________________
प्राकृतपैंगलम्
३०६ वृत्तं, कल बत्तीस-कलासु द्वात्रिंशत्सु विसाम करे-विश्राम करोति इति योजना ॥ यत्र सप्तचतुष्कलानंतरं सगणः प्रतिचरणं पतति, सा लीलावतीति फलितार्थः ॥
१९०. अथ लीलावतीमुदाहरति, सव अरि घरेति । जखण वीर हमीर चले–यस्मिन् क्षणे वीरहम्मीरचलितः, तस्मिन् क्षणे इति शेषः सर्व(व) अरि घर-सर्वारिगृहेषु अग्गि-अग्निः धह धहेत्यज(नुकरणं (कइ-) कृत्वा जलइ-ज्वलति, दिग मग णह पह-दिङ्मार्गः नभ:पथ: अणलभरे-अनलभृतः अग्निना परिपूर्ण इत्यर्थः जात इति शेषः, धण थण हर जघण देआव करेधनिस्तनभरजघनदत्तकरः धनिनीनाम् अरिविबद्धानां स्तनभरे जघणे च दत्तः करो येन स तादृश इत्यर्थः पाइक्क-पदातिः सव दीस पसरि-सर्वदिक्षु प्रसृत्य लुरइ-चलति, भेरव भेरिअ सद्द पले-भैरवभेरीशब्दः पतति, भअ लुक्किअ-भयनिलीनस्थगित: वेरि तरुणि अण-वैरितरुणीजन: महि लुट्टइ-मह्यां विचेष्टते, पिट्टइ-ताडयति खेदयतीति भावः, रिउ सिर टुट्टिअ-रिपुशिरांसि त्रुटति ।।
१९१. अथ हरिगीतनामकं वृत्तं लक्षयति, गण चारि (री) ति । पअ पअहि (ह)-पादे पादे प्रतिचरणमित्यर्थः प्रथम गण चारि-गणांश्चतुरः पंचकलान् ठविज्जसु-स्थापयत, बीअ ठामहि-द्वितीये स्थाने प्रथमपंचकलगणानंतरमिति यावत् छक्कलोषट्कलान् स्थापयतेति पूर्वेणान्वयः, तथाच कर्त्तव्येषु चतुःपंचकलेषु पंचमपंचकलानंतरमेकं षट्कलं संस्थाप्यं अनंतरमुर्वरितास्त्रयः पंचकला गणाः कार्या इति पर्यवसितोर्थः । अंतहि अंते पदांते इत्यर्थः गुरु करिज्जसु-गुरुमेकं कुरुत, दह चारि दुइ दह दुइदश चतस्रः द्वे दश द्वे एवं मत्त अठ्ठाईसओ-मात्रा अष्टाविंशति: पमाणह-प्रमाणयत पिंगलेन पआसिओ-पिंगलेन प्रकाशितं, वण्णणेण सुसब्बलो-वर्णनेन सुसबलं सुतरां सबलं समीचीनमित्यर्थः पसिद्ध-प्रसिद्ध हरिगीअ छंद-हरिगीतं छंदः जाणहु-जानीत । प्रथममेक: पंचकलस्तत एकः षट्कलस्ततस्त्रयः पंचकलास्तत एको गुरुः यत्र पतंति, तदष्टाविंशतिमात्राकचरणं हरिगीतनामकं वृत्तमिति फलितार्थः
१९२. अथैनमेवार्थं दोहावृत्तेनाह, बीए छक्कलु इति । अत्र हरिगीतच्छंदसीत्यध्याहरणीयं, चारि पंचकल-चतुर: पंचकलान् देहु-दत्त । बीए-द्वितीय स्थाने प्रथमपंचकलानंतरमित्यर्थः छक्कलु एक्क कहु-षट्कलमेकं कथयत, अंते-पादांते माणस-मानसमेकं गुरुमित्यर्थः ठवेहु-स्थापयत, बारह उत्तर-द्वादशोत्तराः मत्त सउ-मात्राः शतं चतुश्चरणसमुदिता जानीतेति शेषः ॥
