________________
प्राकृतपैंगलम्
३०२ चित्ते कृत्वा षट्कलानंतरं पंच चतुष्कला उक्तास्तदनंतरं च षट्कलांतर्गतस्य मात्रायुगस्योर्वरित्वात्तस्यैवेको गुरुर्देय इत्युक्तमित्युट्टनिकाकृतः एवं पूर्वापरयोर्भेदः । इदं च वृत्तं द्विपादमेव, न (च)तुष्पादं, उदाहरणानुरोधादिति केचित् । अन्ये तु यदीदं द्विपादमेव, तहि लक्षणं पादचतुष्टयेन कथं कृतमिति इदं चतुष्पादमेव, न चोदाहरणविरोधस्तस्य चरुणद्वयेनापि संभवात्, न चैतादृशमन्यत्र न दृष्टमिति वाच्यं, षोडशचरणायाश्चतुःपादिकाया एकस्यैव चरणस्योदाहृतत्वादित्याह: । परे तु लक्षणं वृत्तद्वयेन कृतमितीदमुदा-हरणानुरोधाद्विपादमित्याहुः ॥
१५५. अथ द्विपदीमुदाहरति दा***** ।
१५६. अथ झुल्लणानामकं वृत्तं लक्षयति पढम दहेति । जह-यत्र, विरइ-विरतिः पढम-प्रथमम् आदौ दह-दशसु मात्रास्विति शेषोऽत्रापि योजनीयः, दिज्जिआ-दत्वा पुणवि-पुनरपि तह-तथा तेनैव प्रकारेण दशस्वेव मात्रास्वित्यर्थः किज्जिआ-कृता, पुणविपुनरपि दहसत्त-सप्तदशसु मात्रासु जाआ-जाता, एम परि-एवं परिपाट्या विविह दल-द्वयोर्दलयोः प्रत्येकमिति शेषः, सततीससप्तत्रिंशत् मत्त-मात्रा: पल-पतंति, एह-एनां (णाअराआ)-नागराजः झुल्लणां कह-कथयति ।
१५७. अथ झुल्लणामुदाहरति सहसेति । सहस मअमत्त गअ-सहस्रं मदोन्मत्तगजान् लक्ख लक्ख-लक्षं लक्षम् अश्वांश्चेति शेषः पक्खरिअ-वारवाणेनावगुंठ्य साजि-सज्जीभूय साहि दुइ-सार्वभौमद्वयं गिदू-कंदुकं खेलंत-क्रीडतः, हे प्रिय, तहि-तत्र कोप्पि-प्रकुष्य जाहि-गच्छ, विमलं जसु-यशः महि-मग्नां (ह्यां) थप्पु-स्थापय । तुअ-त्वां कोइ-को पि तुलुक-तुरुष्कः हिंदू(हिन्दु) को वा णहि जिणइ-नहि जेष्यति ।।
१५८. अथ खंजानामकं वृत्तं लक्षयति धुअ धरिअ इति । हे कमलणअणि हे कमलनयने, यत्र बिहु पअ-पादद्वये प्रत्येकमिति शेष: दिअवर णवगण-द्विजवरनवगणान् षट्त्रिंशल्लघूनित्यर्थः धरिअ-धृत्वा अवलंब्येति यावत् बिरइ-विरतिर्भवतीति शेषः, पुणविअ-पुनरपि च तदनन्तरं चेत्यर्थः रअण-रगणः मध्यलघुर्गण इत्यर्थः बुहअण मोहए-बुधजनं मोहयतीति भावः, जु- यतः बुहअण मण सुहइ-बुधजनमनः सुखयति, यथा रजन्यां शशी सोहए-शोभते, तत् खंजावृत्तमिति शेषः, हे गजवरगमने त्वं सुमरुस्मर पौन:पुन्येन भावयेत्यर्थः, इति वर फणिवइ-वर: फणिपतिः पिंगलः भणइ:-भणति इति योजना ।। यत्र षट्त्रिंशल्लध्वनन्तरं रगणः प्रतिचरणं पतति । तत् खंजानामकं वृत्तमिति फलितोर्थः । इवं च द्विपदमेवेति ध्येयम् ॥
