________________
प्राकृतपैंगलम्
२९४ १०८क. अथ पूर्वोक्तमेव दोहावृत्तेनोपसंहरति चारि पाअ इति । चारि पाअ-चत्वारः पादाः, कव्वके भण-काव्यस्य भण, बेबि पाअ उल्लाल-द्वावपि पादाः, उल्लालस्य भणेति पूर्वेणान्वयः, इम-एवं, बिहु लक्खण-द्वे लक्षणे एक्क कइ-एकं कृत्वा पढ, एष छप्पअ पत्थर-षट्पदप्रस्तारः ।।
१०९. अथ षट्पदोपयोगिकाव्यलक्षणमाह आइ अंत इति । यत्र आदौ अंते, दुह छक्कलउ-द्वौ षट्कलौ भवतः इति शेषः, एक आदौ एक: अंते इत्यर्थः, मझ्झ-मध्ये आद्यंतस्थयोः षट्कलयोरंतराले इत्यर्थः, तिण्णि तुरंगम-त्रयस्तुरंगमास्त्र(य)श्चतु:कला: भवंतीति शेषः, तत्र तीए-तृतीये स्थाने द्वितीय-चतुःकल इत्यर्थः जगणो मध्यगुरुर्गणः किंवा विप्रगणश्चतुर्लधुकोगणः कर्तव्यः, तत् कव्वह लक्खण-काव्यस्य लक्षणं, बुझ्झ-बुध्यतां ॥ अयमर्थः, प्रथमं षट्कलस्ततस्त्रयश्चतुष्कलास्ततश्च षट्कलः एवं प्रतिपादं पंच गणाः कर्तव्यास्तेष्वेव च प्रथमषट्कला.... त्रये तृतीयो गणो जगणो विप्रो वा विधेयः, एवं च तृतीये विप्रश्चेद्दीयते तदा सर्वलघ्वात्मकोऽपि काव्यभेदो भवति, यदि च जगणो दीयते तदा तु न तृतीयस्थजगणांतर्गतस्य एकैकगुरोः प्रतिचरणमावश्यकत्वात्सर्वगुर्वात्मकस्तु न भवति च, जगणपक्षे तृतीयस्य गणाद्यंतस्थस्य लघुद्वयस्य प्रतिचरणमावश्यकत्वादिति, विप्रपक्षे च चतुर्लघूनां प्रतिचरणमावश्यकत्वादिति सुधीभिर्विभावनीयम् ।
११०. अथ वक्ष्यमाणेषु काव्यभेदेषु शक्रनामकं भेदं लक्षयन् भेदान(यन)प्रकारमाह चउ अग्गलेति । चउ अग्गल चालीस गुरु-चतुरधिकचत्वारिंशद्गुरु काव्यपादचतुष्टयं चतुश्चत्वारिंशद्गुरु इति यावत्, एक्कक्के गुरु लेइ-एकैकं गुरुं गृहाण न्यूनं कुरु, एवं कृते च जो गुरुहीणउ-यो गुरुहीनः एकैकगुरुह्रासेन द्विलघुवृद्ध्या क्रियमाणेषु भेदेषु यः सर्वलघुरित्यर्थः भवतीति शेषः, सो स(कस) शकः । तत्र च एकैकगुरुवृद्ध्या लघुद्वयासेनेति शेषः, णाम ग्गहण कुणेहु-नामग्रहणं शंभ्वादिगांतमिति भावः कुरुष्व । अयं भावः-तृतीये जगणदानपक्षे प्रथमषट्कलस्य गुरुत्रयं द्वितीयचतुष्कलस्य गुरुद्वयं, तृतीयचतुष्कलस्य जगणस्वरूपात्वत्तस्यैको गुरुः, चतुर्थचतुष्कलस्य गुरुद्वयं पंचमस्य षट्कलस्य गुरुत्रयमेकादश गुरवः, जगणाद्यंत:स्थलघुद्वयं च प्रतिचरणं काव्ये आवश्यकं, चरणचतुष्टये च मिलित्वा चतुश्चत्वारिंशद्गुरवोऽष्टौ लघव आवश्यकाः, अतएव काव्ये सर्वेऽपि चरणा गुरुरूपा एवेति न संभवति जगणपक्षे अष्टलघूनां विप्रपक्षे षोडशलघूनामावश्यकत्वात्, तेषु च (चतुः)चत्वारिंशद्गुरुषुः क्रमेण एकैकगुरुह्रासेन लघुद्वयवृद्ध्या भेदेषु क्रियमाणेषु यः सर्वलघुर्भवति सः शक्रः, षण्णवतिलघ्वात्मके शक्रे च क्रमेण एकैकगुरुवृद्ध्या लघुद्वयह्रासेन यावच्चतुश्चत्वारिंशद्गुरवोऽष्टौ च लघवो भवंति, तावंति नामानि भवंति । तांश्च भेदाननुपदमेव विवेचयिष्यामः । अत्र च प्रथमं गुरूनादायैकगुरुह्यसलघुद्वयवृद्धिक्रमेण शक्रनिरुक्तिस्ततश्च लघूनादाय लघुद्वयह्रासैकगुरुवर्द्धनकमेणान्येषां निरुक्तिरुभयथापि भेदानयनं संभवतीति प्रदर्शनायेति ध्येयम् ॥
