________________
प्राकृतपैंगलम्
३०४ गणो (न) भवतीति, एते एव च स(म)स्ता व्यस्ता वा पतंतीति नियमस्तथा च यदि सगणत्रयानंतरं भगणत्रयानंतरं द्विजगणत्रयानंतर वा एको गुरुः स्थाप्यते प्रतिचरणं, तथापि हाकलीवृत्तं भवति । अथ एकस्मिश्चरणे सगणत्रयानंतरमेकं गुरुं (सं)स्थाप्य तदितरचरणेषु भगणत्रयानंतरं द्विजगणत्रयानंतरं परस्परसंसृष्टैतद्वयानंतरं द्विजगणत्रयानंतरं वा एकं गुरुं संस्थाप्य तदितरेषु परस्परसंसृष्टैतत्त्रयानंतरं गुरुः स्थाप्यते तत्राप्येतद्वृतं भवतीति न विभावनीयम् ॥
१७३. अथ नियमांतरमंगीकृत्य पुनर्हाकलीवृत्तं लक्षयति, मत्त चउद्दहेति । पढम दल-प्रथमदले पूर्वार्द्ध इति यावत् प्रतिचरणमिति शेषः, क्वचित्तु पअह पअ इति पाठस्तत्र पादे पादे अर्थात्पूर्वार्द्धस्य, उत्तरदले इत्यग्रे उक्तत्वादिति बोध्यम्, एग्गारह वण्णेहि-एकादशवर्णैः कृत्वा मत्त चउद्दह-मात्राश्चतुर्दश, उत्तर दलहि-उत्तरदले उत्तरार्द्ध इत्यर्थः प्रतिचरणम् इत्यनुषंगः, दह अक्खरदशाक्षरैश्चतुर्दशमात्राः इत्यनुषंगः यत्र पतंतीति शेषः, तत् हाकलि छंद कहेहि-हाकलीनामकं छंदः कथय ॥ अत्र च प्रथमद्वितीयचरणयोर्द्विजगणैर्देय एव, अन्यथा एकादशाक्षरोक्त्यसंभवापतिः । तृतीयचतुर्थयोश्च द्विजगणेनैव देयः अन्यथा दशाक्षरोक्त्यसंभवापत्तिः, इति नियमे तात्पर्यमुन्नीयते । तथाहि क्रमेण विपर्येण वा सगणभगणौ अथवा सगणद्वयमेव भगणद्वयमेव वा (सं)स्थाप्य यदि द्विजगणो दीयते अंते च गुरुर्दीयते तदैवाक्षरषट्कं सगणभगणयोरक्षरचतुष्टयं च द्विजग(ण)स्य एकमक्षरं च गुरोरेवमेकादशाक्षराणि पूर्वाद्धे प्रतिचरणं पतंति, उत्तरार्द्धऽपि चेदेवं द्विजगणः स्थाप्यते तत्राप्येकादशाक्षराणि स्युः, तस्मादुत्तरार्द्ध सगणत्रयोत्तरं भगणत्रयानंतरं वा परस्परसंसृष्टैतत्त्रयानंतरं वा गुरुः प्रतिचरणं स्थाप्यते तदैवोत्तरार्द्ध दशाक्षराणि पतंति, एवं च प्रथमद्वितीयचरणयोर्द्विजगणदानमंगीकृतपूर्वं लक्षणकृता,**** तदनंगीकारेण चैतल्लक्षणमित्यस्मत्तातचरणोपदिष्टः पंथा: सुधीभिर्विभाव्यः ॥
१७४. अथोत्तरलक्षणाभिप्रायेण हाकलीमुदाहरति उच्चेति । यस्य उत्तमाच्छादितं विमलं गृहं, तरुणी विनयपरा गृहिणी कांता, वित्तपूर्ण मुद्रागृहं के(को)शभांडमित्यर्थः, तस्य वर्षासमयः सुखकरः ।।
१७५. अथ मधुभारनामकं वृत्तं लक्षयति जसु पलईति । जसु–यस्य चरणे इति शेषः चउमत्त बेवि-चतुर्मात्रिको द्वौ पततः, सेख-शेषे पादांते इत्यर्थः एक्क-एक: चतुर्मात्रिक इत्यर्थः (पल)इ-पतति, कर्त्तव्ययोर्द्वयोश्चतुर्मात्रिकयोश्चांतिमश्चतुर्मात्रिको जगणस्वरूप एव पततीत्यर्थः, एवि-एतत्, मधुभारनामकमेतवृत्तमित्यर्थः ॥
