________________
३०७
परिशिष्ट (३)
निलयः विश्रामः इति यावत् किअ-कुरुत इदं चाग्रेऽपि योज्यं, बे-द्वितीयः अट्ठ ट्ठाअं-अष्टमस्थाने अष्टसु मात्रास्वित्यर्थः निलयः कृत इति पूर्वानुषंगः, तीअं-तृतीयः चउदह-चतुर्दशसु मात्रास्वित्यर्थः निलयः कृतः, जो एरिसं छंदे-यत् एतादृशं छंदस्त्रिभुवनवंद्यं तत् न जनाः जा(नी)त दुम्मिलकम् इति बुधजनराजः पिंगलः भणंति-भणति ॥
१९७. अथैनमेवार्थं दोहावृत्तेन स्पष्टयति दहेति । दशसु वसु-अष्टसु चतुर्दशसु मात्रास्विति शेष: विरइ करु-विरति करु विसम-विषमे स्थाने कण्ण गण देहु-कर्णगणं देहि । पदमध्ये विषमे स्थानं यथाशक्यं द्विगुरुकं गणं देहीत्यर्थः । अंतर-मध्ये विप्प पइक्क-विप्रं चतुर्लघुकं गणं पदाति सामान्यचतुष्कलं भण दुर्मिलाच्छंदः कथय । अत्र प्रतिचरणं विषमस्थाने यथाशक्यं प्राचुर्येण कर्णो देयः समे चेत्तत्पतति तदा न बाधकमिति द्रष्टव्यम् ॥
१९८. अथ दुर्मिलामुदाहरति जे किज्जिअ इति । येन कृता धाटी पाविअ कित्ती-प्राप्ता कीर्तिः स काशीश्वरराजः ज खण-यस्मिन् क्षणे, जित: नेपालः भोटांताः स्वदेह ताडयन्तश्चलिताः दर्पहीनाः चीना: भग्नीकृताः लोहावलेहाश्चक्रन्दुः पतिताः । ओड्डावितः अंतरिक्षं प्रापितः ओड्डः, मोटितं मालवराजकुलं तैलंगाः पलायिताः परावृत्य नागताः ॥
१९९. अथ हीरनामकवृत्तं लक्षयति, णाउ पभणेति । हे सुप्रिय शिष्य आदौ तिण्णि छगण-त्रीन् छगणान् षट्कलगणानित्यर्थः जंपु-जल्प कथयेत्यर्थः, अंते-षट्कलत्रयांते जोहलं-योद्धारं गणमिति यावत् करहि-कुरुष्व, तिण्णि धरहि बे बि करहि-त्रीन् स्थापय द्वौ कुरुष्व, एवं पअहि-पादेषु मत्त-मात्रा: लेक्खए-लेखिय, अंकानां वामतो गत्या त्रीन् द्वौ मिलित्वा त्रयोविंशतिर्मात्राः प्रति चरणं स्थापयेत्यर्थः, । एतः (?) हार ठविअ विप्प ग(ण)हि सब्बलं-हारं गुरुं संस्थाप्य विप्रगणैश्चतुर्लघुकगणैः सबलं प्रचुर हीर-हीर पेक्खए-प्रेक्षस्व, एवं तत् सुकविः दर्पण (भण)ति, एतत् कमण जणइ-क: जानाति न कोऽपीत्यर्थः, इति नागः प्रभणति । अत्र त्रीन् षट्कलान् देहीत्युक्त्या षट्कलस्य त्रयोदशापि भेदाः प्राप्ताः, तत्र द्वादशतम एव भेदो वारत्रयं देशो(यो) नान्य इति ज्ञापयितुं हारं संस्थाप्य, विप्रगणैः सबलमिति छंदोविशेषणमिति द्रष्टव्यम् । उक्तविधषट्कलानंतरं च यत्र रगणः प्रतिचरणं पतति तत् हीरनामकं वृत्तमिति फलितार्थः ।
२००. अथैनमेवार्थं दोहावृत्तेन प्रकटयति हारेति । हे सुप्रिय शिष्य पूर्वं हारं गुरुं ततः विप्पगण-विप्रगणं चतुर्लघुकं गणं भण कथय, एवं तिअ विध-वारत्रयविधानेनेत्यर्थः भिण्ण सरीर-भिन्नशरीरं भिन्नम् अन्यच्छन्दोभ्यो विलक्षणं शरीरं यस्य तदित्यर्थः अंते पादांते जोहलं-रगणं संठवहु-स्थापय एवं तेइस मत्त-त्रयोविंशतिमात्राकं हीरं हीरनामकं वृत्तं भवतीति शेषः ।
