________________
३०५
न भगणः ।
। अब विप्रत्य र्थः, इति
परिशिष्ट (३) पंचकलस्तत एको लघुः प्रतिचरणं पतति, तद्दीपकनामकं वृत्तिमिति फलितार्थः । क्वचित् कुंतत्ति तसु मज्झेति पाठस्तत्र अंते दलाते एकं लघु कुरु, कुंतति-कुंतत्रयं तसु-तयोश्चतुर्मात्रिकैकलघुकगणयोः मज्झ-मध्ये कुरु इत्यर्थः । इदं च एकैकदलाभिप्रायेण, अन्यथैकैकपादे चतुष्कलत्रयस्याभावादसंभवापत्तिरिति दृष्टव्यं । प्रथमं यत्र चतुर्मात्रिकस्ततः पंचकलत्रयं ततो लघुः प्रतिदलं पतंति, तदा (दी)पकं वांछ इति द्वितीयपाठे निर्गलितार्थः ।।
१८२. अथ दीपकमुदाहरति जसु हत्थ इति । विपक्ख कुलकाल-विपक्षकुलकालः करवालः खड्ग: जसु हत्थ-यस्य हस्ते, सोह-शोभते, यस्य सिर-(शिर) सि वर छत्त-वरच्छत्रं, संपूर्णशशिवत्, अथवा संपूर्णशशिमात्र पौणिमचंद्रमंडलप्रमाणमित्यर्थः शोभते इति पूर्वेणैवान्वयः ।।
१८३. अथ सिंहावलोकनामकं वृत्तं लक्षयति गण विप्पेति । पअह पअं-पादे पादे गण विप्प सगण-विप्रगणसगणौ धरिधृत्वा, छंदवरं-छंदः श्रेष्ठं सिंहअ लोअह-सिंहावलोकं भण, तसु-तस्मिन्, न जगणः न भगणः न कर्णगणः । जगणो मध्यगुरुर्गणः, भगणो गुर्वादिर्गणः, कर्णो गुरुद्वयात्मको गणः, एते तत्र न पतंतीत्यर्थः, इति णाअ भणा-नागः भणति । हे गुणिअण-गुणिजनाः यूयमिति (शेषः) भण बुझ्झह-मनसि बुध्यध्वम् । अत्र विप्रसगणयोः क्रमिकयोः समुदितयोर्वा स्थापने न नियमः, किंतु एताभ्यामेव व्यस्तसमस्ताभ्यां पादे षोडशकलाः पूरणीयाः, एताभ्यामतिरिक्तश्च गणो न देयः । अतएवोदाहरणे प्रथमपादे न (स)गणचतुष्टयेनैव षोडशमात्राः पूरिताः, द्वितीयचरणे च प्रथमविप्रद्वयमनंतरं सगणद्वयमित्युभाभ्यामेव षोडशकला: पूरिताः, तृतीये च पुनः सगणद्वयचतुष्टयेनैव पूरिताः, *** न त्वन्यो गणो दत्तः, न त्वेतावेव क्रमिकसमुदिताविति द्रष्टव्यम् ॥
१८४. अथैनमेवार्थं विशदीकृत्य द्विपदिकयाह विप्प सगणेति । विप्प सगण पअ बेबि गण-विप्रसगणौ पादे द्वावेव गणौ अंत-अंत पादांते हार-हारं गुरुं विसज्जहि-विसर्जय, पादांत सगणान्तः पतितं गुरुं विसर्जय न त्वन्यमित्यर्थः, तथा च पादांते सगण एव देय इति नियमो लभ्यते इति । हेरि-निरीक्ष्य विभाव्य, पच्छा-पश्चात् सोलह कल पत्थार षोडशकलप्रस्तारं षोडशकलाः प्रस्ताय॑ते अस्मिन्नेतादृशमित्यर्थः कइत्त-कवित्वं कुरु, एतल्लक्षणं विभाव्य पश्चादेतच्छंदसा कवित्वं कुरु इत्यर्थः ॥
१८५. अथ सिंहावलोकमुदाहरति हणु इति । हतोज्ज्वलगुर्जरराजदलः, दरदलितचालितमहाराष्ट्रबलः, बलमोटितमालवराजकुलः, एतादृशः कुल उज्जल-उज्ज्वलकुलः, करचुलि (कण)-करचुलिवंशोद्भवः कर्णः फुरा-स्फुरति ॥
