________________
प्राकृतपैंगलम्
३०८ २०४. अथ मनो(जल)हरणमुदाहरति खुर इति । खुस्-खुरैः महि-महीं खुदि-क्षोभयित्वा, खुलुकि ण ण ण गृदि इत्यनुकृत्य, घघरु रव कलहि-घघरति वं कृत्वा हेषां विधायेत्यर्थः रणहि-रणे संग्रामे तुरअ चले-तुरंगाश्चलिताः, ठठगृदीत्यनुकृत्य टपु-टापः अश्वपादाघातादित्यर्थः पलइ-पतति, तेन च धरणिवपु धरणीधसु(वपु)-पृथ्वीशरीरं धसइ-प्रचलति, बहु दिसि-चतुर्दिक्षु चमलेचामराणि चकमक करु-कुर्वंति चाकचिक्यशोभामुत्पादयंतीत्यर्थः । दल-दलं सैन्यं दमकि दमकि-अहमहमिकया चलु-चलितं, चलति पदातिबलं, घुलु(की)त्यनुकृत्य करिवराश्चलिताः, वर मनुसवर-सत्पुरुषवरः करइ विपख हिअअ सल-करोति विपक्षहृदयेषु शल्यं, हमिरवीर-हम्मीरवीरः यदा च रणे चलितः ॥
२०५. अथ मदनगृहनामकं वृत्तं लक्षयति पिअ भणईति । हे सुहअ सुहाव-सुभगस्वभाव पिअ-प्रिय शिष्य, जह-यदि राअ-रागः पठितुं वा इच्छा विवत्ति-विवर्त्तते विशेषेण वर्त्तत इत्यर्थः, तथा खत्तिअ-क्षत्रियं प्रस्तारम् अणुसस्-िअनुसृत्य, क्षत्रिय इति प्रस्तारशंसी पूर्वाचार्याणां, पओहरु-पयोधरं मध्यगुरुं जगणं पेल्लि-प्रेरयित्वा प्रस्तारानुसारेण जगणमेतच्छंदसो दूरीकृत्येत्यर्थः, अत्र जगणो न देय इति भावः । छंद-इदं छंदः कट्टिकए बहि-निष्काशयित्वा बहिः अर्थात् प्रस्तारादिदं छंदः पृथक्कृत्वेत्यर्थः, खणद्ध खणो-क्षणमर्द्धक्षणं वा मणो मनः स्थिरं कुरु, जइ-यदा बि बि सल्ल-द्वौ शल्यौ द्वे मात्रे ते च लघुद्वयरूपे एकगुरुरूपे वात्र नाग्रह:, यद्यपि शल्यशब्द: लघुवाची तथाप्यत्र सामान्यमात्रापरो बोध्यः उदाहरणे प्रथमद्वितीयचरणयोर्लघोस्तृतीयचतुर्थयोश्च गुरोर्दर्शनात्, अनुपदं दोहाकृते लक्षणे बे बि मत्तेति वक्ष्यमाणत्वाच्चेति ध्येयं, पहिल्लिअ-प्रथमं गृहीत्वा पादादौ द्वौ लघू स्थापयित्वेत्यर्थः सज्जिकरासज्जीकृतं गुरु-गुरुं बहिल्लिअ-बहिर्गृहीत्वा बहि: पादांते, तथा चरणांते गुरुं स्थापयित्वेत्यर्थः तुरग: गजः रथः एते दह गण-दश गणा: पअ-पादे धरा-धृताः पसरंत-प्रेर(य)ति । तुरगादयश्चतुष्कलदशगणदानबोधनार्थमुपनिबद्धाः । एवं च दीयमानेषु दशचतुष्कलेषु आदौ मात्राद्वयं लघुद्वयरूपमेकगुरुरूपं वा, अंते चैकगुरुरूपं देयं, न तु दशगणातिरिक्तमिति भावः । एवं च चालिस-चत्वारिंशन्मात्रा इति शेषः धरा-घटिताः वुत्तेउ-उच्यते, दशचतुष्कलानां प्रतिचरणं चत्वारिंशन्मात्राः पतंतीत्यर्थः, तइ-तदा जग्गि णिरुत्तउ-जागरणं कृत्वा निरुक्तं, जागरणमत्र सावधानतोपलक्षणार्थ, तथा च सावधानतया पिंगलेन निरुक्तमित्यर्थः, मअणहरा-मदनगृहनामकं वृत्तं भणुपठ एवमेतच्च जेम-यथा खलिअ रिणो-स्खलणं तथा मणोहरु-मनोहरं मुणो-जानीहि, यथोपचित-मृण(मु)द्धरीभवच्चित्ताह्लादकं भवति तथा श्रूयमाणमेतच्छंद इत्यर्थः, इति भणइ–भणति, अर्थात् पिंगल इति भावयोजना ॥
