________________
२९७
परिशिष्ट (३) ६८, वसुः ६९, शब्द: ७०, मुनिः ७१, इति एहत्तरिहि-एकसप्ततिः षट्पदनामानि छंदआर-छंदकारक: पत्थरि-प्रस्तार्य्य लेहइलभते, इति पिंगलः कहइ-कथयति ॥
१२४. अथैतेषां प्रकारांतरेण संख्यामाह जत्ते इति । यावंतः सव्वे लघवो भवंति अर्द्ध विसृज्यतां तन्मध्ये । तत्रापि विसृज एकं शरं पंचकं, शर इति पंच संज्ञा, एतत्प्रमाणेन नामानि विद्धीति शेषः । अयमर्थः, द्विपंचाशदुत्तरं शतं लघवः अंतिमभेदे ये, तन्मध्ये, अर्द्धत्यागे षट्सप्ततिरवशिष्यते, तत्र पंचत्यागे एकसप्ततिरवशिष्यते, तत्प्रमाणेन एकसप्ततिप्रमाणानि नामानि भवंतीत्यर्तः ।।
अथैते भेदाः स्वरूपतो लिखित्वा प्रदर्श्यते । गुरु ७०, लघु १२ अजयः, गुरु ६९ लघु १४ विजयः, गु ६८ ल १६ बलिः, गु ६७ ल १८ कर्णः, गु ६६ ल २० वीरः, गु ६५ ल २२ वेतालः, गु ६४ ल २४ बृहन्नटः, गु ६३ ल २६ मर्कटः, गु ६२ ल २८ हरिः, गु ६१ ल ३० हरः, गु ६० ल ३२ ब्रह्मा, गु ५९ ल ३४ इंदुः, गु ५८ ल ४२ सिंहः, गु ५४ ल ४४ शार्दूलः, गु ५३ ल ४६ कूर्मः, गु ५२ ल ४८ कोकिलः, गु ५१ ल ५० खरः, गु ५० ल ५२ कुंजरः, गु ४९ ल ५४ मदनः, गु ४८ ल ५६ मत्स्यः , गु ४७ ल ५८ ताडंकः, गु ४६ ल ६० शेषः, गु ४५ ल ६२ सारंगः, गु ४४ ल ६४ पयोधर: गु ४३ ल ६६ कुंदः, गु ४२ ल ६८ कमलं, गु ४१ ल ७० वारणः, गु ४० ल ७२ शरभः, गु ३९ ल ७४ भसलः, गु ३८ ल ७६ जांगलः, गु ३७ ल ७८ शरः, गु ३६ ल ८० सुसरः, गु ३५ ल ८२ समरं, गु ३४ ल ८४ सारसः, गु ३३ ल ८६ सरसः, गु ३२ ल ८८ मेरुः, गु ३१ ल ९० मकरः, गु ३० ल ९२ मदः, गु २९ ल ९४ सिद्धिः, गु २८ ल ९६ बुद्धिः, गु २७ ल ९८ करतलं, गु २६ ल १०० ककलाकरः, गु (२५ ल) १०२ धवलः, गु २४ ल १०४ मदनः, गु २३ ल १०६ ध्रुवः, गु २२ ल १०८ कव (न) कं, गु २१ ल ११० कृष्णः, गु २० ल ११२ रंजनः, गु १९ ल ११४ मेधाकरः, गु १८ ल ११६ ग्रीष्मः, गु १७ ल ११८ गरुडः, गु १६ ल १२० शशी, गु १५ ल १२२ शूरः, गु १४ ख १२४ शल्यं, गु १३ ल १२६ नवरंग: (गु १२ ल) १२८ मनोहरः, गु ११ ल १३० गगनं, गु १० ल १३२ रत्नं, गु ९ ल १३४ नरः, गु ८ ल १३६ हीरः, गु ७ ल १३८ भ्रमरः, गु ६ ल १४० शेखरः, गु ५ ल १४२ कुसुमाकरः, गु ४ ल १४४ द्विपः, गु ३ ल १४५ शंखः, गु २ ल १४८ वसुः, गु १ ल १५० शब्दः, ल १५२ मुनिः ।।
