________________
२९१
परिशिष्ट (३) नागराजः फणीश्वरः शेषः पिंगलः, जंपइ-जल्पति इति, भणिअ-भणितं पूर्वाचार्यैरिति शेषः । इदमत्र तत्वम्-रोलायां चतुर्विंशतिर्मात्राः प्रतिचरणं देया इत्यावश्यकं, तत्र प्रकारद्धयेन संभवति, लघुद्वययुक्तैकादशगुरुदानेन, यथेच्छं गुरुलघुदानेन वा । एवं च पूर्व लक्षणद्वयं कृतमिति बोध्यं, तथाहि पढमेति पूर्वार्द्धनैकं, एग्गाराहा हारा इत्युत्तरार्द्धन च द्वितीयं । तत्र यदि यथाकथंचिच्चतुर्विंशतिर्मात्रा अंतरा अंतरा गुरुयुक्ताः कियंते, तदा रोलावृत्तं भवतीति प्रथमलक्षणार्थः । यदि च लघुद्वययुक्तैकादशगुरुभिश्चतुर्विशतिर्मात्राः क्रियन्ते, तदापि रोलावृत्तं, भवतीति द्वितीयलक्षणार्थः । तत्र पअभर इत्युदाहरणं प्रथमलक्षणाभिप्रायेण, भेदानयनप्रकारश्च द्वितीयलक्षणाभिप्रायेण प्रदर्शितमित्यवधेयम् ।
एवं च यत्रैकादश गुरवः अंते च द्वौ लघू, एवं त्रयोदशाक्षराणि चतुर्विंशतिर्मात्राश्च प्रतिचरणं पतंति सः कुंदः, यत्र दश गुरवः एवं चतुर्दशाक्षराणि चतुर्विंशतिर्मात्राश्च प्रतिचरणं पतंति सः करतलम्, एवं पूर्वभेदापेक्षया उत्तरत्र भेदे एकगुरुन्यूनक्रिया लघुद्वयमेकाक्षरं च वर्द्धते तदा ते ते भेदा ज्ञेयाः, ते लिखित्वा प्रदर्श्यते ।
यद्वा पूर्वोक्तमेकमेव लक्षणं, तत्र च कथमंतरांतरागुरुयोगः कर्त्तव्य इत्यपेक्षायामाह एग्गाराहा हारेति, तथा च द्विलघुयुक्तेकादशगुरुषु एकैकगुरुह्रासेन लघुद्वयवृद्ध्या अंतरांतरा गुरुयोगश्च कर्त्तव्य इति भावः । न चैवं सत्युदाहरणासंगतिरिति वाच्यमव्यवहितपूर्वोक्ते रसिकानामके वृत्ते इवात्रापि भेदकरणात् ।
तथाहि यत्र चरणचतुष्टयपिंडीभूताश्चत्वारिंशद्गुरवः अष्टौ लघवः, यत्र च त्रयश्चत्वारिंशद्गुरवो (दश लघवः), यत्र च द्विचत्वारिंशद्गुरवो द्वादश लघवः, यत्र च एकचत्वारिंशद्गुरवश्चतुर्दश लघवः, एषां चतुर्णा कुंदसंज्ञा । एवं चत्वारिंशद्गुरुषोडशलघुकमारभ्य सप्तत्रिंशद्गुरुद्वाविंशतिलघुकपर्यंतं चतुर्णां करतलसंज्ञा २ । एवं षट्विंशद्गुरुचतुर्विंशतिलघुकमारभ्य त्रयस्त्रिंशद्गुरुत्रिंशल्लघुपर्यंतं चतुर्णा मेघसंज्ञा ३ । एवं द्वात्रिंशद्गुरुद्वात्रिंशल्लघुकमारभ्य एकोनत्रिंशद्गुरु-अष्टत्रिंशल्लघुकपर्यंतं चतुर्णां ताडंकसंज्ञा ४ । एवमष्टाविंशतिगुरुचत्वारिंशल्लघुकमारभ्य पंचविंशतिगुरुषट्चत्वारिंशल्लघुपर्यंतं चतुर्णां कालरुद्रसंज्ञा ५ । एवं चतुर्विंशतिगुरुअष्टचत्वारिंशलघुकमारभ्य एकविंशतिगुरुचतुःपंचाशल्लघुकपर्यंतं चतुर्णा कोकिलसंज्ञा ६ । एवं विंशतिगुरुषट्पंचाशल्लघुकमारभ्य सप्तदशगुरुद्विषष्टिलघुकपर्यंत चतुर्णां कमलसंज्ञा ७ । एवं षोडशगुरुचतुःषष्टिलघुकमारभ्य त्रयोदशगुरुसप्ततिलघुकपर्यंतं चतुर्णां इंदुसंज्ञा ८ । एवं द्वादशगुरुद्विसप्ततिलघुकमारभ्य नवगुरुअष्टसप्ततिलघुकपर्यंत चतुर्णां शम्भुसंज्ञा ९ । एवमष्टगुरुअशीतिलघुकमारभ्य पंचगुरुषडशीतिलघुकपर्यंतं चतुर्णा चामरसंज्ञा १० । एवं चतुर्गुरुअष्टाशीतिलघुकमारभ्य एकगुरुचतुर्णवतिलघुकपर्यंतं चतुर्णा गणेश्वरसंज्ञा ११ । एवं सर्वलघुः सहस्राक्षः १२ । इत्थं च भेदानयनप्रकारः ।