१८६. अथ प्लवंगमना(म)कं वृत्तं लक्षयति जत्थेति । जत्थ-यत्र पढम-प्रथमं पादादावित्यर्थः छअ मत्त-षण्मात्राकः पअप्पअ-पादे पा(दे) दिज्जए-दीयते, ततश्च चउमत्त गणा-चतुर्मात्राका गणा दिज्जए-दीयंते इति पूर्वेणैवान्वयः, पंचमत्तपंचमात्राकगणः णहि किज्जए-न क्रियते । षट्कलानंतरं चतुर्मात्राकगणेनैव पादपूरणं कर्त्तव्यं न तु पंचमात्राकगणेनेत्यर्थः । अंतेपादांत इत्यर्थः संभलि-संस्मृत्य एक्कक-एकैक: लहु गुरु-लघुर्गुरु: चाहए-अपेक्ष्यते पादांते लघुगुरू अवश्यकमेण स्थापनीयावित्यर्थः, हे मुद्धि-मुग्धे, तत् प्लवंगमच्छंदो विलक्षणं शोभते ॥ अत्र षट्कलोत्तरं यथासंभवं पतितैश्चतुर्मात्राकैः न तु पंचमात्राकैः पादांते अवश्यापेक्षणीयाभ्यां च लघुगुरुभ्यां प्रतिचरणमेकविंशतिः कलाः पूरणीया इति संप्रदायः । तथा च प्रथममेकः षट्कलस्ततश्चतुष्कलत्रयं ततो लघ्वादिस्त्रिकलः यत्र प्रतिचरणं पतति, तत् प्लवंग(म)नामकं वृत्तमिति फलितार्थः ॥
१८७. ********
१८८. अथ प्लवंगममुदाहरति, हे सहि-सखि, यत् चंचल विज्जुलिआ चंचला विद्युत् णच्चइ-नृत्यति, एत(अतो) मम्महमन्मथ: जलहर साणए-जलधरशाणके मेघस्वरूपशस्त्रोल्लेखने यंत्रे इत्यर्थः खग्ग किणीसइ-ष(ख)ड्गं तीक्ष्णयति इति जाणए-ज्ञायते । फुल्ल कदंबअ-पुष्पिताः कदम्बकाः, अंबराडंबर: दृश्यते, घनाघन: वरीसए-वर्षति, अतः हे सुमुखि पाउस पाउ-प्रावृट् प्राप्ता न तु कांत इति भावः ॥
१८९. अथ लीलावतीनामकं वृत्तं लक्षयति गुरु लहु इति । जहि-यत्र गुरु लहु णहि णिम्म-गुरोर्लघोर्नास्ति नियमः एतावंतो गुरव एतावंतो लघवश्च यत्र पतंतीति नियमो नास्तीत्यर्थः, अक्खर-अक्षरेऽपि णिम्म णहि-नियमो नास्ति, एतावत्यक्षराणि पतंतीत्यपि यत्र न नियम इत्यर्थः, विसम सम-विषमे (समे) पयोधरः जगणः पलइ-पतति इत्यपि कहु णहि णिम्म-कुत्रापि चरणे नास्ति नियमः, किन्तु गण पंच चउक्कल-गणाः पंच चतुष्कलाः चतुष्कलभेदात्मकाः पंचगणा इत्यर्थः, प्रस्तारकियया चतुष्कलस्य पंच भेदाः ये भवंती ते सर्वेऽपि व्यस्ताः समस्ता विपर्यस्ता इति हृदयं । ते कियंत: पतंति इत्यत्र हेतुः कल बत्तीसेति, तथा च द्वात्रिंशन्मात्राः पूरका अष्टौ चतुष्कलभेदा इति भावः, निरंतरमितरगणांतराव्यवहितमित्यर्थः पलइ पतंति, अंत-अंते पादांते इत्यर्थः, कंत गण कांतगण सगण इत्यर्थः, ध्रुवं निश्चितं पत(ती)ति पूर्वेणान्वयः, यच्च छंद: जेम यथा तरल तुरअ-तरलतुरगः, तथा विदिशि दिशि अगम गमंअगम्ये गम्ये पसरइ-प्रसरति सुपरि-पादे(?) परिलील-परितः लीलया, परिचलइ-परिचलति, सा लीलावती तत् लीलावतीनामकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org