-नः अस्मानिति यावत् पाउ-पातु रक्षत्वित्यर्थः ॥ प्रिया निवृत्ता ॥
१५-१६. अथ त्र्यक्षरचरणवृत्तस्य द्वितीयं भेदं शशिनामकं वृत्तं लक्षयति, ससीति । यत्र त्र्यक्षरपादे वृत्ते च यआदिलघुर्यगणः जणीओ-जनितः कृत इति यावत् सः फर्णिदे-फणीन्द्रेण शेषेण शशी भणी)ओ-भणितस्तत् शशिनामकं वृत्तमित्यर्थः ।। अथवा भवतीत्यध्याहृत्य शशी जणीओ-ज्ञातव्यमि (इ)त्यर्थः इति योजनीयं । शशिनमुदाहरति, भवाणीति । दुरित्तं-दुरितं हरन्ती हसंती
हसमाना (?) भवानी मां पात्विति शेषः ॥ शशी निवृत्तः ॥ Jain Education International
www.jainelibrary.org
For Private & Personal Use Only