________________
२९३
परिशिष्ट (३) चउक्कल-त्रीन् चतुष्कलान् देहु-ददत, ततश्च पंचक्कल-पंचकल, चउकल जुअल-चतुष्कलयुगलं च ददतेति पूर्वेणान्वयः, एवं घत्तानंद मुणह-जानीध्वं । घत्ताघत्तानंदयोश्च विश्राममात्रकृत एव भेद इति अत्रापि लघुत्रयमंते देयमिति बोध्यम् ॥
१०४. अथ घत्तानंदमुदाहरति, यो बंदिअ इति । जो-यः, सिरगंग-शिरोगंगया शिर:स्थितया गंगया इत्यर्थः, बंदिअ-बंदितः नमस्कृत इत्यर्थः । अथवा येन शिरसि गंगा वंदितेति । येन अणंग-कामः हणिअ-हतः, यश्च अद्धंगहि-अर्धांगे परिकर धरणुपरिकर कलत्रं धृतवान्, सो-सः, जोईजण मित्त-योगिजनमित्रं, संकाहरु-शंकाहरः, संकर चरणु शंकरचरणः, वो (दुरित्त-) दुरितं हर-हरतु ॥
१०५. अथ षट्पदनामकवृत्तं लक्षयति । छप्पअ छंद इति । हे छइल्ल-छइल्लाः विदग्धाः, अक्खरसंजुत्तउ-अक्षरसंयुक्तं वक्ष्यमाणप्रकारेण व्यशीत्यादिवर्णयुक्तमिति यावत्, छप्पअ छंद-षट्पदं छंदः सुणअ-शृणुत । तत्र यतिनियमपूर्वकं गणनियममाह, एआरहेत्यादिना । तत्र बिरइ-विरतिः, एआरह-एकादशसु मात्रासु भवतीति शेषः, त पुणु-ततः पुनः णिम्भंतउ-निर्धांतं यथा स्यात्तथा तेरह-त्रयोदशसु मात्रासु विरतिर्भवतीति पूर्वेणान्वयः, तथा च चरणे चतुर्विशतिर्मात्रा: भवन्तीति भावः, पढम-प्रथमे च चरणे इदं चोपलक्षणं, द्वितीये तृतीये चतुर्थेऽपि बोध्यं, बे मत्ता धरि-द्वे मात्रे धृत्वा संस्थाप्येत्यर्थः, मझ्झठिअ-मध्येस्थिता मध्ये प्रथमस्थमात्राद्वयांतस्थद्विलघ्वोरंतराले स्थिता इत्यर्थः, पंच चउ चउकल-चतुश्चतु:कलाश्चतस्रः चतस्त्रः कला मात्रा येषु तादृशाश्चतुर्मात्रिका इति यावत् गण-गणाः किज्जइ-क्रियंते, त पुणु-ततः पुनः हेट्ठ-अधस्तात्पादांते इति यावत्, बिण्णवि लहु-लघुद्वयं दिज्जइ-दीयते, ततः पादचतुष्टयानंतरम्, उल्लाल-उल्लालः वक्ष्यमाणलक्षणं उल्लालनामकं वृत्तं दीयते इति पूर्वेणान्वयः । तत्र च उल्लाल बे बिरइ-द्वे विरती यतिस्थानद्वयमित्यर्थः, प्रथमं पण****लघुद्वयं स्थाप्यमेवमेकैकचरणे चतुर्विशतिर्मात्रा विधाय चरणचतुष्टयं विधेयमनंतरं च उल्लालपादद्वयं देयमिति षट्पदं छंदो भवतीति । अंतो लघुद्वयमेव देयमिति न नियमः काव्यपादेषु तथाऽदर्शनादिति बोध्यम् ।
१०६. अथ षट्पदमुदाहरति पिंधिअ दिढ सण्णाह-दृढसंनाहं पिंधिअ-पिधाय, बाह उप्पर-बाहोपरि पक्खर देइ-वाणवारणं दत्वा, बंधु समदि-बन्धून् संभाव्य, साहि हम्मीर बअण लेइ शाहहमी (र) वचनं गृहीत्वा, रण धसिअ-रणे प्रविश्य, पक्ख (र) पक्खर-वाणवारणेन वाणवारणं, स्वकवचेन प्रतिपक्षाणां कवचमित्यर्थः, ठेल्लि-त्रोटयित्वा, पेल्लि-नोदयित्वा, उड्डउ-उड्डीयमानः सन्, णहपह-नभ:पथे भमउ-भ्रमामि, अरि सीसहि-अरिशिरसि, खग्ग-खड्गं डारउ-पातयामि, पबह अप्फालउ-पर्वतानहं स्फालयामि क्रोधानलमध्ये जलउ-ज्वलामि, हम्मीरकज्ज यामि (?) उल्लंघयामीति यावत् । किं च सुरताणसीस करवाल देइ-खड्गेन तस्य शिरश्छित्वेति यावत्, मह-अहं, कोहाणल मह-क्रोधानलमध्ये जलउ-ज्वलामि, हम्मीरकज्ज-(ह)मीरका(या)य, कलेबर तेज्जिकलेवरं शरीरं त्यक्ता, दिअ चल-दिवं गच्छामि इति जज्जलः । ***हमीर* * *