जेहि-येषु एग्गारहगुरु-एकादशगुरुकः द्वौ लघू, एवं-भूतानि जं-यत्र तेरह अक्खर-त्रयोदशाक्षराणि पलइ-पतंति, इत्थं यत्र चरणचतुष्टये द्विपंचाशदक्षराणि स्थापयित्वेति शेषः, अक्षरमक्षरं एकैको गुरुः यावद्गुरुचतुष्टयं हसति तदा कुंदादि तत्तन्नाम कुरु इति व्याख्येयम् । एवं द्वा(एक)विंशतिगुरुयुक्तं पअभरेत्युदाहरणं कोकिलाख्यषष्ठभेदाभिप्रायमिति सर्वं सुस्थमित्यस्मत्तातचरणोपदिष्टः पंथाः सुधीभिर्विभावनीयः ।
कश्चित्तु* * *त्रयोदशगुरु १ ल(?) कालरुद्रः, यथाष्टौ गुरवोऽशीतिर्लघवः स कोकिलः, यत्र सप्त गुरवो व्यशीतिर्लघवस्तत्कमलं, यत्र षड्गुरवश्चतुरशीतिर्लघवः स इंदुः, यत्र पंच गुरवः षडशीतिर्लघवस्तच्चामरं यत्र त्रयो गुरवो नवतिर्लघवः स गणेश्वरः, यत्र गुरुद्वयं (द्वि) नवतिर्लघवः स सहस्राक्षः, यत्रैको गुरुश्चतुर्णवतिर्लघवः स शेषनामा त्रयोदशतमो भेदः, इत्थं भेदानयनस्य ग्रन्थादनुपलब्धेः, यतः प्रतिचरणं लघुद्वययुक्तैकादशगुरुषु चरणचतुष्टयसमुदितचतुश्चत्वारिंशद्गुरुषु वा एकैकगुरुहासेन लघुद्वयवृद्ध्या भेदानयनं ग्रन्थस्वारस्येन प्रतिपत्तेः, न तु त्रयोदशगुरुषु स्वेच्छया । इत्थं यथाकथंचित् षण्णवतिमात्रामवलंब्य भेदकरणे विंशतिर्गुरवः षट्पंचाशल्लघवस्तेषु एकैकगुरुह्रासेन विंशतिर्भेदा आयांति । एवं त्रिशद्गुरवः (रुषु) षट्त्रिंशद्गुरुषु वा एकैकगुरुह्वासेन लघुद्वयवृद्धा भेदानयनं ग्रन्थस्वारस्येन प्रतिपत्तेः न तु त्रयोदशगुरुत्रिंशद्भेदा (१) भवंति । एवं यथाकथंचित्तावन्मात्रामात्रपूरकतावत्तावद्गुरुलघ्वापादनेन यथारुचि तावत्तावद्भेदापत्तेर्दुरित्वात्, त्वदुक्तरीत्याचतुर्दशमभेदापत्तिरपि दुर्वारा, तत्रैको गुरुरावश्यको येन गुरुराहित्येन गाथाया मिवात्राप्यनिष्टमापद्येत उदाहरणासंगतिश्च स्पष्टैवेति विभावनीयं वक्ष्यमाणकाव्यच्छन्दसश्चास्यायमेव भेदः यत्काव्ये लघुद्वयं जगणाद्यंतर्गतं मध्ये पतति, अत्र तु यथेच्छमिति ॥
९४. अथ गंधाननामकं वृत्तं लक्षयति दहसत्त वण्णेति । हे सुअणा-सुजनाः पढमपअ-प्रथमपादे दहसत्त-सप्तदश वण्णवर्णान् भणह-भणत, तह-तथा बीअंमि-द्वितीयेऽपि, जमअजुअचरणा-यमकयुते चरणे, अठारहइ-अष्टादशैव वर्णान्, भणतेति पूर्वेणान्वयः । एरिसिअ बीअ दल कुणहु-एतादृशमेव बीअ दल-द्वितीयं दलम् उत्तरार्द्धमिति. यावत् कुणहु-कुरुत, तृतीयचरणं सप्तदशवर्णयुक्तं चतुर्थं चाष्टादशवर्णयुक्तमिति यावत् । इअ-इदं, पण्डिअजण चित्तहरो-पंडितजनचित्तहरं, गंधाण णाम-गंधाननामकं वृत्तं होइ-भवति इति पिंगलो-पिंगलः भणइ-भणति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org