१५९. अथ दोहावृत्तेन स्पष्टीकृत्य खंजां लक्षयति विहु दलेति । विहु-द्वयोर्दलयोः प्रत्येकमिति शेषः णव विप्पगण-(नव) विप्रगणान् पलप्रकटयत, अंत-पादांते जोहलु-योद्धारं मध्यलघु रगणमित्यर्थः ठवेहु-स्थापयत, एवं खंज पअ-खंजापादे खंजानामकस्य वृत्तस्य चरणे इत्यर्थः एआलिस मत्त-एकचत्वारिंशन्मात्राः, दहगण-दश गणान् तत्थ-तत्र मुणेहि-जानीत ।।
१६०. अथ खंजामुदाहरति अहीति । अहि ललइ-अहिः शेषः लल (य)ति स्थानच्युतो भवतीत्यर्थः, योद्धृणां पादघातेनेति भावः । अतएव महि-मही पृथ्वी चलइ-चलति, अतएव मह्याश्रितः गिरिः कैलासः खसइ-पतति, ततश्च तदाश्रितो हर: खलइस्खलति, ततश्च तद्भालस्थः शशी घुमइ-छू(घू)र्णते, अतएव अमिअ वमइ-अमृतं वमति, ततश्चामृतसंपर्कात् मुअल-मृताः जिविअजीवित्वा उट्ठए-उत्तिष्ठंतिः ततश्च जीवितातान्तेषां चरणाघातेन पुणु धसइ-पुनरधो गच्छति महा, पुणु खसइ-पुनः स्खलति कैलासः, पुणु ललइ-पुनर्लल(य)ति स्थानच्युतो भवति शिवः, ततश्च पुण घुमइ-पुनघूर्णते शशी, पुण वमइ-पुनर्वमत्यमृतं, पुनश्च जिविअजीवित्वा उत्थिता मृताः इति समरे विविधकौतुकं परिदिट्ठए-परिदृश्यते ।।
१६१. अथ शिखां लक्षयति ससिवअणीति । हे शशिवदने गजगमने पअ पअ-पदे पदे प्रतिचरणमित्यर्थः पअहरह ससिक्ख-सपयोधरशिखान् पयोधरो मध्यगुरुर्जगणस्तथा च सपयोधरा सजगणा शिखा अग्रभागो येषां तादृशान् अंतस्थितजगणानित्यर्थः दिअगण छ-द्विजगणान् चतुर्लध्वात्मकगणान् षट् पढ-पढ द्वयोरपि दलयोः षड्विजगणानंतरं जगणं स्थापयेत्यर्थः । परन्तु जुअह दल-द्वितीयदलं पढम-प्रथमम् आदौ वि वि लहु-द्वौ द्विलघू द्वौ द्विलघ्त्वात्मकगणावित्यर्थः पअलि-प्रकटीकृत्य अपरमेकं द्विजगणं प्रकटीकृत्येत्यर्थः, दिअगण सहिअ-जगणसहितं द्विजगणैः पूर्वोक्तप्रकारेणाग्रस्थितजगणैः षड्भिर्युक्तमिति भावः, पठ इत्यनुषंगः । प्रथमं लघुद्वयात्मकगणद्वयं संस्थाप्य अनंतरमंतस्थितजगणैः षद्विजगणैः सहितं द्वितीयं पठेत्यर्थः, तथा च प्रथमदले अंतस्थजगणा: षडेव द्विजगणाः पतंति, द्वितीयदले तु अंत्यजगणाः सप्त द्विजगणाः पतंतीति भाव, सिक्ख-शिखां विद्धि इति शेषः, इति स प्रसिद्धः पिंगल: भणइ-भणति ।।
१६२. अथ गाहूच्छंदसा प्रकटीकृत्य पुनः शिखां लक्षयति मत्त अठाइसेति । यत्र पढम (हि)-प्रथमे पअ-पदे मत्त अठाइसमात्रा अष्टाविंशतिः पतंतीति शेषः, बीए-द्वितीये पअ-पदे बत्तीस-द्वात्रिंशत् मत्ताइ-मात्रा: पतंति, अंते-पादांते लहुआ-लघुः जगणस्येति भाव: नियमन पतति, तां शुद्धां शिखां विजानीत । अत्र अंते लहुआ इति दलद्वयेऽप्यंते जगणोऽवश्यं देय इति सूचनीयं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org