________________
प्राकृतपैंगलम्
२९६ लघवश्च षट्पदे पतंति, तत्र चैकैकगुरुहासेन क्रमेण तत्समानसंख्याकलघुद्वयवृद्ध्या एकसप्ततिर्भेदा भवंति । तांश्च भेदाननुपदमेव प्रपंचयिष्याम इति सुधीभिर्येयम् ॥
११८. अथ षट्पदोपोद्घातेनोल्लालं लक्षयति तिण्णि तुरंगमेति । प्रथमं तिण्णि (-त्रय:) तुरंगमाश्चतुष्कला गणाः, तह-ततः, तिअल-त्रिकल: गणः, तेहि अंत-तस्य त्रिकलस्यांते छह चउ तिअषट् चतस्र: तिस्रः मात्रा इति शेषः प्रत्येकं योजनीयः, एमएवं, बिहु दल छप्पण मत्त-द्विदलषट्पंचाशन्मात्राकं द्वयोर्दलयोमिलित्वा षट्पंचाशन्मात्रा यस्य तत्तादृशमित्यर्थः-उल्लाल-उल्लालं उल्लालनामकं वृत्तं, उट्टबहु-उट्टवयत उट्टवनिकाविषयं कुरुतेति यावत् । अथवा षट्पंचाशन्मात्राकमुल्लालं बिहु दल-द्वयोर्दलयोरुट्टवयत, एम-(ए)वं दलद्वयेऽपि गणान् विभजत । इदमत्रावधेयम् । त्रिचतुष्कलानां षट्गुरवस्तदनंतरपतितस्य त्रिकलस्य च एको गुरुस्तदनंतरपतितस्य षट्कलस्य च त्रयोगुरवस्तदनंतरपतितस्य चतुष्कलस्य च गुरुद्वयं तदनंतरपतितस्य त्रिकलस्य चैको गुरुरेवं प्रतिचरणं त्रयोदशगुरवो लघुद्वयं चैवमष्टाविंशतिर्मात्राः एके दले पतंति, दलद्वये च मिलित्वा षड्विंशतिर्मात्रा: एके दले पतंति, दलद्वये च मिलित्वा षड्विंशतिर्गुरवश्चत्वारश्च लघवः एवं षट्पंचाशन्मात्राः पतंति । एवं च काव्यवदुल्लालेऽपि सर्वे वर्णा गुरुरूपा न संभवंति । तथा हि यदि त्रिकलो गुर्वादिस्तदंतो वा दीयते, तदा एकैकपादे त्रिकलद्वयांतर्गतं लघुद्वयमावश्यकं, द्वयोर्दलयोश्च लघुचतुष्टयं, यदि च त्रिकलस्य मात्रात्रयमपि लघुरूपमेव क्रियते, तदा तु त्रिकलद्वयस्य षट्लघ(व) एकैकचरणे, द्वयोर्दलयोश्च द्वादश लघवः आवश्यका इति कथमपि उल्लाले सर्वे वर्णा गुरूरूपा न संभवत्येव, त्रिकलानामपि सर्वलघुरूपाणां संभवादत एव क्वचित्सर्वगुर्वात्मकवर्णसमय(?)मुदाहरणमपि दृश्यते तल्लेखकप्रमादात्पतितमिति बोध्यम् । अत्राप्येकैकगुरुह्रासेन क्रमेण लघुद्वयवृद्ध्या सर्वलध्वन्ताः सप्तविंशतिर्भेदाः संभवंति, ते च ग्रंथकृता न प्रदर्शिताः, अप्रदर्शिता अपि स्वयमूहनीयाः, मया तु ग्रंथविस्तरभयान्न प्रदर्शिता इति सुधीमिर्विभावनीयम् ॥
११९. अथ काव्योल्लालयोः सर्वगुर्वात्मककाव्यभेदमुदाहरति जाआ जा अद्धंगेति । जा अद्धंग-यदर्द्धगे जाआ-जाया पार्वतीति यावत् शोभते इति शेषः अग्रेऽपि योजनीयः, सीस-शीर्षे सव्वासा पूरंति-सर्वाशा: पूरयंती सम्बदुक्खा तोलंती-सर्वदुःखानि त्रोटयंती एतादृशी गंगा लोलंता-लोलायमाना । अत्र गंगाविशेषणद्वयं पार्वत्या अपि योजनीयम् । यश्च णाआ राआ हार-नागराजहार: नागराजस्य वासुकेहऱ्यारो यस्य तादृश इत्यर्थः यश्च दीसबासा बासंता-दिग्वासो वसानः । जा संग-यत्संगे णट्टा णासंता-नष्टदुष्टान् नाशयंतः, अत्र नष्टशब्दो धूर्त्तवाची, तथाच धूर्त्ता ये दुष्टा