SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २९० प्राकृतपैंगलम् ८९. अथ नामान्याह लोहंगिणीति । लोहंगिणि-लोहांगिनी, हंसीआ-हंसिका, रेखा, ताडंकिनी, कंपिनी, गंभीरा, काली, कालरुद्राणी इति उक्कच्छाया अष्टौ भेदा इत्यर्थः ॥ ९०. अथ प्रस्तारक्रममाह लोहंगिणीति । सव्वलहु-सर्वलघुः सर्वे षट्पादस्था षट्षष्टयपि वर्णा लघवो यस्यां सा इत्यर्थः, लोहांगिनी भवतीति शेष-जत्थ-यत्र, एक्क-एकः, गुरु-गुरुः, होइ-भवति सा हंसी । एवं यथा यथा वर्द्धते हार: गुरुः, तथा तथा यत्र यत् नाम, तत्र तत् नाम ज्ञेयमित्यर्थः । अयं भावः-यत्र षट्षष्टिर्लघवः सा लोहांगिनी, यत्रैको गुरुश्चतुःषष्टिलघवः सा हंसी, यत्र द्वौ गुरु द्विषष्टिलघवः सा रेखा, एवं पूर्वभेदापेक्षया यथा उत्तरत्र भेदे एको गुरुर्वर्द्धते, लघुद्वयं च य(अ)वहीयते, तथा भेदा बोध्या:, ते च लिखित्वा प्रदर्श्यते ।। अत्र यद्यपि नवमादयोऽप्यन्ये त्रयोविंशतिर्भेदा: संभवति बाधकाभावात्तथापि ते ग्रंथकृता नोक्ताः, वस्तुतस्तु तेऽपि सुधीभिरूहनीयाः तत्र च त्रिंशद्गुरवः षट् लघवो यत्र भवंति सोऽतिमो भेदः, प्रतिच(रण)मेकादशमात्राणामुक्तत्वादेकादशतम एको लघुरवश्यं प्रतिचरणमंतेऽपेक्षित इति बोध्यम् । अत्र क्वचित् जत्थ गुरु चारि होइ सा हंसीति पाठश्च-यत्र गुरुचतुष्टयं भवति सा हंसी, एकगुरुमारभ्य यावत् गुरुचतुष्टयं वर्द्धते तावत्पर्यंत भेदचतुष्टयं हंसीसंज्ञकमित्यर्थः । अत्रायमाशयः । यत्र चरणषट्के षट्षष्टिर्लघवः पतंति सा लोहांगिनी, यत्रैको गुरुश्चतुःषष्टिर्लघव: **** | यत्र च षड् गुरवश्चतुःपंचाशल्लघवः यत्र सप्त गुरवः द्विपंचाशल्लघवः * * * एते चत्वारो भेदा रेखासंज्ञकाः २ । यत्र च नव गुरवः अष्टचत्वारिंशल्लघवः, यत्र दश गुरवः षट्चत्वारिंशल्लघवः, यत्र चैकादश गुरवः चतुश्चत्वारिंशल्लघवः, यत्र च द्वादश गुरवः द्विचत्वारिंशल्लघवः एषां च चतुर्णां ताडंकिनी संज्ञा ३ । यत्र त्रयोदश गुरवः चत्वारिंशल्लघवः, यत्र च चतुर्दश गुरवः अष्टत्रिंशल्लघवः, यत्र च पंचदश गुरवः षट्त्रिंशल्लघवः, यत्र च षोडश गुरवः चतुस्त्रिंशल्लघवः, एषां चतुर्णा कंपिनी संज्ञा ४ । यत्र सप्तदश गुरवः द्वात्रिंशल्लघवः, यत्र चाष्टादशगुरवस्त्रिशल्लघवः, यत्रैकोनविंशतिर्गुरवः अष्टाविंशतिर्लघवः, यत्र विंशतिर्गुरवः षड्विंशतिर्गुरवः (लघवः), एषां चतुर्णां गंभीरा संज्ञा ५ । यत्रैकविंशतिर्गुरवः चतुविंशतिर्लघवः, यत्र द्वाविंशतिर्गुरवो लघवश्च, यत्र त्रयोविंशतिर्गुरवः विंशतिल्लघवः, यत्र च चतुर्विंशतिर्गुरवः अष्टादश लघवः, एषां चतुर्णां काली संज्ञा ६ । यत्र पंचविंशतिर्गुरवः षोडश लघवः, यत्र षड्विंशतिर्गुरवः चतुर्दश लघवः, यत्र सप्तविंशतिर्गुरवः द्वादश लघवः, यत्र षड्विं (अष्टाविंशतिर्गुरवः दश लघवः, एषां चतुर्णा कालरुद्राणी संज्ञा । अत्रैकगुरुवृद्धिमारभ्यागुरुचतुष्टयवृद्धि प्रथमभेदकरणादुत्तरोत्तरभेदानामपि तथैव विधानमुचितमित्यष्टौ भेदा बोध्याः । अत्रैकोनत्रिंशद्गुर्वष्टलघुयुक्त:त्रिंशद्गुरुषड्लघुयुक्तश्चैतद्भेदद्वयम् अन्यदपि संभवति बाधकाभावात्, ग्रन्थकृता तन्नोक्तं, वस्तुतस्तु तदपि बोध्यम् । अथवा एतदपि भेदद्वयं कालरुद्राणी मध्ये पातनीयम्, एवं च कालरुद्राण्यां, षड्भेदा बोध्याः । अथवा यत्र चत्वारो गुरवः अष्टपंचाशल्लघवः सा हंसी, यत्राष्टौ गुरवः पंचाशल्लघवः सा रेखा, यत्र द्वादश गुरवः सा कालरुद्राणी, अत्र प्रथमं गुरुचतुष्टयवर्द्धनादुत्तरत्रापि तस्यैव (व)र्द्धनमुचितमिति लोहांगिनीसहिता अष्टौ भेदा बोध्या इत्यस्मत्तातचरणोपदिष्टः पंथा निर्मत्सरैः सुधीभिर्विभावनीयः ॥ ९१. अथ रोलावृत्तं लक्षयति पढम इति । यत्र पढम-प्रथमे चरणे, इदं च द्वितीयादीनामप्युपलक्षकं, गुरु अंतर जुत्तेअंतरा गुरुयुक्ता मध्ये गुरुसंयुक्ता इत्यर्थः चउबीस मत्त-चतुर्विशतिर्मात्राः, होहिं-भवंति, सेस नाग-शेषनागः, पिंगलोऽभूत, तेन्ह रोला उत्ते-तेन रोला उक्ता, एग्गाराहा हारा-एकादश हारा द्विलघुयुक्ता इति शेषः, त्रयोदशाक्षरगणम(स्या)ग्रे वक्ष्यमाणत्वात्, रोला छंदोरोलाच्छंदसि प्रतिचरणमित्यर्थः, जुज्जइ-युक्ता भवतीत्यर्थः, एक्के एक्के-एकैक: गुरुरिति शेषः, टुट्टइ-त्रुटति हसतीत्यर्थः, अण्णो अण्णो-अन्यः अन्यः लघुरित्यर्थः, बढ्इ-वर्द्धते, तथा चात्र प्रतिचरणमेकादश गुरवो लघुद्वययुक्ताः पतंति, तत्र चैकैकगुरुहासेन लघुद्वयवृद्ध्या द्वादशभेदा भवन्तीत्यर्थः । एतल्लक्षणनिष्कर्षः । यथैतस्योदाहरणे संगतिस्तथानुपदमेव विवेचयिष्यामः ।। ९२. रोलामुदाहरति पअभरेति । यदा गअजूह संजुत्ते-गजयूथसंयुक्तः हमीरवीरः, कोहे चलिअ-क्रोधेन चलितः, तदा धरणि-धरणिः, पअभर दरमरि-पादभरेण दलिता वेगधावद्धस्तिहयपत्तिप्रभृतिसेनासमूहचरणघातेन दलितेत्यर्थः, तरणि रह धुल्लिहि झंपिअ-तरणिरथः धूलिभिः प्रयाणोत्थरेणुभिश्छादितः, कमठपिट्ठ टरपरिअ-क(म)ठपृष्ठमधस्तात् गतं, मेरु मंदर सिर कंपिअमेरुमंदरशिरः कंपितं, मेछहके पुत्ते-म्लेच्छानामपि पुत्रैः, कट्ठ-कष्टं यथा स्यात्तथा, हाकंद-हाक्रंदः, किएउ-कृतः मुछि-मुछितं च । अत्र किएउ इत्येकार: एओ सुद्धा बि इत्युक्तत्वाल्लघुर्बोध्यः, अन्यथा पंचविंशतिमात्रापत्तिः ॥ ९२. अथैतद्भेदानयनप्रकारं तेषां च नामानि रड्डावृत्तेनाह, कुन्द करअलेति । जेहि-येषु, एग्गारह गुरु-एकादश गुरवः, एवंभूतानि तेरह अक्ख(र)-त्रयोदशाक्षराणि । जं-यत्र, पलइ-पतंति, त्रयोदशाक्षरमध्ये एकादश चेत् गुरवस्तदोर्वरितमक्षरद्धयं तल्लघुरूपमित्यर्थाक्षिप्तं, तथाच द्विलघुयुक्ता एकादशगुरवः एवं प्रतिचरणं यत्र त्रयोदशाक्षराणि पतंतीत्यर्थः, तेषु यदि अक्खर अक्खर अक्षरमक्षरमेकैको गुरुरित्यर्थः, जं चलइ-यत्र चलति ह्रसतीत्यर्थः, तदा कुंदं, १, करतलं २, मेघः ३, ताडंकः ४, कालरुद्रः, ५, कोकिलः ६, कमलं ७, इंदुः ८, शंभुः ९, चामरं १०, गणेश्वरः ११, सहस्राक्षः १२, इति, तं तं-तत्तत् नाम, कुणेहि-कुरु इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy