________________
३००
प्राकृतपैंगलम् तासु ताड (i) किन भण || अत्र विषमपादेषु (ज) गणांता विप्रांता वा चत्वारश्चतुष्कलाः कार्य्याः समौ च पूर्ववत्, अग्रे दोहा दत्वा ताडं (ल) किनि (नी) वाच्येति निष्कर्षः । इति श्रीपिंगलप्रकाशे रंडाप्रकरणम् ॥
१४४. अथ पद्मावतीं लक्षयति भणु पोमावत्तीति । यत्र कर्णः गुरुद्वयात्मको गण इत्यर्थः, करअल - करतलं गुर्वतः सगण इत्यर्थः, विप्पो—विप्रश्चतुर्लघुको गण इत्यर्थः, चरणः गुर्वादिर्भगण एत एवेति शेषः चउमत्ता - चतुर्मात्रिका अठ्ठाआ-अष्टौ गणाः पाए पाअ- (पादे पादे) देयाः प्रतिचरणमित्यर्थः ठाणं ठाणं-स्थले स्थले, उकिट्ठाआ - उत्कृष्टाः अधिका बहुश इति यावत् पतंति । यत्र प्रतिचरणं स्थापनीया अष्टौ गणाः कर्णसगणविप्रभगणस्वरूपा एव पतंति नान्या अत एव पौर्वापर्येण पुनः पुनः वाराष्टकं पतंतीति यावदित्यर्थः, तां पोमावत्ती - पद्मावतीं भण पद्मावतीनामकं तद्वृतं कथयेत्यर्थः । अत्र जइ यदि पओहर - पयोधरः मध्यगुरुर्जगण इत्यर्थः पलइ-पतति, तह- तदा किमपि मनोहरं सम्यक् न भवतीति शेषः, किंतु चंडालचरित्रः इअ-अयं जगणाख्यो गणः णाअक्कगुणो-नायकगुणं पीडयति, पिअरहि- पितरं संत्रासयति, अतएव कइ उव्वासइ - कविमुद्वासयति ॥ अत्र जगणे पतिते यस्य कवित्वमेतच्छंदसा भवेत्स राजा नश्येत्, नष्टे च तस्मिन्नेतादृशकवित्वनिर्माणकर्त्रा कविनापि बंधनताडनादिव्यथा प्राप्तव्येति, अत्र जगणः सर्वथा न देय इति भावः ॥
१४५. अथ पद्मावतीमुदाहरति भअ भज्जिअ इति । यदा कासीसर राणा - काशीश्वरेण दिवोदासेन राज्ञा, पआणा - प्रयाणं किएउ - कृतं, तदा वंगा - वंगदेशीया राजानः भअ भज्जिअ - भयेन भग्नाः कृताः, भग्ग कलिंगा - पलायिताः कलिंगाः, तेलंगा रण मुक्कि चले - तैलंगा: रणं मुक्त्वा चलिताः, धिट्ठा - धृष्टा रणनिर्भीका इत्यर्थः मरहठ्ठ - महाराष्ट्राः कठ्ठा - काष्ठासु दिक्षु लगिअ–लग्नाः पलाय्य दिगंतं गता इत्यर्थः, सौराष्ट्रा भयेन पादपतिताः, पव्बअ झंपा - पर्वतझंपा: कंपा-कंपा: कंपनशीला इत्यर्थः चंपारणा ओत्था ओत्थी उत्थायोत्थायेत्यर्थः जीव हरे - जीवं स्वप्राणान् हरंति त्यजंति इति, विद्याधरः मंत्रि श्रेष्ठो भणति । अत्र प्रथमचरणे तृतीयः पंचमः षष्ठो गणः कर्णस्वरूपः, प्रथमो द्वितीयश्चतुर्थः सप्तमोऽष्टमश्च सगणस्वरूपः, द्वितीयचरणे च द्वितीयतृतीयपंचमषष्टसप्तमगणाः कर्णस्वरूपा अन्ये च सगणरूपाः, चतुर्थे च प्रथमपंचमौ गणौ कर्णरूपौ षष्ठतृतीयौ भगणरूपौ अन्ये च सगणरूपाः, इत्थं गणाः पतिताः, विप्रस्तु न क्वचिदपि पतितस्तथापि सोऽपि यदि पतति तदापि बाधकं नास्तीति ॥
