________________
प्राकृतपैंगलम्
२९८ १२९. अथ पादाकुलकं वृत्तं लक्षयति लहु गुरु, एक्क णि(अ)-भेति । जेहायत्र, लह गुरु एक्क णि (णे) म्म-लघु गुरुर्वैकनियमः णहि-नास्ति, यत्र षोडशापि मात्रा अष्टगुरुरूपेणैव पतंति, अथवा षोडशलघुरूपेणैव पतंतीति नियमो नास्तीत्यर्थः, किंतु पअ पअ-पादे प्रतिचरणमिति यावत् उत्तम रेहा-उत्तमा रेखा मात्रा लघुगुर्वतरिता इति भाव: लेक्खिए-लिख्यते स्थाप्यते इत्यर्थः । सुकविफणींद्रकठवलय(मि)ति पिंगलकंठाभरणतुल्यमित्यर्थः, कंठाभरणं यथा सस्नेहं कंठे स्थाप्यते, तथैदमपि सस्नेहं पिंगलेन कंठे धृतमित्यर्थः, सोलहमत्तं-षोडशमात्राकं, प्रतिचरणं षोडश मात्रा यस्मिस्तत्तादृशमित्यर्थः, पादाकुलकनामकं वृत्तं भवतीति शेषः । पादे मात्राः लिख्यते इत्युक्तं, तत्र कियंत्यो मात्रा इत्यपेक्षायां षोडशमात्राकमिति हेतुगर्भ विशेषणम् ॥
१३०. अथ पादाकुलमुदाहरति सेर एक्केति । सेर एक्क जौ (जउ) पाबउ धित्ता-सेरकैकं यदि प्राप्नुया(द) घृतं, मंडा बीस पकाबउ णित्ता-तदा विंशति मंडकान् पचामि नित्यं । तत्र च जइ-यदि टंकु एक्क सेधउ पाआ-टंक एक: सैंधवः प्राप्तः, तदा जो हउ रंक सोइ हउ राआ-योऽहं रंकः स एव अहं राजा ॥
१३१. चौ(चउ)बोलां लक्षयति सोलह मत्तेति । सोलह मत्तह-षोडशमात्राभिः बेबि-द्वावपि द्वितीयचतुर्थयोरग्रे उपादानात्प्रथमतृतीयावित्यर्थः चरणाविति शेषः (पमाणह) प्रमाणयत, बीअ चउत्थह-द्वितीयचतुर्थयोश्चरणयोः चारिदहा-चतुर्दश मात्रा इति शेषः प्रमाणयतेति पूर्वेणान्वयः, मत्तह सठ्ठि षष्टिर्मात्रा: समग्गल जाणह-समग्रा: जानीत, चारि पआ-चतुष्पादं चौ(चउ)बोल कहा-चौबोलं कथय । तत्र प्रथमचरणे षोडश, द्वितीये चतुर्दश, तृतीयेऽपि षोडश, चतुर्थे च चतुर्दश मात्रा: पतंति, ततः चौबोलानामकं वृत्तमिति फलितार्थः ॥
१३२. अथ चौबोलामुदाहरति रे धणीति । रे धणि-धन्ये, मत्त मअंगज गामिणि-मत्तमतंगजगमने खंजनलोचने चंद्रमुखि चंचलं गच्छद्यौवनं ण जाणहि-न जा(ना)सि, अतः तत् छइल्भ्यः विदग्धेभ्यः काइ णही-कुतो न समप्पहि-समर्पयसि । अथवा यतः चचलं अतएव गच्छद्यौवनं छइल्लेभ्यो न समर्पयसि, अतः त्वं काइ णही-किमपि न जानासि, यदि तु समर्पयसि तदा अभिज्ञा भवसीति भावः ॥
१३३. अथ रड्डां लक्षयति पढमेति । भो शिष्याः पढम-प्रथमचरण इत्यर्थः दहपंच मत्त-पंचदशसु मात्रासु बिरमइ-विरमति विरामं समाप्ति प्राप्नोतीत्यर्थः, प्रथमचरणे पंचदश मात्रा: कर्त्तव्या इति भावः । बीअद्वितीये पअ-पदे बारह-द्वादश मात्रा इति शेषः, सर्वत्र यथा यथा योजनीयः, ठबहु-स्थापयत । तीअ ठाइ-तृतीये स्थाने तृतीयचरणे इत्यर्थः दहपंच मात्राः जाणहु-जानीत । चारिमचतुर्थे चरणे इति शेषः, इदं च यथापेक्षमन्यत्रापि योज्यं, एग्गारहहि-एकादश मात्रा: जानीतेति पूर्वेणान्वयः । पंचमे उ-पंचमेऽपि चरणे दहपंच-पंचदश मात्रा: आणहु-आनयत । एवंप्रकारेण अठ्ठासठ्ठी-अष्टषष्टिर्मात्राः पूरबहु-पूरयत, अग्रे अष्टषष्टिमात्रांते दोहाद्विपदिकां तेरह मत्तेत्यादिना पूर्वमुक्तां देहु-ददत । एह-एषा रड्डा, (इअ) इयं सुपसिद्ध-सुप्रसिद्धं यथा स्यात्तथा राअसेण-राजसेना इत्यपि भणिज्जइ-भण्यते ॥ एतस्या राजसेना इति नामांतरमपि कथ्यत इत्यर्थः ॥
१३४. अथ रंडायां तावत्तावन्मात्रा तत्तच्चरणे देया इत्युक्तं, तत्र विप्रा(न्या)सप्रकारमाह विसमेति । बिसम-विषमे पादे प्रथमे तृतीये पंचमे चेत्यर्थः, आदौ तिकल संठबहु-विकलं स्थापय, ततश्च त्रिकलानंतरमित्यर्थः तिण्णि पाइक्क-त्रीन् पदातीन् चतुष्कलानित्यर्थः करहु-कुरुत, पढम-प्रथमे पाद अंत-अत प्रथमादांत इत्यर्थः णरिंद कि बिप्प-नरेन्द्रं मध्यगुरुं जगणं किंवा विप्रं चतुर्लध्वात्मकं गणं कुरुतेति पूर्वेणान्वयः, तथा च प्रथम चरणे त्रिकलानंतरं कर्त्तव्येषु त्रिषु चतुष्कलेषु तृतीयश्चतुष्कलो जगणस्वरूपो विप्ररूपो वांते कर्तव्यः न तु पृथगिति हृदयं । अबर पअ-अपरपादे विषमचरणगणविचारस्यैव प्रक्रांतत्वात्प्रथमादपरस्मिन् विषमे तृतीये पंचमे च पादे इत्यर्थः बे मत्त-द्वे मात्रे द्वौ लघू इत्यर्थः, उदाहरणानुरोधादत्र मात्राशब्दो लघुवाची, अंते देये इत्यर्थः, तथाच तृतीयपंचमकानंतरदेयेषु चतुष्कलेषु तृतीयो गणः भगणो देय इति भावः तस्यैव द्विलध्वंतत्वात् ।
अथ विषमचरणव्यवस्था विधाय समचरणव्यवस्थामाह सम पअ इति । सम पअ-समे पादे द्वितीये चतुर्थे: आदौ बिअ पाइक्क द्वौ पदाती चतुष्कलावित्यर्थः, अंत-अंते चतुष्कलद्वयांते पादांते चेत्यर्थः सव्बलहु-सर्वलघु बिसज्जहु-विसृजत, चौ(चउ)त्था चरण-चतुर्थचरणे अंते इति पूर्वतनमनुषंजनीयं, विचार्य सावधानतया एक्कलहु-एकं लघु कट्टिअ लिज्ज-निष्कास्य गृह्यतां द्वितीयचरणांतिमगणापेक्षया चतुर्थ-चरणांतिमगणे एको लघुयूँनः कर्त्तव्यः तत्र एका मात्रा न देयेति हृदयं ।। तथा च समे पदे चतुष्कलद्वयांते सर्व लध्वात्मकगणदानमुक्तं, तत्र चतुर्थचरणे चतुष्कलद्वयानंतरं सर्वलघुः, त्रिकलो देयः, द्वितीये च सर्वलघुश्चतुष्कलो देय इति व्यवस्था ।
इम पंच पाअ उट्टबण कइ-एवं पंचपादोट्टवनं कृत्वा, उट्टवनं विन्यासः, तथाच एवं पंचपादविन्यासं कृत्वेत्यर्थः, दोसहीण दोहाचरण-दोषहीनदोहाचरणान् जस्सत्यादिना पूर्वोक्तप्रथमतृतीयजगणवत्त्वरूपदोषरहितान् दोहाचतुश्चरणानित्यर्थः, ठबि-स्थापयित्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org