१२५. अथ पज्झटिकावृत्तं लक्षयति चउमत्तेति । अंत-अंते, पओहर-पयोधरं मध्यगुरुं जगणमिति यावत् ठइ-स्थापयित्वा, अंतस्थं चतुर्मात्रिकं जगणस्वरुपमेव विधायेत्यर्थः, पाइ पाइ-पादे पादे प्रतिचरणमिति यावत् चारि ठाइ-चतुःसंख्यान् चउमत्तचतुर्मात्रिकन् गणान् करहि-कुरुष्व । एम-एवं, चारि पाअ-चतुःपादे चउसठ्ठि मत्त-चतुःषष्टिमात्राकं पज्झटिआ छंद-पज्झटिकाच्छंदः भवति, एतत् श्रुत्वेति शेष: इंदुः पज्झरइ-प्रस्रवति ।। प्रथमं त्रयश्चतुष्कलास्तदनंतरमेकोजगण एवं षोडश मात्रा: प्रतिचरणं यत्र पतंति, तत्पज्झटिकावृत्तमिति फलितार्थः ।
१२६. अथ(प)ज्झटिकामुदाहरति जे इति । येन पराक्रमेण गोलाहिबइ-गौडाधिपतिः राउ-राजा गंजिअ-गंजितः, हत इति यावत्, जसु भअ-यस्य पराक्रमस्य भयेन उदंड-समरदुर्द्धर्षः ओङ-उत्कलदेशाधिपतिः पलाउ-पलायितः । येन च जुज्झ-युद्धे, इदं सर्वत्र चेति, गुरुबिक्कम-गुरुविक्रमः गुरुरन्यैरनतिक्रमणीयः विक्रमः पराक्रमो यस्य स तादृश इत्यर्थः, बिक्कम-विक्रमः विक्रमनामा कश्चित् प्रसिद्धः राजा, जिणिअ-जितः, ताकण परक्कम-तत्कर्णपराक्रम कोऽपि बुज्झ-जानाति, अपि तु न को पीत्यर्थः
१२७. अथ अलिल्लहवृत्तं लक्षयति सोलह मत्तेति । जहा, सोलह मत्ता-षोडशमात्रिका: षोडश मात्रा यस्यां सा तादृशीत्यर्थः, पाउअलि-पादावली, लेह-लभ्यते, वेवि-द्वयोरिति शेषः, जमक्का-ज(य) मकौ भउ-भवत इति, अलिल्लह कथयत्यर्थः । किंपि कुत्रापि चरणे इत्यर्थः, अलीहलह (१) अप्रयोजक-इत्यर्थः । अयं च देशीशब्दः । पओहर-पयोधरः मध्यगुरुर्जगण इति यावत्, ण हो-न भवति, अत्र जगणो न देय इति भावः, अंते पादांते सुपिअ-सुप्रियः द्विलघुर्गण इत्यर्थः पततीति शेषः । क्रियमाणासु षोडशमात्रासु अंतिम (मा) त्राद्वयं यत्र लघुरूपमेव पतति, न तु षोडशमात्रातिरिक्तः सुप्रियो देय इति भावः, तत् अलिल्लह छंदुअलिल्लहनामकं छंदः भण-कथय इत्यर्थः ।।
१२८. अथं अलिल्लहमुदाहरति जिहि इति । जिहि-येन आसाबरिनामको देशः, दिण्हउ-दत्तः, सुत्थिर-सुस्थिरं, वैरिकृतास्कंदनाभावादव्याकुलजनमिति भावः, डाहर रज्जा-डहारराज्य डहारः पर्वतविशेषस्तस्य राज्यमित्यर्थः, लिहउ-गृहीतं । कालिंजरे येन कीर्तिः स्थापिता, धणु आवज्जि-धनम् आवर्ण्य दशदिग्भ्य एकीकृत्येत्यर्थः, धम्मके-धर्माय अप्पिअ-अर्पितम् । अत्र दिहउ लिलउ, थप्पिअ अप्पिअ इति दलद्वये यमकवत्वं स्फुटमेव । अत्र जिह्नीति संयुक्तपरोऽपि जकार: लघुर्बोध्यः, 'कत्थवि संजुत्तपरो बण्णो लहु होइ', इति पूर्वमुक्तत्वात् । धम्मके इति एकारोऽपि लघुर्बोध्यः, एओ शु (सु) द्धाअ बण मिलिआ चेति पूर्वमुक्तत्वात् । अन्यथा तत्तच्चरणे मात्राधिक्यं स्यादिति बोध्यम् ।। For Private & Personal Use Only
www.jainelibrary.org
Jain Education International