________________
२९९
परिशिष्ट (३) पूर्वोक्तचरणपंचकानंतरं दोहां दत्वेत्यर्थः, पिंगलः बत्थुणाम-वस्तुनामकं वृत्तं कहेइ-कथयति, एतदेव राअसेण रड्डऊ-राजसेनरड्डा एतस्यैव राजसेना रंडेति च नामांतरं भणइ-भणति ॥
१३५. रड्डामुदाहरति भमईति । महुअर-मधुकराः भमइ-भ्रमंति, फुल्लु अरबिंद-पुष्पितान्यरविंदानि, काणण-काननानि (णसकेसु-) नवकिंशुकैः जुलिअ-ज्वलितानीव भांती (ति) शेषः सव्वदेस-सर्वदेश: पिकराव चुल्लिअ-पिकरावैश्चुलुकित: निपीत इति यावत्, कोकिलालापानाकर्ण्य संजातकंदर्पबाधया सर्वोऽपि देणि (शो) नि:पीत इव भातीति भावः, मलअ कुहर एव णल्लि पेल्लिअ-मलयकुहरनववल्ली: प्रेषयित्वा ताः कंपयित्वेत्यर्थः, सिअल पवण-शीतलः पवन: लहु-लघु मंदं यथा स्थात्तथा वहइवहति । चित्त मणोभव सर हणइ-चित्तं मनोभवः शरैर्हति, कंत-कांत: दूरे दिगन्तरे एव, दुरंत: दुष्टः अंतो यस्य (स) तादृशः समय इति शेषः परिपलिअ-परिपतितः, अप्पउ-आत्मानं किम परि-कया परिपाट्या वारिहंउ-रक्षिष्यामि ।।
१३६. अर्थतस्यैव भेदानां ससंख्यं नामान्याह करहीति । अपि-हे प्रिये करभी नंदा मोहिनी चारुसेना तथा भद्रः राजसेनः तालंकिनी इति सत्त-सप्त वत्थु णिफंद-वस्तुनिस्पंदा:-वस्तुनामकस्य पूर्वोक्तवृत्तस्य निस्पंदा भेदा इत्यर्थः ॥ रड्डाया एव वस्तु राजसेन इति च नामांतरम् ॥
१३७. तेषु प्रथमं करभी लक्षयति । पढमेति । जासु-यस्याः प्रथमतृतीयपंचमपादेषु तेरह मत्ता-त्रयोदश मात्राः । बीअ चउत्थ-द्वितीयचतुर्थयोश्चरणयोरिति शेषः, एआरहहि-एकादशैव मात्रा भवंतीत्यर्थः, तासु-तस्याः करहि-करभीति नामेति शेषः भणिज्जइ-भण्यते ॥ अयमभिप्रायः, पूर्ववस्तुच्छंदसि प्रथमे चरणे पंचदशमात्राः द्वितीये द्वादश तृतीये पंचदश चतुर्थे एकादश पंचमे पंचदश देया इति फलितं, तत्रैव प्रथमतृतीयपंचमचरणेषु प्रथमोपात्तत्रिकल मात्राद्वयं दूरीकृत्य द्वितीयचरणे चांतोपात्तसर्वलघुचतुर्मात्रिके एकां मात्रां दूरीकृत्य चतुर्थं च पूर्व(व)देव संस्थाप्याने दोहां दत्वा करभी वाच्या, न तु (?) विषमपादेषु प्रथमोपात्तत्रिकले मात्राद्वयं न्यूनं कर्तब्यम् । अंतोपात्तजगणभगणेषु चेत्यत्र किं विनिगमकमिति चेत्, सत्यं, सामान्यानालि(गि)तविशेषाभावात् पूर्वोक्तरड्डानियमानामुत्तरत्राप्यावश्यकतया करभ्यामपि प्रथमचरणांते जगणविप्रान्यतरस्य, तृतीयपंचमयोश्च भगणस्यावश्यं स्थापनीयत्वात्प्रथमपरित्यागे मानाभावश्च प्रथमोपात्तत्रिकलमध्यत एव मात्राद्वयं न्यूनं विधेयं, द्वितीये च समचरणे अंते सर्वलघुर्देय इति नियमस्य पूर्वमुक्तत्वात् अंते सर्वलघुस्थापनमावश्यकमिति चतुर्थचरणसाम्यतया द्वितीयचरणस्थापने बाधकाभावादंतिमसर्वलघ्वात्मकगणमध्यत एव ह(ए)का मात्रा न्यूना विधेयेति न कश्चिद्दोष इत्यस्मत्तातचरणोपदिष्टः पंथाः सुधिभिविभावनीयः । यत्तु विषम आधुपात्तत्रिकलमध्ये मात्राद्वयं न त्याज्यमेककलगणाभावादिति, तत्र आर्यायामुत्तरार्द्ध षष्ठस्यैवात्रापि प्रथमस्यैककलस्य स्थापने बाधकाभावात् ।।