१११. अथ शक्रमुदाहरति जसु करेति । जसु कर-यस्य करे, फणिबइ बलअ-फणिपतिवलयं, तणुमह-तनुमध्ये तरुणिबरतरुणिवरा युवती श्रेष्ठा पार्वती बिलसइ-विलसति, यस्य णअण-नयने भालस्थतृतीयनेत्रे अणल-अनलः, गल गरल-गले कंठे गरलं विषं, बिमल ससि जसु सिस्-विमलः एककलात्मकतया कलंकशून्यः शशी (यस्य शिरसि) णिवसइ-निवसति । इदं च क्रियापदं नयने-इत्यादिप्रत्येकान्वयि । यस्य सिरमहशिरोमध्ये, सुरसरि (सुरसरित्) रहइ-तिष्ठति, यश्च सअल जण दुरित दमण करसकलजनदुरितदमनकरः, सो-सः, ससिहर-शशिधरो महादेवः, हसि-हसित्वा, तुअ दुरिअ-तव दुरितं हरउ-हरतु, बितरउ अभअबस्वितरतु अभयवरम् । अत्र चरणस्थाः चतुर्विंशतिरपि मात्रा लघुरूपाः स्पष्टाः । अत्र सो इत्योकारो लघुर्बोध्यः ।
११२. अथ स्पष्टतया संख्यानियतकाव्यभेदानयनप्रकारमाह जहेति । यथा यथा बलआ बढिहइ-वलयं गुरुर्वद्धते, तह तहतथा तथा णाम कुणेहु-(ना)म कुरुष्व, संभुहि सउ-शंभुना सार्द्ध भिंगगणः-शृंगगणं भणि-भणित्वा, शंभुमारभ्य ,गगणपर्यंतमित्यर्थः, चौ(चउ)आलीस-चतुश्चत्वारिंशत्, भेदानिति शेषः, मुणेहु-जानीहि । अयं भाव:-षण्णवतिलघ्वात्मक एको गुरुर्वर्द्धते, एवं यः शक्रः उक्तः तत्र च यदि लघुद्वयमूनीकृत्य तन्मात्राक एको गुरुर्वर्द्धते एवमेकोगुरुश्चतुर्णवतिर्लघवश्च यत्र पतंति, संशु (शंभु) नामा द्वितीयो भेदः । एवमग्रेऽपि बोध्यम् । ते लिखित्वा प्रदर्श्यते, तथा ।
११३. गु १ ल ९४ शम्भुः, गु २ ल ९२ सूर्य्य:, गु ३ ल ९० गंड:, गु ४ ल ८८ स्कंधः, गु ५ ल ८६ विजयः, गु ६ ल ८४ दर्पः, गु ७ ल ८२ तालांकः, गु ८ ल ८० समरः, गु ९ ल ७८ सिहः, गु १० ल ७६ शीर्ष, गु ११ ल ७४ उत्तेजाः, गु १२ ल ७२ प्रतिपक्षः, गु १३ ल ७० परिधर्मः, गु १४ ल ६८ मरालः, गु १५ ल ६६ मृगेन्द्रः, गु १६ ल ६४ दंडः, गु १७ ल ६२ मर्कटः, गु १८ ल ६० कालः, (?) गु १९ ल ५८ महाराष्ट्रः, गु २० ल ५६ वसंतः, गु २१ ल ५४ कंठं, गु २२ ल ५२ मयूरः, गु २३ ल ५० बंधः, गु २४ ल ४८ भ्रमरः, गु २५ ल ४६ भिण (न्न) महाराष्ट्र: ॥
११४. गु २६ ल ४४ बलभद्रः, गु २७ ल ४२ राजा, गु २८ ल ४० बलितः, गु २९ ल ३८ मोक्षः, गु ३० ल ३६ मंथानः, गु ३१ ल ३४ बलिः, गु ३२ ल ३२ मेघः, गु ३३ ल ३० सहस्राक्षः, गु ३४ ल २८ बालः, गु ३५ ल २६ दरिद्रः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org