२०१. अथ हीरमुदाहरति धिक्क दलणेति । इदं चतुरंगगतिविशेषानुकरणं, तथा च धिक्क दलण थोंग दलणेत्यनुकृत्य रंगरंगे संग्रामे चलंति, रिंगओ-खुरली कुर्वंतः, तुरंगाः । धूलिधवला: सबलशब्दाः प्रबलाः पत्तयः प्रेक्ष्यते, यदा कर्णश्चलित तदा कूर्मः लल(य)ति भूमिर्भरति कीर्त्या ॥
२०२. अथ जलहरणनामकं वृत्तं लक्षयति किअ पढमेति । जहि-यत्र सव्व पअ-सर्वपादेषु पढम-प्रथमादौ किअ-कृताः मुणि दिअगण-मुनिद्विजगणाः मुनयः सप्त तत्संख्याताः चतुर्लघुकगणा इत्यर्थः पलइ-पतंति, परहि-अनंतरं सप्तद्विजगणोत्तरमिति यावत् दिअ सगण-देहि सगणं, एवं दह वसु पुणु रस-दशसु मात्रासु वसुषु अष्टसु मात्रासु पुनः रसेषु षट्सु मात्रासु इत्यर्थः पुनर्वसुषु इति शेषः, अन्यथा द्वात्रिंशन्मात्रानुपलब्धिः, विरइ करे-विरतिं कुरु । दह तिगुण-दश त्रिगुणिताः त्रिंशदित्यर्थः कल-कला: करहिकुरुष्व, पुणवि-पुनरपि ठव जुअल-स्थापय युगलं कलाया इति शेषः तथाच द्वात्रिंशन्मात्राः स्थापयेत्यर्थः । एम परि-एवं परि एवं परिपाट्या ठवहु चउ चरणा-स्थापय चतुश्चरणान्, अत्र च जइ-यदि, पलइ कबहु गुरु-पतति कदापि गुरुः यदि सगणांतर्गतगुर्वतिरिक्तोऽपि गुरुः पतति, सगणाति(रि)क्तोऽपि गुर्वादिमध्यगुरुर्वा गणः पततीति यावत्, त(दा)कबहु ण परिहरुकदाचिदपि मा परिहर, तदा तमपि दत्वा द्वात्रिंशन्मात्रा: प्रतिचरणं देया इत्यर्थः । एवं च द्विजगणषट्का(ट्कस्या)दौ मध्ये अंते वा गुर्वादि मध्यगुरुं वा एकं गणं दत्वा अंते च सगणं दत्वा द्वात्रिंशन्मात्राः प्रतिचरणं देया इत्यर्थः । इतीदानीमुक्तं भवति पूर्वं च सप्तद्विजगणानंतरं सगणमिति लक्षणद्वयं बोध्यं । हे कमलमुखि (वि)बुधजनमनोहरणं मुणहि-जानीहि इति श्रीफणिपतिः सुकविवर: भणति इति योजना । सप्तद्विजगणानंतरं सगणः यत्र प्रतिचरणं पतति, अथवा षट् द्विजगणाः एकः कश्चित् मध्यगुरुगुर्वादिर्वा गणः पतति अंते च सगण एव यत्र पतति(त)त् मनो(जल)हरणमिति फलितार्थः ॥
२०३. अथैनमेवार्थं गाहूच्छंदसा स्पष्टयति बत्तीसेति । मनो(जल)हरणच्छंदसात्यध्याहारः । बत्तीस होइ मत्ता-द्वात्रिंशद्भवंति मात्राः, अंते सगणाइ ठावेइ (हि)-अंते सगणं स्थापय, कर्तव्यासु द्वात्रिंशन्मात्रासु अंतिम मात्राचतुष्टयं सगणस्वरूपं कार्यमित्यर्थः, पाएहि-पादेषु आदौ सव्व लहु-सर्वे लघवो भवंति यदि चेदेक: गुरु वेवि-द्वौ वा गुरू भवतस्तदा न दोष इत्यर्थः, तथाच सप्तद्विजगणानंतरं यगणः कार्यः, अथवा षट्विजगणाः, तेषामादौ अंते मध्ये वा एक: गुर्वादिमध्यगुरुर्वा गणः कार्यः, सर्वेषामंते च सगणो देय इति फलितार्थः ! अतएव उदाहरणे चतुर्थचरणे रवीरेति षष्ठो जगणो दत्त इति द्रष्टव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org