.. १३८. अथ नंदां लक्षयति पढमेति । यत्र प्रथमतृतीयपंचमपादेषु दहचारि-चतुर्दश मत्त होइ-मात्रा भवंति । बीअ चउत्थ एआरहहि-द्वितीयचतुर्थयोरेकादशैव मात्रा भवंतीति पूर्वतनानुषंगः, तं विआरि-विचार्य णंदं भणिज्ज-नंदां भण । अत्रापि पूर्वोक्तरीत्या विषमपादेषु प्रथमोपात्तत्रिकलमध्यत एव एकां मात्रां दूरीकृत्य द्वितीयपादे चांतस्थचतुर्लघ्वात्मकगणमध्यत एकां मात्रां त्यक्त्वा चतुर्थं पूर्ववदेव स्थापयित्वाग्रे दोहां दत्त्वा नंदा वाच्या इति निष्कर्षः ॥
. १३९. अथ मोहिनी लक्षयति पढमेति । यस्यां प्रथमतृतीयपंचमपादेषु णवदह मत्ता-एकोनविंशतिर्मात्राः । बीअ चउत्थ एआरहहि-द्वितीयचतुर्थयोरेकादशैव मात्रा भवंति, तं-तां आसु-एनां मोहिणी-मोहिनी मुणि-जानीहि ॥ अत्र विषमेषु त्रिकलानंतरं चत्वारश्चतुर्मात्रिका विधेयास्तेष्वेव प्रथमपादांते जगणो विप्रो वा विधेयस्तृतीयपंचमयोश्चांति(म)भगण एव विधेयो द्वितीये चांतिममध्यत एव एकां मात्रां निष्कास्य चतुर्थे च पूर्ववदेव संस्थाप्याग्रे दोहां दत्वा मोहिनी वाच्येति व्यवस्था ॥
१४०. अथ चारुसेनां लक्षयति । जासु-यस्याः प्रथमतृतीयपंचमपादेषु पण्णरह-पंचदश मत्त-मात्राः । बीअ चउत्थद्वितीयचतुर्थयोः पादयोः एकादशैव मात्रा भवंतीति शेषाः, आसु-एनां चारुसेनां भण-कथय ।। अत्र विषमचरणान् वस्तुन इव संस्थाप्य द्वितीयचतुर्थो चरणौ करभ्या इव विधायाने दोहा दत्वा चारुसेना वाच्येति निष्कर्षः ।
१४१. अथ भद्रं लक्षयति पढमेति । प्रथमतृतीयपंचमपादेषु मात्राः पंचदश, द्वितीयचतुर्थयोर्द्वादश मात्राः भवंति, आइ-एतस्य भद्रेति नाम कथितम् । अत्र चतुर्थे त्रयश्चतुर्मात्रिका अन्ये वस्तुन इवेति निष्कर्षः ॥ ।
१४२. अथ पूर्वं विसम तिकलेत्यनेन लक्षितमपि राजसेनापरनामकं वस्तु वृत्तं करही नंदेत्यत्र तदन्य एव राजसेनः कथित इति भ्रमनिरासार्थं पुनस्तमेव लक्षयति पढमेतत । प्रथमतृतीयपंचमपादेषु मात्राः पंचदश यत्र । समे चरणे द्वादश अरु-अथच एक्कदहएकादश राजसेनं भणत च ॥ एतन्निष्कर्षश्च पूर्वमेव कृतः ॥
१४३. अथ ताडं(लं)किनी लक्षयति पढमेति । यस्याः प्रथमतृतीयपंचमपादेषु सोलह-षोडश मात्रा भवंतीति शेषः, समे द्वितीये चतुर्थे च द्वादश अथच एक्कदह-एकादश मात्रा भवंतीति शेषः, यथायथं योजनीयः । द्वितीये द्वादश मात्रा भवंतीत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org