________________
प्राकृतपैंगलम्
२९२ ९५. अथ गंधानकमेव दोहावृत्तेन स्पष्टयति दहसत्तक्खरेति । पढमचरण-प्रथमचरणे, गंधाण-गंधानस्य, दहसत्तक्खरसप्तदशाक्षराणि संठवहु-संस्थापयत, बिअ-द्वितीये चरणे, अक्खर-अक्षराणि पुनः, अठ्ठारहइ-अष्टादशैव, जमअ देइ-यमकं दत्वा, बिआण-विजानीहि ।
अत्र च वर्णनियम एव न तु मात्रानियम इति बोध्यम् ।
९६. अथ गंधानमुदाहरति कण्ण चलन्ते इति । चक्कवइ-चक्रवर्तिनि कण्ण-कर्णे चलन्ते-चलति सति, कुम्म चलइकूर्मश्चलति, कुम्म चलन्ते-कूर्मे चलति सति, असरणा-अशरणा कूर्मचलनादधिष्ठानरहितेति भावः, भुअण भअ कारणा-भुवनभयकी पुणबि-पुनरपि महि चलइ-मही चलति, महिअ चलन्ते-मह्यां चलन्त्यां, (महिहरु)-महीधरः मेरुः चलतीति पूर्वेणान्वयः । सामान्यवचनमपि महीधरपदं विशेषपरं बोध्यम् । तेहि-यस्मिन् महीधरे चलति सति, सुरअणा-सुरगणश्चलति, मेर्वधिष्ठानत्वात् सुरगणस्येति भावः एव जेह चक्क-यथा चकं तथा तिहुअणा-त्रिभुवनं चलति । अत्र जेहि इति एकारो लघुर्वाच्यः (?) ।
९७. अथ चतुःपादिकां लक्षयति चउपइआ इति । पाएहि-पादे एकैकचरणे इत्यर्थः, चउमत्ता-चतुर्मात्रिकान्, (गणसत्ता)गणान् सप्त, सगुरु करिसगुरून् कृत्वा, गुरुयुक्तान् सप्तचतुर्मात्रिकान् गणान् विधायेत्यर्थः, एवं तीस मत्ता धरि-त्रिंशन्मात्रा धृत्वा, चउपइआ छन्दा-चतुःपादिकाछन्दः, फणिंदा-फणींद्रः पिंगलः भणइ-भणति । तत्र विशेषमाह चउछन्देति इदं वृत्तं चतुश्छन्दांसि ले किज्जइ-गृहीत्वा क्रियते, एक्क-एकं छन्दः गृहीत्वा ण किज्जइ-न क्रियते, वृत्तचतुष्टयेनैकं पद्यं विधेयं, न त्वेकेनैव वृत्तेन । तथाच षोडशचरणैरिदं कर्तव्यं, न तु चतुर्भिश्चणैरिति भावः । एवं चात्रेति शेषः, चउसअ असिअ-चतुश्शतमशीतिश्च मात्रा इति शेषः, णिरुत्तानिरुक्ताः कथिता इत्यर्थः, मिअणअणि हे मृगनयने, एहु भेअ-एतं भेदं, को जाणइ-क: पिंगलातिरिक्तः जानाति, एअ (उ)एतच्छंदः (अमिअ)-अमृततुल्यमित्यर्थः, पआसइ-प्रकाशते इति कइ-(कविः) पिंगलो भाषते । अत्र चतुर्मात्रिक-सार्द्धसप्तगणात्मकचरणं चतुर्गुणीकृ(त्वे)त्यर्थः एकश्चरणो विधेयः, एवं चत्वारश्चरणा विधेया इति फलितार्थः ।।
९८. चतुःपादिकामुदाहरति जसु सीसहि इति । जसु सीसहि गंगा-यस्य शीर्षे गंगा शोभितेति शेषः, यश्च गोरि अधंगागौर्यंांग: गौरी अर्धांगे यस्य तादृश इत्यर्थः, गिव पहिरिअ फणिहारा-ग्रीवापरिधृतफणिहारः ग्रीवायां परिधृताः फणिहारा येन तादृश इत्यर्थः, कंठट्ठिअ बीसा-कंठस्थितविषः, पिंधणदीसा-दिपिंघन: दिक् पिंधनमाच्छादनं यस्य स इत्यर्थः, संतारिअ संसारा-संतारितः