________________
२९५
परिशिष्ट (३)
गु ३६ ल २४ सरभः, गु ३७ ल २२ दंभः, गु ३८ ल २० उद्देभः, गु ३९ ल १८ अहः, गु ४० ल १६ पलितांकः, गु ४१ ल १४ तुरंगः, गु ४२ ल १२ हरिणः, गु ४३ ल १० अंधः, गु ४४ ल ८ भुंगः । एवं पूर्वभेदापेक्षया लघुद्वयन्यूनक्रियया तत्समानमात्राकैकगुरुवर्द्धनेन च शक्रमारभ्य भृगपर्यन्तं पंचचत्वारिंशद्भेदा बोध्याः ॥
. अथ शकात् क्रममारभ्य चत्वारो भेदास्तृतीये विप्रदानपक्ष एव संभवन्ति । पंचममारभ्य एकचत्वारिंशत्पर्यन्तं च तृतीये. जगणदानपक्षेऽपि विप्रपक्षेऽपि संभवन्ति । द्विचत्वारिंशत्तममारभ्य पंचचत्वारिंशत्पर्यन्तं च चत्वारो भेदास्तृतीये जगणमवलम्ब्यैव संभवन्ति । विप्रपक्षे पदचतुष्टये मिलित्वा षोडशलघूनां जगणपक्षे चाष्टगुरूणा(लघूना)मावश्यकत्वादिति बोध्यम् ॥
अथ प्राकृतसूत्रेण शंभ्वादि,गांतानां पूर्वोक्तचतुश्चत्वारिंशद्भेदानां नामान्याह, ता संभो इति । शम्भुः १, सूर्यः २, गंड: ३, स्कंध: ४, विजयः ५, दर्पः ६, तालांकः ७, समरः ८, सिंह: ९, शीर्षः १०, उत्तेजाः ११, प्रतिपक्षः १२, परिधर्मः १३, मराल: १४, मृगेन्द्रः १५, दंड: १६, मर्कट: १७, काल: १८, महाराष्ट्र: १९, वसंतः २०, कंठं २१, मयूरः २२, बंधः २३, भ्रमर: २४, भिन्नमहाराष्ट्र: २५, बलभद्रः २६, राजा २७, बलित: २८, मोक्ष: २९, मंथान: ३०, बलिः ३१, मेघः ३२, सहस्राक्ष: ३३, बाल: ३४, दरिद्रः ३५, सरभः ३६, दंभः ३७, उद्देभः ३८, अह: ३९, वलितांकः ४०, तुरंगः ४१, हरिणः ४२, अंधः ४३, तह-तथा, भृगः ४४ । हे मुद्धि-मुग्धे, ता एतानि चतुश्चत्वारिंशदिति शेषः, बत्थुआ णाम-वस्तुकनामान्येतानि वास्तु-ता संभो सूरो गंडो खंधो बिजओ दप्पो तालांको समरो सीहो सेसो उत्तेखो पडिव....वोकापरनामकाव्यच्छंदस: नामानीति यावत्, छंदपबंधो-छंदःप्रबन्धः छंदसा प्रकृष्टो बंधो यस्मात् स तादृश इत्यर्थः पिंगलणाओ-पिंगलनागः जंपइ-जल्पति ।।
११५. अथ शक्रमादाय संख्यान्तरं दोहावृत्तेनाह पंचतालीसह इति । बत्थुआ छंदे-वास्तुकच्छंदसि वास्तुकापरनाम्नि काव्यच्छंदसीति यावत्, पंचतालीसह-पंचचत्वारिंशत् छंद-छंदांसि भेदा इति यावत्, बिअंभ-विज़ुभते इति अद्धाकइ-साक्षात्कृत्य, पिंगल कहइ-पिंगलः कथयति, अत्र हरिहरब्रह्मणोऽपि न चलंति, तेऽप्येनमन्यथा न कुर्वंतीति भावः ॥
११६. अथ काव्ये वर्जनीयदोषानाह पअह इति । पअह असुद्धऊ-पादैः अशुद्धः न्यून इत्यर्थः पंगुः इत्युच्यते, पादचतुष्टयमध्ये एकेनापि चरणेन हीनश्चेत्तदा पंगुरित्यर्थः । यत्तु पदे अशुद्धः प्राकृतव्याकरणदुष्ट इत्यर्थ इति तन्न, तथा सति संस्कृतरचितकाव्यस्य दुष्टत्वात् । हीनः पूर्वोक्तेन केनापि गणेन हीनश्चेदित्यर्थः तदा स खोड-खंजः पभणिज्जइ प्रभण्यते । यत्तु मात्रया हीनइत्यर्थ इति तन्न, शून्यकलेत्यनेन पौनरुक्त्यापतेः । मत्तग्गलः मात्रयाधिक: लक्षणोक्तमात्रापेक्षया एकया एकयापि मात्रया अधिक इत्यर्थः, बाउलव्याकुलः । सुण्णकल-शून्यकल: एकयापि मात्रया न्यून इत्यर्थः कण्ण सुणिज्जइ-काणः श्रूयते। तथा झलबज्जिअ झकारलकाराभ्यां वर्जित इत्यर्थः बहिर-बधिरः । अलंकारैः रहितः अंधः । छंदउट्टबण बिणु-छंदसः यत् उट्टवनिका तां विनेत्यर्थः, उट्टवनिकायां क्रियमाणायां यदि आद्यंतषट्कलस्थाने सप्तकलः पंचकलो वा पतति, एवं मध्यस्थचतुष्कलेषु यदि कश्चित्पंचकलस्त्रिकलो वा भवति, तृतीये च जगणविप्राभ्यामन्य एव गणः पततीत्यर्थः बूलऊ-मूक: कथितः । अत्थ बिणु-अर्थेन विना, दुव्बल कहिअउ-दुर्बल: कथितः । हट्ठक्खरहि-हठाक्षरैर्हठाकृष्टैरक्षरैः परस्परमैत्रीरहितैरित्यर्थः (डेरउ)-डेर: केकरः होइ-भवति । गुण सबहि-सर्वगुणैः प्रसादप्रभृतिभिः रहित: काणा-काणः भवति । एते कव्बह दोस-काव्यस्य दोषाः, सव्वंगसुद्ध समरूअगुण-सर्वांगशुद्धसमरूपगुणः सर्वांगे शुद्धः, समौ रूपगुणौ यस्य सः समरूपगुणः, सर्वांगशुद्धश्चासौ समरूपगुणश्च तादृशेन पिंगलेन कथिताः । अत्र हिअ इत्यक्षरद्धयमेकं बोध्यं 'बण्णो बि तुरिअपढिओ' इत्युक्तेः अन्यथा मात्राधिक्यापत्तिः ॥
११७. अथ वर्णलघुभेदेन काव्यस्य जातिमेकैकचरणस्थां चरणचतुष्टयसमुदितां च मात्रां कथयन् भूयोऽपि भेदसंख्यामनुवदन् उल्लालगुरुसंख्यामुपदिशन् काव्योल्लालाभ्यां षट्पदं वृत्तं भवति तस्य चैकसप्ततिर्भेदा भवन्तीति षट्पदेनैवाह बिप्पेति । विप्प-विप्रे विप्रजातीये काव्ये बत्तीस-द्वात्रिंशत् लहु-लघवः होइ-भवंति, खत्ति-क्षत्रिये क्षत्रियजातीये काव्य बेआल-द्विचत्वारिंशत् लघवः करिज्जसु-कियंतां, बेस-वैश्यः अठतालिस-अष्टचत्वारिंशत् लघवः क्रियतामिति पूर्वेणैवान्वयः, सेस-शेषा उर्वरिता इति यावत् लघवः सुद्दहि(उ)-शूद्रजातीये काव्ये सलहिज्जसु-श्लाघ्यंतां, पअ-पाद एकैकचरण इत्यर्थः काव्यस्येति भावः चउअग्गलचतुरधिका: वीस-विंशतिः चरणचतुष्टये च इति शेषः, छाणबइ-षण्णवति: मत्त-मात्रा: ठबिज्जसु-स्थाप्यंतां, कव्वलक्खणहि(ह)काव्यलक्षणे पंचतालीसह णाम-पंचचत्वारिंशन्नामानि पूर्वोक्तानि शक्रादीनि ,गांतानीति भावः करिज्जसु-क्रियंतां, उल्लालहि-उल्लाले छहबिस-षड्विंशति गुरून् जानीहीति शेषः, विण्णि पाअ-द्वयोः पादान् काव्योल्लालयोश्चरणान् एक्कइ-एकीकृत्य, समबण्ण-समा वर्णाः काव्योल्लालसमानाः वर्णा गुरुलघुरूपा यस्मिन्तत्तादृशमित्यर्थः सरिससमदोसगुण-सदृशसर्वदोषगुणं सदृशाः काव्यसमानाः सर्वे दोषा गुणाश्च यस्य तत्तादृशमित्यर्थः छप्पअ-षट्पदं वृत्तं मुणहु-जानीत, तस्य चेति शेषः एहत्तरि णाम-एकसप्ततिनामानि परिमुणहुपरिजानीतेति योजना । एहत्तरीत्येकारो लघुर्बोध्यः । अयमर्थ:-काव्यचरणचतुष्टयस्थाश्चतुश्चत्वारिंशत् गुरवस्तृतीयजगणदानपक्षे चाष्टौ लघवः, उल्लालचरणद्वयस्थाश्च षड्विंशतिर्गुरवः, पादद्वयस्थत्रिकलचतुष्टयांतर्गताश्च चत्वारो लघ(व) एवं मिलित्वा सप्ततिर्गुरवो द्वादश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org