________________
परिशिष्ट (३)
३०३
षद्विजगणानां चतुर्विंशतिर्मात्रा अंत्यजगणस्य च मात्राचतुष्टयमेवमष्टाविंशतिर्मात्रा : प्रथमचरणे, सप्तद्विजगणानामष्टाविंशतिर्मात्रा अंत्यजगणस्य च मात्रा चतुष्टमेवं द्वात्रिंशन्मात्रा द्वितीयचरणे पतंति यत्र, तत् शिखानामकं वृत्तमिति फलितार्थः ।
१६३. अथ शिखामुदाहरति फुलिअ इति । भमरु बहु- बहुभ्रमराः महमधूका मधूकवृक्षाः फुलिअ - पुष्पिताः, रअणिपहुरजनीप्रभुश्चंद्रः किरण लहु-लघुकिरणः, वसंतः अवअरु-अवतीर्णः । मलयगिरिगह्वरं धृत्वा स्पृष्ट्वेति यावत् पवण वह - (पवन:) वहति, सहब कह - सहिष्ये कथं शृणु सखि निकटे नास्ति कांतः ॥
१६४. अथ मालावृत्तं लक्षयति पढमेति । हे शशिवदने मृगनयने यत्र पढम चरणप्रथमचरणे णव दिअगण - नवद्विजगणाः नव चतुर्लछा (ध्वा) त्मका गणाः पअल-पतंति, पुर्णावि - पुनरपि नवद्विजगणानंतरमित्यर्थः तह तथा रअण ठव-रगणं मध्यलघुगणं स्थापय, अंतर - अंते रगणांते पादांते वा कण्णो- कर्णो गुरुद्वयात्मको गणः पतति इति शेषः, ततः गाहस्स - गाथायाः सेसम्म - शेष: उत्तरार्द्धमिति यावत् पततीत्यनुषंगः, सा माला हि तन्मालानामकं वृत्तमिति पिंगल णाअ-पिंगलनागः भणंता भणति ॥
१६५. अथ दोहावृत्तेन स्पष्टीकृत्य पुनर्मालां लक्षयति पढमेति । पढम-प्रथमे चरणे णव विप्पगण-नव विप्रगणाश्चतुर्लघ्वात्मककगणा: होइ-भवंति, ततश्च जोहलु कण्ण - योद्धृकर्णी रगणगुरुद्वयात्मकगणौ ठवेहु-स्थापयत ।। ततः गाहा—गाथायाः अंत- अंत्यम् अद्धा - अर्द्धम् उत्तरार्द्धमित्यर्थः देइ- दत्वा, मालाच्छंद: कहेहु-कथयत । अत्र देइ इत्येकारो ह्रस्वो ज्ञेयः । यत्र प्रथमचरणे 'नवचतुर्लघ्वात्मकगण - रगण- गुरुद्वयात्मकगणाः पतंति द्वितीयदलं च गाथोत्तरार्द्धस्वरूपं भवति, तन्मालानामकं वृत्तमिति फलितार्थः ॥
१६६. मालामुदाहरति वरिसेति । घण-घनः मेघः गअणः - गगने भमइ - भ्रमति, जल-जलं वरिस - वर्षति, मणहरण - मनोहर: सिअल-शीतलः पवण-पवन: वातः वातीति शेषः कणअ पिअरि-कनकपीता विजुरि-विद्युत् णचइ-नृत्यति, णीवा - नीपाः कदम्बा: फुल्लिआ - पुष्पिताः । पत्थर वित्थर हिअणा - प्रस्तरविस्तीर्णहृदयः पिअणा - प्रियः णिअलं- निकटे ण आवइ-नायाति ॥
१६७. अथ चुलिआलानामकं वृत्तं लक्षयति, चुलिआलेति । दोहा उप्परदोहोपरि दोहायामिति यावत् मत्तहि पंचइ - मात्रा: पंच यदि देह - दीयते, तदा चुलिआला कह (?) चुलिआलां कथय । नच (नु) दोहायां किं प्रतिचरणे उत्त प्रतिदले वा देयाः पंचमात्रा इत्यत आह पअ प उप्परेति, पदपदोपरि, अत्र पदशब्दो दलवाची उदाहरणानुरोधात् तथा च एकैकदले इत्यर्थः, संठवहु-संस्थापयत पंचमात्रा इत्युनुषंगः ॥ ननु सर्वलघुरूपा उत गुरुलघुरूपा चेति कीदृश्य एकैकदलें ते आदौ वा स्थाप्या इत्यत आह, सुद्धेति, - शुद्धः कुसुमगण आदौ एको लघुस्तत एको गुरुस्ततो लघुद्वयमेतादृशो गण इत्यर्थः । अंतह - अंते दिज्जह- दीयते । एवं च दोहाया एकदलांते यदि पंचमात्राः कुसुमगणस्वरूपा दीयंते, तदा चुलिआलानामकं वृत्तं भवतीति फलितार्थः ॥