१४६. अथ कुंडलिकां लक्षयति दोहा लक्खणेति । बुहअण -- बुधजना: यस्याः पढम - प्रथमम् अद्ध-अर्द्ध, तथा च पूर्वार्द्धमित्यर्थः, दोहा लक्खणद्विपदिकालक्षणं पढि- पठित्वा, णिरुत्त-निरुक्तं, द्विपदिकास्वरूपमेव यस्याः पूर्वार्द्धमित्यर्थः, द्वितीयं चेति शेष: अर्द्धमिति पूर्वानुषंग:, तथाच द्वितीयम् अर्द्धम् उत्तरार्द्धमित्यर्थः कव्वह - काव्येन निरुक्तं - काव्यस्वरूपं यस्या उत्तरार्द्धमित्यर्थः उल्लाले संजुत्त-उल्लालेन संयुक्ताम् । उल्ललनम् उल्लालः कतिपयवर्णानां परावृत्य पठनमित्यर्थः कव्व - ( काव्येन) तेन सहितामित्यर्थः, तां कुंडलिआ - कुण्डलिकां मुणहु-जानीत, इयं च उल्लालेन संयुक्तानि यमकानि सौसादृश्यवंत्यक्षराणि यस्यां तादृशीत्यर्थः, सुद्धउशुद्धा, सलहिज्ज - श्लाघ्यते, तथा च न केवलमुल्लालयुक्तैवेयं विधेया किंतु यमकान्यपि देयानीति भाव: । चौ (चउ ) आलह सउ मत्त सुकिअ दिढ बंधु-चतुश्चत्वारिंशदधिकशतमात्रासुकृतदृढबंधा चतुश्चत्वारिंशदधिकशतमात्राभिः सुतरां कृतः दृढः बंधो योजनं यस्यां सा तादृशीत्यर्थ: कहिज्जइ - कथ्यते । क्वचित्तु सुकइ दिढ बंधु इति पाठस्तत्र सुकविदृढबंधु नाम-कविपरममित्रेण पिंगलेनेति यावत् । चतुश्चत्वारिंशदधिकं शतं मात्राः अत्र कथ्यंत इति भिन्नं भिन्नमेव योजनीयं, चउआलह सउ मत्त - चतुश्चत्वारिंशदधिकं शतं मात्रा: जासु-यस्यां, तणु भूसण सोहा - तनुभूषणानां शोभा इत्यर्थः, जनयंतीति शेषः । एम कुंडलिआ मुणहु - एवं कुंडलिकां जानीत, पढम पढि जह दोहा–प्रथमं पठ्यते यत्र दोहा इति योजना || भावार्थस्तु - पूर्वार्द्धं पूर्वोक्तदोहावृत्तेन विधेयमुत्तरार्द्धं च पूर्वोक्तकाव्यवृत्तेन विधेयमित्युक्तं । तत्र यद्यपि दोहायां काव्ये च उल्लालकयोर्नियमो नोक्तस्तथाप्यत्र उल्लालो यमकं चेति द्वयमवश्यं विधेयमिति विशेषः । एवं च दोहाचरणचतुष्टयस्था अष्टचत्वारिंशन्मात्रा : काव्यचरणचतुष्टयस्थाश्च षण्णवतिमात्रा एकीकृत्य चतुश्चत्वारिशदधिकशतं मात्राश्चरणाष्टकस्था इहावसेया इति विभावनीयम् ॥
१४७. अथ कुंडलिकामुदाहरति ढोल्लेति । पुर जज्जला मंतिवर-पुरो जज्जल्लमंत्रिवरः पुरोऽग्रे जज्जल्लनामा मंत्रिवरो यस्य स तादृश इत्यर्थः वीरहंमीर: चलित इति यदा ढिल्ली मह - डिल्लीमध्ये ढोल्ला-आनकः डिंडीरवार्थमिति भावः मारिअ - मारितस्ताडित इत्यर्थः, तदा मेच्छ सरीर- म्लेच्छशरीराणि मुच्छिअ- मूच्छितानि । अग्रेसरजज्जल्लाख्यमंत्रिवरो हंमीरनामा स्वनगराच्चलित इति फुत्कृत्य सर्वजनानां सावधानतासंपादनाय डिल्लीमध्ये यदा डिंडीरवार्थं पटहस्ताडितः तदा तच्छ्रुत्वा हंमीरागमनत्रस्ता म्लेच्छा मूच्छिता इति भावः ॥ चलिअ वीर हंमीर पाअभर - ***पादभरेण मेदिनी पृथ्वी कंपइ- कंपते, धूलि - धूलिभिः सैन्यपादाघातोत्थरजोभिरित्यर्थः सूरजसूर्यस्य (रह-) रथ: झंपर - आच्छाद्यते, ततश्च दिग मग णह - दिड्नभोमार्गे अंधार - अंधकारः जात इति शेषः । दिग मग ह— दिड्नभो मार्गे अंधार - अंधकारे सति खुरसाणक - खुरासानस्य देशस्य ओल्ला - दंडप्रतिनिधिभूताः पुरुषा आण - आनीता इति यद्यपि, तथापि हे वीर सुरत्राणेति संबोधनमध्याहर्त्तव्यं, त्वं दरमरि-चरणतलैर्विमर्द्य विपक्ख - विपक्षान् (दमसि - ) दमयसि, अतः ढिल्ली मह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org