वैरिणस्तान् नाशयंत इत्यर्थः, उछ्छबे-उत्सवे कांता-यथा स्यात्तथा णाचंता-नृत्यंतः, ताले भूमी कंपले-तालकंपितभूमयः, अथवा येषां तालेन भूमिः कंपिता, तादृशा बेआला–वेतालास्तिष्ठंतीति शेषः । जा दिढे-यस्मिन्दृष्टे मोक्खा पाबिज्जे-मोक्षः प्राप्यते, सो तुम्हाणं-स युष्मभ्यं सुक्ख दो-सुखं ददातु । अत्र जाआ जा अद्धंगेत्यारभ्य णट्ट उट्टा णासंता एतावत्पर्यंत पादचतुष्टयं काव्यस्योदाहरणमेतदग्रे च चरणद्वयमुल्लास्येति बोध्यम् ।।
१२०. अथ षट(पद) भेदानयनप्रकारमाह चउआलिसेति । चउआलिस गुरु कव्बके-(चतुः) चत्वारिंशद्गुरवः काव्यस्य, छहबीसह-षड्विंशतिर्गुरवः इत्यनुषंगः, उल्लाल-उल्लालस्य । जं गुरु टुट्टइ-य: गुरुत्रुटति, लहु बढइ-लघुर्वर्द्धते, अतः एहत्तरिएकसप्ततिः पत्थार-(प्रस्तार)भेदेषणा भवतीति शेषः । भावस्तु पूर्वमेवोक्तः ।
१२१. अथैनमेवार्थं प्रकारांतरेणाह, अजअ इति । गुरुसत्तरि-गुरवः सप्ततिः, रबि रेह-रविरेखा: रविसंख्याका रेखाः द्वादश लघव इति यावत्, एवं बयासो (बेआसी) अक्खरहि-द्वयशीत्यक्षरैः अजअ-अजयनामा षट्पदस्य प्रथमो भेद इत्यर्थः । तत्र गुरु घटइ-एकैकगुरुर्हसति, दुदुइ लहुआ लेइ (ह)-द्वौ द्वौ लघुकौ ग्राह्यौ वर्द्धनीयाविति यावत् । एवं सति एक्कक्खर वढ-एकैकमक्षरं वर्द्धते । .... अयमर्थः । तृतीयजगणपक्षे काव्यस्य (चतुः) चत्वारिंशद्गुरवः अष्टौ लघव उल्लालस्य षड्विंशतिर्गुरवश्चत्वारो लघव एवमुभयोमिलित्वा सप्ततिर्मुरवो द्वादश लघवो यत्र पतंति स अजयः, तत्र च यदि एकैको गुरुर्हसति तत्समानसंख्याकमात्राकं च लघुद्वयं वर्द्धते, एवं च पूर्वपूर्वभेदापेक्षयोत्तर(रोत्तर)भेद एकैकमक्षरं बर्द्धते तदा ते ते भेदा भवंति । एतस्यैव प्रस्तारस्य शाल्मलीप्रस्तारसंज्ञा ।
१२२. अथैकसप्ततिभेदानां नामान्याह अजअ इत्यादिना । अजयः १, विजयः २, बलिः ३, कर्णः ४, वीरः ५, वेताल: ६, बृहन्नट: ७, मर्कट: ८, हरि: ९, हर: १०, ब्रह्मा ११, इंदुः १२, चंदनं १३, सुशुभंकर: १४, श्वा १५, सिंह: १६, शार्दूलः १७, कूर्मः १८, कोकिलः १९, खरः २०, कुंजर: २१, मदनः २२, मत्स्यः २३, ताडंक: २४, शेषः २५, सारंग: २६, पयोधरः २७, कुंदः २८, कमलं २९, वारणः ३०, शरभः ३१, भसलो-भ्रमरः भास्वरश्च ३२, जांगल: ३३, शरः ३४, सुसर: ३५, समरं ३६, सारसः ३७, सरसः ३८, इअ-इति छप्पअ णाम-षट्पदनामानि ठवि-स्थापयित्वा लेहइ-लभ्यंत इति पिंगल कहइ-पिंगल: कथयति ॥
१२३. मेरुः ३९, मकरः ४०, मदः ४१, सिद्धिः ४२, बुद्धिः ४३, करतलं ४४, कमलाकरः ४५, धवल: ४६, मदन: ४७, ध्रुवः ४८, कनकं ४९, कृष्ण: ५०, रंजनः ५१, मेधाकरः ५२, ग्रीष्मः ५३, गरुङ: ५४, शशी ५५, शूरः ५६, शल्यं ५७, नवरंगः ५८, मनोहर: ५९, गगनं ६०, रत्नं ६१, नरः ६२, हीरः ६३, भ्रमरः ६४, सेखरः ६५, कुसुमाकरः ६६, द्विपः ६७, शंखः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org