संसार: येन च, किरणावलिकंदा-किरणावलिकंदः, बंदिअ-वंदितः चंदा-चंद्रः भाले धृत इत्यर्थः, यस्य च णअणहि-नयने तृतीये नेत्रे अणल फुरंता-अनल: स्फुरन्नस्तीति शेषः, सो-सः भबाणीकंता-भवानीकांतः शिवः, तुह्म-युष्मभ्यं संपअ दिज्जउ-संपदं दद्यात्, बहु सुह किज्ज-बहु सुखं कुरुतात् । अत्र एक एव चरण उदाहृतः, एतादृशा अन्ये त्रयश्चरणाः सुधीभिः स्वयमुदाहरणीयाः ।।
९९. अथ घत्तानामकं वृत्तं लक्षयति पिंगल कइ इति । बे वि पाअ-द्वयोरपि पादयोः, तिण्णि तिण्णि लहु-त्री(न् त्रीन्) लघून, अंत धरि-अंते पदांत इति यावत् धरि-धृत्वा, चउमत्त सत्त गण-चतुर्मात्रिकान् सप्त गणान् भण-कथय, एवं बासट्टि मत्तद्विषष्टिर्मात्राः करि-कृत्वा, छंद उकिट्टउ-छंदस्सूत्कृष्टां, पिंगल कइ ट्ठिउ-(पिंगलकवि) दृष्टां, घत्त-घत्तां जानीहीति शेषः । अयमर्थः-घत्ता द्विपदी, तत्र चतुर्मात्रिकसप्तगणानंतरं लघुत्रयं प्रत्येक विधेयमिति ।
१००. अथ घत्तायां यतिनियममाह पढममिति । (पढम)-प्रथम, दह बीसामो-दशसु मात्रासु विश्रामः, बीए-द्वितीये स्थाने अठ्ठाइ मत्ताइ-अष्टसु मात्रासु विश्राम इति पूर्वेणान्वयः, तीए-तृतीये तेरह-त्रयोदशसु मात्रासु, विरई-विरतिः, एवं घत्ता-घत्तायां मत्ताइ बासठ्ठि-मात्राः द्विषष्टिः भवंतीति शेषः । यतिकथ(न)क्रमेणैकत्रिंशन्मात्रा लभ्यंते, ताश्च द्वयोर्दलयोः प्रत्येकं देया इति संभूय द्विषष्टिमात्रिका घत्ता भवतीति भावः ॥
१०१. अथ घत्तामुदाहरति रणदक्खेति । येन रणदक्ख-रणदक्षः संग्रामकुशल इति यावत्, दक्ख-दक्षः, हनु(णु)-हतः, येन च कुसुमधणु-कुसुमधन्वा कंदर्पः जिण्णु-जितः, यश्च अंधअ गंध विणासकरु-अधगंधविनाशकरः, गिरिणाअरि अद्धंग धरुगिरिनागर्यमा॑गधर: गिरिनागरी पार्वती अर्द्धागे धरति यस्तादृश इत्यर्थः, असुरभअंकरु-असुरभयंकरः, स शंकरः रक्खउ-रक्षतु मामिति शेपः ।
१०२. अथ घत्तानंदं लक्षयति सो घत्तह कुलेति । यत्र प्रथमं एआरह-बीसाम-एकादशसु मात्राष्विति शेषः, अग्रेऽपि योजनीयः, बीसाम–विश्रामः, पुणवि-पुनरपि द्वितीये तृतीये च स्थाने इत्यर्थः, सत्त तेरह-सप्तसु मात्रासु त्रयोदशसु मात्रासु च, विरइविरतिर्भवतीति शेषः, (सो-) तत् घत्तहकुलसार(रु)-घत्तानामकं यवृत्तं तज्जाति श्रेष्ठमित्यर्थः, णंदउ णाम-नंदनामकं वृत्तं विद्धि इति शेषः । इति कित्ति अपार-अपार कीर्तिर्नागराजः पिंगलः कहइ-कथयति ।
१०३. अथ घत्तानंदगणनियममाह छक्कलु इति । आइहि-आदौ छक्कलु-षट्कलं गणं, संठबहु-संस्थापयत, ततश्च तिण्णि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org