१०७. अथ षट्पदमेव प्रकारांतेरण लक्षयति । पअ पअ तलह इति । यत्र आइहि छक्कलु होइ-आदौ षट्कलो भवति, ततः चारि चउकल(उ)-चत्वारश्चतुःकला णिवुत्तउ-निरुक्ताः, अंत-पादांते, दुक्कलु-द्विकलः निबद्धः, एवं यत्र पअ पअ तलह णिबद्ध-पदपदतले प्रतिचरणतलमित्यर्थः निबद्धाः मत्त चउबीसहि-मात्राश्चतुर्विंशतिः किज्जइ-क्रियंते, तत उल्लालहि सहिअ-उल्लालेन सहितम् अंते उल्लालपादद्वययुक्तमित्यर्थः, सेस कइ बत्थु णिरुत्त-शेषकविना वस्तु निरुक्तम् । एतदेव वस्तु इति नामांतरेणोक्तमित्यर्थः । इति गुणहु-गुणयत जानीतेत्यर्थः । इअ छंद-इदं छंदः, अक्खर डंबर-सरिस-अक्षराडंबरसदृशं सुश्राव्यवर्णसमुल्लसितगौडीरीतिमदित्यर्थः, चेद्भवतीति शेषः, तदा छ(सु)द्ध भणिज्जइ-शुद्धं भण्यते । अत्र च बावण सउ बि मत्तह-द्विपंचाशत्शतमपि मात्राः काव्यपादचतुष्टयस्य षण्णवतिरुल्लालपादद्वयस्य च षट्पंचाशदेवमुभयोमिलित्वा द्विपंचाशदधिकं शतं मात्रा इत्यर्थः, मुणहु-जानीत, छप्पअ छंद-षट्पदच्छंदः, एरिसि बि होइ-एतादृशमपि भवति, काइ गंथ गंथि-किमर्थं ग्रंथग्रंथि बिमरह-विमृशत । इदं च पूर्वोक्तलक्षणेनैव गतार्थत्वाद् क्षेपकमिवाभातीति बोध्यम् ॥
१०८. अथैतदुदाहरति जहा सरअ ससि बिंबेति । यथा शरत्-शशिबिंब, यथा हरहारहंसस्थितिः, हर:-कर्पूरगौरः, हारोमौक्तिकदाम, हंसा:-पक्षिविशेषास्तेषां स्थि(ति) रित्यर्थः, जहा फुल्ल सिअ कमल-यथा फुल्लसितकमलं पुण्डरीकमिति यावत्, जहा खंड किअ-खंडीकृतः, सिरि खंड-श्रीखंडश्चंदनमित्यर्थः, जहा गंग कल्लोल-यथा गंगाकल्लोला महोर्मय इत्यर्थः, जहा रोसाणिअ रुप्पइ-यथोज्ज्वलितं रूप्यं, जहा दुद्ध वर सुद्ध फेण फंफाइ तलप्पइ-यथा दुग्धसाम्यं कीर्तेः कविसंप्रदायविरुद्धं शीतत्वेनैव कीर्तिवर्णनस्योचितत्वात् तथापि श्वैत्यमात्रे तात्पर्य्य न तदंशेऽपीति भावः, तप्तीभूय भांडादुद्गतः, दुग्धफेनश्चातिश्वेतो भवतीति तथोक्तिः । पुण:(न)यथा पिअ पाअ पसाए दिट्ठि-प्रियप्राप्तप्रसाददृष्टिः प्रियस्य प्राप्ता प्रसाददृष्टिर्येन स तादृश इत्यर्थः, तरुणिजण-तरुणिजन: णिहुअ हसइ-निभृतं हसति, तत्थ-तथा तव कित्ति-कीर्ति देक्खि-प्रेक्ष्य, वरमत्ति-वरमते चंडेश्वर महाराज, हरिब्रह्मा भणति । ब्रह्मेति वंदिनामुपनाम जातिविशेषो वा, तथा च ब्रह्मजातीयस्तदुपनामको वा हरिनाम भवतीत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org