________________
३०१
परिशिष्ट (३) दिल्या मध्ये ढोल्ला-पटहं मारु-ताडय । यद्यपि हमीरचलित इति श्रुत्वा अन्ये म्लेच्छा मूच्छिताः खुरासानदेशीयैश्च दंडप्रतिनिधिभूता मनुष्याः समर्पिताः, तथापि त्वया न भेतव्यं किन्तु योद्धणां रणसज्जीभावाय पुनर्द्वितीयो डिंडीरवः त्वया कारणीय इति किंचिदायस्तधैर्य सुरत्राणं प्रति कस्यचिन्मंत्रिण उक्तिः ॥
१४८. अथ दोहावृत्तेन पुनः स्पष्टीकृत्य कुंडलिकालक्षणमाह पढमहि इति । पढमहि-प्रथमे अर्द्ध इति भावः दोहा चारि पअ-दोहायाश्चत्वारि पदानि ततो द्वितीयार्द्ध कव्वह-काव्यस्य चउपअ-चत्वारि पदानि देहि, एवं कुंडलिका अष्टपदी, तत्र पादे पादे यमकानि क्रियन्तां ।। यमकानिति उल्लालानामप्युपलक्षकम् । इदं चोदाहरणानंतरं लक्षणकथनमनौचित्यमावहतीति क्षेपकमिवाभाति इति बोध्यम् ॥
१४९. अथ गगनांगनामकवृत्तं लक्षयति पअ पअ इति । हे पिअ-प्रियाः शिष्याः यत्र पढमहि-प्रथमपादादाविति यावत् चारि मत्त गण-चतुर्मात्राक: गणः किज्जइ-क्रियते, ततो यथेच्छं चतुष्कलैर्वेत्यध्याहारः, गणह-गणैः, यत् पआसिओ-प्रकाशितं, यत्र च गुरु अंत पआसिओ-अंतप्रकाशितगुरूणि अंते समाप्तौ प्रकाशितो गुरुर्येषु तादृशानित्यर्थः, तथाच कर्त्तव्येषु विंशतितममक्षरं गुरुरूपमेव कार्यमिति भावः, बीसक्खर-विंशत्यक्षराणि, सम पअह-सर्वेषु पादेषु प्रत्येकं पतन्तीति शेषः, तत् पअ पअ-पादे पादे प्रतिचरणमित्यर्थः, मत्त विहूसिणा-मात्राविभूषितं गअणंगउ-गगनांगं गगनांगनामकं वृत्तं जाणि-ज्ञात्वा ठवहु-स्थापयत । कियतीभिर्मात्राभिविभूषितमित्यपेक्षा (या)माह भावउ इति । अब लहु गुरु सेसिणा-लघुगुरुशेषिता लघुगुरुभ्यां समाप्ति नीतो इत्यर्थः, सर अग्ग-शराधिका: शराः पंच तथाच पंचाधिका इत्यर्थः, बीसइ कल विंशतिरेव कलाः भावउ-भावयत, तथा च पंचविंशतिर्मात्रा अत्र प्रतिचरणं पतंति, तास्वेव चांतिम मात्रात्रयं लघुगुरुरूपं कार्यमित्यर्थः । अत्र च चतुर्ध्वपि चरणेषु पादादौ चतुष्कल एव गणः कार्यः, अनंतरं च चतुष्कलैः पंचकलैर्वा, यथा चरणे विंशत्यक्षराणि पंचविंशतिर्मात्राश्च पतंति, पादान्ते चावश्यं क्रमेण लघुगुरुश्चायाति तथैव गणा देया इति तात्पर्यार्थः ।।
१५०. अथैनमेवार्थं द्विपदिकया स्पष्टीकृत्याह पढम इति । यत्र पढमहि । प्रथमं पादादौ चक्कलु गण-चतुष्कलो गण: होइभवति, अंतहि-अंते पादातं दिज्जइ हार-दीयते हार: गुरु, तत् गअणंग-गगनांगं भण-कथय, अत्र च बीसक्खर–विंशत्यक्षराणि, पचास मत्त-पंचविंशतिर्मात्राः, विआरु-विचारय ।।