१६८. अथैनमेवार्थं दोहावृत्तेन पुनराह दोहालक्खणेति । आदौ दोहालक्खण - दोहालक्षणम् उप्परि- उपरि तदनंतरमित्यर्थः पंचइ मत्त - पंचैव मात्रा : संठवहु - (सं) स्थापयत एवं अट्ठदहुप्परि वीसदुइ- अष्टादशोपरि विंशतिद्वयेन मात्राणामिति शेष:, अष्टपंचाशन्मात्राभिरित्यर्थः, चुलिआला उक्खित उक्ता । क्वचिद्दोहासंखा संठवहु इति पाठस्तत्र आदौ दोहासंखा- दोहासंख्या दोहामात्रासंख्याकमात्रामिति यावत् इति व्याख्येयम् ॥
१६९. चुलिआलामुदाहरति राआ लुद्धेति । राजा लुब्धः, समाजः खलः, वधूः कलहकारिणी, सेवको धूर्त्तः । अतः जइयदि बहुगुणजुत्तर - बहुगुणयुक्तमपि बहुभिः कीर्त्तिप्रतिष्ठाप्रमुखैर्गुणः सहितमपीत्यर्थः जीवंत : (वनं) अथ च सुखं चाहसि - वांछसि, तइ - तदा घर-गृहं परिहरु - त्यजेत्यर्थः ॥
१७०. अथ सौराष्ट्रनामकं वृत्तं लक्षयति सो सोरठ्ठउ इति । जं- यत् दोहा विवरीअ ठिअ-दोहाविपरीतस्थितिः दोहातो विपरीता स्थितिश्चरणानां स्थापनं यस्य तादृशमित्यर्थः, सो- तत् सोरठ्ठउ- सौराष्ट्रं सौराष्ट्रनामकं वृत्तं जाणु - जानीहि तत्र च पअ पअ-पादे पादे प्रतिचरणमित्यर्थः जमक वखाण - यमकं श्लाघय इति णाअराअ पिंगल - नागराजपिंगल ः भणइ - भणति । अयं भावः - दोहायाः प्रथमतृतीयचरणयोस्त्रयोदशमात्राः द्वितीयचतुर्थचरणयोस्त्रयोदशमात्राः प्रथमतृतीययोश्चैकादशमात्रा देया इति ।
१७१. अथ सौराष्ट्रमुदाहरति सो माणिअ इति । स मान्यः पुण्यः गुणवंत - गुणवान् यस्य भक्तः पंडित (स्त) नयः, यस्य गृहिणी गुणवती से वि-अस्यापि पुहवि - पृथ्वी सग्गह णिलअ - स्वर्गनिलयः स्वर्गवास इत्यर्थः ॥
१७२. अथ हाकलीनामकं वृत्तं लक्षयति सगणेति । जहा - यत्र सगणा - सगणो गुर्वंतश्चतुष्कल इत्यर्थः, भगणा - भगणो गुर्वादिश्चतुष्कल इत्यर्थः, द्विअगण-द्विजगणश्चतुर्लघ्वात्मको गण इत्यर्थः, ई- एते गणा इत्यर्थः, अथ च मत्त चउद्दह-मात्राश्चतुर्दश पअ पलई-पादे पतंति पादांते चेति शेषः, बंको-वक्रमेकं गुरुं संठइ-संस्थाप्य, विरइ - विरतिर्भवति, अंतिमगुरोः प्रागेव विरतिरित्यर्थः । एहु - एतत् हाकलिरू अह - हाकलीरूपं हाकलिनामकवृत्तस्य स्वरूपमित्यर्थः कहा- कथितम् । अत्र सगण - भगण - द्विजगणातिरिक्तो
Jain Education International
For Private Personal Use Only
www.jainelibrary.org