२०६. अथैनमेवार्थं निःकृष्य दोहावृत्तेनाह बेबि मत्तेति । द्वे अपि मात्रे शिरसि आदौ ठावि कइ-स्थापयित्वा, अंते वलआवलयं गुरुं कुरुत । मझ्झ-मध्ये द्विमात्रा गुर्वोरंतराले इत्यर्थः नव चतुष्कलगणान् धरि स्थापयित्वा मदनगृहं कथयत ॥
२०७. अथ मदनगृहमुदाहरति, जिणीत । येन कंसो विनाशितः कीर्तिः प्रकाशिता रिष्टकमुष्टिकयोः दैत्ययोः विनाशः कृतः गिरिर्गोवर्द्धनो हस्ते धृतः यमलार्जुनौ वृत्तौ(क्षौ) भग्नो पादभरगंजितकालियकुलस्य संहारः कृतः, यस्य यशसा भुवनं भृतं । चाणूरो नाम दैत्यः विपादितः, निजकुलं मंडितं, राधामुखमधुपानं कृतं यथा भ्रमरवरः । भ्रमरो यथा कमलमकरंदपानं करोतीत्यर्थः ॥ स नारायणः विप्रपरायणः भवभीतिहरः चित्तचिंतितं वरं ददातु ||
२०८. अथ महाराष्ट्रनामकं वृत्तं लक्षयति, एहु छंदेसि । यत्र अदौ दह अक्खरदशाक्षरेषु, अत्राक्षरशब्देन मात्रा उच्यते, तथाच दशसु मात्रास्वित्यर्थः विसमइ-विश्राम्यति यति प्राप्नोतीत्यर्थः, पुणु अट्ठक्खर-पुनः अष्टाक्षरेषु अष्टसु मात्रास्वित्यर्थ, पुणुवि एआरह ठाउ-पुनरपि एकादशस्थाने एकादशसु मात्रास्वित्यर्थः विश्राम्यतीति पूर्वेणान्वयः । यत्र च सोलह अग्गल-षोडशाधिकाः सउ-शतं मत्त-मात्राः, समात्राः (?) समग्गल-स(म)ग्राश्चरणचतुष्टयस्था इत्यर्थः, यत्र च आइहि-आदौ छक्कलु-षट्कलं गणं, ततः पंच चतुष्कलान्, अंते-पादांते गुरुलहु-गुरुलघुक्रमेणेत्यर्थः देहु-ददत एहु छंद-एतत् छंद: सुलक्खण-सुलक्षणं सर्वेषु वृत्तेषु समीचीनमित्यर्थः मरहट्ठा-महाराष्ट्र भणहि-कथय, एहु-एतत् विचक्षणः पिंगलनाग: जल्पति ।।
२०९. अथ महाराष्ट्रमुदाहरति जईति । यद्यपि मित्रं धनेश्वरः श्वशुरो गिरीशः, तथापि यस्य खलु पिंधनं दिशः, यद्यपि अमृतकंद: निकटे चंद्रः, तथापि यस्य भाजनं विषं । यद्यपि कनकसुरंगा गौरी अर्धांगे, तथापि यस्य डाकिन्यः संगे, य: यश: दापयति यश्च देवस्वभावस्तस्य भंगः कदापि न भवति ।
इति लि(ली)लावति(ती) प्रकरणम् ॥ अस्ति श्रीखेखसीति त्रिभुवनवलयख्यातनाम्नी पुरी या तस्याश्चंद्राकराख्यः समभवदधिपः क्षोणिदेवाग्रगण्यः । तद्वंशे कृष्णदेवः समजनि तनयस्तस्य वंशीधराख्यो जातस्तन्निर्मितेयं जगति सुविमला टिप्पनी पिंगलस्य ॥
इति श्रीपिंगलप्रकाशे मात्रावृत्तप्रकरणम् ॥
* ** For Private & Personal Use Only
Jain Education International
www.jainelibrary.org