१९३. अथ हरिगीतमुदाहरति गअ गअहीति । गजा गजैः सह दुक्किअ-दौकिता युद्धार्थं मिलिता इत्यर्थः, तुरअ तुरअहितुरगास्तुरगैः सह जुझ्झिआ-अयुध्यन्(न्त), रह रहहि-रथा रथैः सह मीलिअ-संयुक्ताः युद्धाय मिलिता इत्यर्थः धरणि पीलिअधरणिः पीडिता, तरणि-तरणिः सूर्यः लुक्किअ-आच्छन्न: हयगजपादोद्धतधूलिभिरिति भावः, अतएव अप्प पर-आत्मीयाः परकीया इति न वि(वे)क आसीदित्यर्थः, बल-बलानि सैन्यानि मिलिअ-एकीभूय आएउ-आगतानि, पत्ति-पत्तव(य) धाएउ-धाविताः, गिरिवर सीहरो गिरिवरशिखराणि कंप-कंपितानि, साअस्-सागराः उच्छलिअ-उच्छलिताः, काअर-कातराः रणभीरवो वा इत्यर्थः दीण-दीना जाता इति शेषः, दैन्यमाश्रिता इत्यर्थः, दीहरा-दीर्घ वैर वड्डिअ-वैरं वद्धितं, कर्णे युध्यमाने सती(ति) शेषः ।।
१९४. अथ त्रिभंगीनामकं वृत्तं लक्षयति पढममिति । पढम-प्रथममादौ दह-दशसु मात्रास्वितिशेषः, अग्रेऽपि यथायोग्यं योजनीयं, रहणं-विश्रामः, ततः अट्ठह-अष्टसु मात्रास्वित्यर्थः विश्रामः, ततः रसरहणं-रसेषु षट्सु तथा च रससंख्योपलक्षितासु षट्सु मात्रासु इत्यर्थः रहणं-विश्रामः, एवं द्वात्रिंशन्मात्राः प्रतिचरणं पतंती(ति) शेषः, अंते-पदांते गुरुः सोहइ-शोभते, कर्त्तव्यासु द्वात्रिंशन्मात्रासु अंतिममात्राद्वयमेकगुरुस्वरूपं कार्यमित्यर्थः, तत् ति भंगीछंदं-त्रिभंगीच्छंदः तिहुवण मोहइ-त्रिभुवनं मोहयति, महिअल इति पाठे महीतलमित्यर्थः, अस्मै सिद्धः वरतरुण-तरुणवर: लोकश्चेत्यर्थः सराहइ-श्लाघते । अत्र यदि पओहरु-पयोधरः मध्यगुरुर्जगणइत्यर्थः पलइ-पतति, तदा किमइ मणोहरु-किमपि मनोहरं न भवतीति शेषः, किंतु येन तच्छंदसा कवित्वं क्रियते तासु कई-तस्य कवेः कलेवरं शरीरं हणइ-हंति, इति विमलमई-विमलमतिः, जणिआणंद-जनितानंदः, क्वचित्सुक्खाणंदं इति पाठः सुखी आनंदीत्यर्थः, फणिदो-फणींद्र: पिंगलः भणइ-भणति । अत्र चतुर्मात्रका अष्टौ गणाः प्रतिचरणं देयाः, तेष्वेवांतिमो गणो गुर्वतः कर्त्तव्यः, पूर्वोक्तमात्रासु विश्रामः कर्त्तव्य इति फलितार्थः ।
१९५. अथ त्रिभंगीमुदाहरति सिर किज्जिअ इति । शिरस्कृतगंगं गौर्यभॊगं हतानंगं त्रि(?)पुर(द)हनं कृतफणिपतिहारं त्रिभुवनसारं वदितभस्मानं रिपुप्र(?)मथनं । सुरसेवितचरणं मुनिगणशरणं भवभयहरं त्रिभु(शूलधरं, सानंदितवदनं सुंदरनयनं गिरिवरशयनं नमत हरम् ॥
१९६. अथ दुर्मिलां लक्षयति, तीस दुइ मत्त इति । हे नराः एतत् तीस हुइ मत्ते-द्वात्रिंशन्मात्राभिः परिसंजुते-परिसंयुक्ते यत्र च एरिस भाअहि-एतादृशभागैः एतादृशैः अनुपदमे(व) वक्ष्यमाणैः भागैः कलांशैरित्यर्थः, तिअ ठामहि-त्रिषु स्थानेषु विसमंविश्रामः दीसइ-दृश्यते, यत्र च पअ पअ-पादे पादे कण्ण धरा-कर्णगृहं कर्णो द्विगुरुको गणस्तस्य गृहं स्थापनमित्यर्थः, दृश्यते इति पूर्वेणान्वयः । कुत्र स्थानत्रये विश्रामो दृश्यते इत्यत आह पढममिति । यत्र च पढम-प्रथमं दह-दशसु मात्रास्वित्यर्थः णिलओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org