१५१. अथ गगनांगमुदाहरति भंजिअ इति । अहिअ लंघिअ साअरा-लंघित-सागराहिते लंघितः सागरो यैस्तादृशा अहिता यस्य तादृशे इत्यर्थः हमीर चलिअ-हमीरे चलिते सति, मलअ चोलवइ-मलयाधिपश्चोलदेशाधिपश्चेति द्वावित्यर्थः भंजिअ-भग्नौ, गुज्जरा-गुर्जरा: गुर्जरदेशीयाः राजानः णिवलिअ-निर्बलीकृत्य गंजिअ-गंजिताः, मालवराअ-मालवराजः परिहरि कुंजरा-परिहृत्य कुंजरान् मलअगिरि-मलयगिरौ लुक्किअ-निलीनः खुरसाण-खुरसान:-खुरसानदेशीयः राजा रण मुहि-रणे मुग्धीभूय खुहिअ-क्षुभितः, काअरा-कातरे पलायितुमप्यसमर्थे तस्मिन्नित्यर्थः, रिउगण-रिपुगणे हारव पतितः ॥
. १५२-१५३. अथ (द्विव)पदीनामकं वृत्तं लक्षयति आइगेति । हे बुहअणा-बुधजनाः, जत्थ-यत्र पढम(हि)-(प्रथमे) चरणे, इदं चोपलक्षणं द्वितीयेऽपि बोध्यम्, आइग-आदिग: आदिस्थ: पादाद्य इति यावत् इंदु:-षट्कलो भवति, ततश्च वेवि धणुहरंद्वौ धनुर्द्धरौ चतुष्कलाविति यावत् दिज्जइ-दीयेते, तथा पाइक्क जुअल-पदातियुगलं पुरपि चतुष्कलयुगलमेवेत्यर्थः परिसंठवहुपरिस्थापयत, अंत-अंते पादांते महुअरचरण-मधुकरचरणः षट्कल इत्यर्थः दिज्जइ-दीयते, एवं दोवइ-द्विपदी भणत, तहि-तथा हे कइअणा-कविजनाः, सरसइ ले(लु)इ पासाअ(उ)-सरस्वत्याः सकाशाद् गृहीत्वा प्रसादं पुहविहि-पृथिव्यां विविह चित्त सुंदरंविविधचित्तसुंदरं विविधानि अनेकप्रकाराणि यानि चित्तानि तेषां रमणीयं सर्वलोकमनोहरमित्यर्थः कइत्त-कथि(वि)त्वं अनेन च वृत्तेनेति शेषः करहु-कुरुत, अनेन छंदसा निर्मितं कवित्वं सर्वजनमनोहरं भवतीति भाव इति योजना।
अत्र यद्यपि इंदुशब्दः लघुद्वयोत्तरगुरुद्वयात्मक षट्कलवाची, तथाप्यत्र षट्कलसामान्यपरोऽवसेयः, उदाहरणे तथैव दर्शनात् । मधुकरचरणशब्दश्च यद्यपि षट्कलनामसु पूर्वं नोपात्तस्तथापि मधुकरचरणानां षट्त्वसंख्यासत्त्वादत्रापि तत्पुरस्कारेणैव षट्कलपरो बोध्यः । क्वचित्तु दिज्जइ तिण्णि धणुहरमिति पाठः, स: प्रामादिकः, एवं सति पादांते षट्कलगणालाभेन महुअर चरण अंत लेइ दिज्जसु इत्यग्रेतनेन विरोधात् । एतत्पाठानुसारेणैव कैश्चिदग्रे महुर चरणेति पाठं प्रकल्प्य तस्य च मुग्धशब्दस्य गुरुनामसूपात्तत्वात्तत्पर्यायत्वान्मधुरोगुरुस्तथाच मधुरो गुरुः अंत:-चरणांते दीयतामित्यर्थः कृतस्तदपि भ्रमविलसितं, लक्षणस्यापि लक्ष्यतायां महुर चरणेति पाठे कल्प्यमाने एकमात्रान्यूनतया लक्षणासंगतेः ।।
१५४. अथ उद्दवनिकांतरं मनसि विधाय दोहावृत्तेन पुनर्द्विपदी लक्षयति छक्कलु इति । छक्कलु-षट्कलं मुह संठाविकइमुखे आदौ संस्थाप्य, पंच चक्कलु-चतुष्कलान् करेह-कुरुत, अंतहि-पादांते एक्कहि-एकमेव हारं गुरुं देह-दत्वा, दोवइ छंद कहेहुद्विपदीच्छंदः कथयत । पूर्वं षट्कलानंतरं चत्वारश्चतुष्कलास्तदनंतरं च पुनः षट्कल इत्युक्तम्, इदानीं तु पादांतस्थषट्कलांतर्गतं चतुष्कलं For Private & Personal Use Only
www.jainelibrary.org
Jain Education International