१७६. मधुभारमुदाहरति । जस्विति । यस्य शीर्षे चंद्रः पिंधनं दिक् । स देवः शम्भुः मह्यं सुखं ददातु ।।
१७७. अथाभीरनामकं वृत्तं लक्षयति गारहेति । यत्र गारह मत्त-एकादशमात्राः कियंते, पयोधर: दीयते कर्त्तव्यास्वेकादशमात्रासु अंतिममात्राचतुष्टयं जगणस्वरूपमेव स्थाप्यते इत्यर्थः, (एह)-एतत् आभीर सुछंदु-आभीरः सुच्छंदः इति पिंगलधीरः जल्पति ।।
१७८. आभीरमुदाहरति । यस्याः पीनपयोधरभारे मौक्तिक: हारः लोटइ-लुंठति, दीर्घविशाललोचना सा सुंदरी गुर्ज(री) नारी ॥
१७९. अथ दंडकलं लक्षयति कुंतद्धरु इति । कुंतधरः धनुर्धरः हयवरः गजवरः एतच्चतुष्कलचतुष्टयं, ततः छक्कलुषट्कलः, ततश्च गुरुसजुत्तउ-गुरुसंयुक्तम् अंतस्थितैकगुरुकमित्यर्थः, बिबि पाइक्क-पादातिद्वयं चतुष्कलद्वयमित्यर्थः, एवं दले-पूर्वार्द्ध उत्तरार्द्ध चेत्यर्थः, बत्तीस मत्तह-द्वात्रिंशन्मात्रा: पअ-पादे पतंति प्रत्येकमिति शेषः, संपुण्ण(उ) चरणचतुष्टयस्य इत्यर्थः, बीसअठग्गलु(ल)अष्टाविंशत्याधिकाः सउ कल-शतं कला भवति, तत् सुपसिद्धउ-सुप्रसिद्धं फणि भासिअ रूअउ-फणिभाषितरूपं, भुअणे-भुवने दंडकल णिरुत्तर–दंडकल: निरुक्तः इति पैंगलिका मनसि जल्पंति हे बुधजनाः यूयं हिअअतले–हृदयतले जाणहु-जानीत । यत्र प्रथमं चतुष्कलचतुष्टयं तत एक: षट्कलः ततश्च पुनश्चतुष्कलद्वयं तत एको गुरुः प्रतिचरणं पतति, तदंडकलनामकं वृत्तमिति फलितार्थः॥
१८०. दंडकलमुदाहरति राअह इति । हअ गअ घर घरिणी-हयगज(गृह) गृहिणी: परिहरि-परित्यज्य भग्गंता-पलायमानाः केचन राअह-राजानः दिअ लग्गंता-दिक्षु लग्नाः दिगन्तं गता इत्यर्थः, तेषां चेति शेषः लोरहि-अश्रुभिः भरु सरवरु-भृताः सरोवराः, कश्चिच्च पअ परु परिकरु-पादपतितनिगडः धरणी:-धरण्यां लोट्टइ-विचेष्टते, तनु शरीरं च पिट्टइ-ताडयति, कर दंतंगुलिकृतदंतांगुलिः सन् पुण उठ्इ संभलि-पुनरुत्तिष्ठते सावधानीभूय, बाल तणअ कर जमलकरे-बालतनयकरेण नमस्कारं कारयति । इदं च जातिवर्णनं । तथावस्थं च दृष्ट्वा तं गेहलु काआ-स्नेहकाय: कासीसर राआ-काशीश्वरराजः माआ-मायां दयां करि-कृत्वा पुनः थप्पि धरे-संस्थाप्य धृतवान् स्वराज्ये रक्षितवानित्यर्थः ।।
१८१. अथ दीपकनामकं वृत्तं लक्षयति सिर देहेति । सिर-शिरसि आदावित्यर्थः चउ मत्त-चतुर्मात्रिकं गणं देह-स्थापय, अंत-अंत पादांते लहु एक्क-लघुमेकं करु-कुरु, तसु-तयोः चतुर्मात्रिकैकलघुकगणयोरित्यर्थः मज्झ-मध्ये कुतेक्क-कुंतमेकं पंचकलमेकमित्यर्थः कुरु इति पश्चात्तनेनान्वयः, दीपक सोउ बुज्झ-दीपकनामकं (तत्) वृत्तं जानीहीत्यर्थः । यत्र प्रथमं चतुष्कलस्ततः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org