________________
२८९
परिशिष्ट (३)
करभः ७-नर: ८-मरालः ९-मदकलः १०-पयोधरः ११-बल: १२-वानरः १३-त्रिकल: १४-कच्छपः १५-मत्स्यः १६सदूल-शार्दूल: १७-अहीबस्-अहिवरः १८-व्याघ्रः १९-विरालः २०-शुनक: २१-तह-तथा उंदुरः २२-सर्पः २३-इति, यदा गुरु टुट्टइ-गुरुत्रुटति हसतीत्यर्थः, बे लहु-द्वौ बढइ-वर्द्धते, तदा तं तं-तत्तत् भ्रमरादिकं णाम-नाम, बिजाण-विजानीहि पमाण-प्रमाणं निश्चितमित्यर्थ ।
८१. अथैनमेव प्रस्तारप्रकारं दोहावृत्तेन विशदीकरोति छब्बीस इति । बाइत (स)-द्वाविंशतिः, गुरु-गुरवः, चारि-चत्वारः, लहु-लघवः, एवं छव्वीसक्खर-षड्विंशत्यक्षराणि, भमर हो-भ्रमरे भवंति, बे लहु बढइ-द्वौ लघू वर्द्धते, तदा तद्भ्रामरादिकं नाम बिआरि-विचारय जानीहीत्यर्थः अयमर्थः-पूर्वं द्विपथायाः प्रथमचरणे त्रयोदशमात्राणामुक्तत्वाद् तासां च प्रथमं षट्कल पुनश्चतुष्कल: पुनस्त्रिकलः स्थाप्य इति उट्टवनिकाप्रकारस्य वक्तव्यत्वादेकलघुः प्रथमचरणे त्रिकलांतर्गत आवश्यकः, अन्यथा त्रयोदशमात्राणामसंभवापत्तेः, एवं द्वितीयचरणे एकादशमात्राणामुक्तत्वात्तासां च प्रथमं षट्कलस्ततश्चतुष्कलस्तत एककलः स्थाप्य इति उट्टवनिकाप्रकारस्य वक्ष्यमाणत्वात्तत्राप्येको लघुरावश्यकः, एवं तृती(य)चतुर्थयोरप्येकैको लघुरावश्यक इति लघुचतुष्टयं प्रतिभेदमावश्यकमेवं च प्रथमचरणे द्वादशमात्राणां षड्गुरवस्त्रयोदशमात्रात्मकश्चैको लघुरेवं द्वितीयचरणे दशमात्राणां पञ्च गुरव एकादशतममात्राकश्चैको लघुरेवं पूर्वदले एकादश गुरवो द्वौ लघू, एवं त्रयोदशाक्षराणि पतंति, एवं परदलेऽपि इति द्वाविंशतिगुरवश्चत्वारश्च लघवो यत्र पतंति(तत्र)भ्रमरः । अत्र षड्विंशत्यक्षरात्मके भ्रमरे च यद्येको गुरुयूनो भवति पूर्वभेदस्य लघुचतुष्टयेनैकीकृत्य तत्समानमात्रासंख्याकं च लघुद्वयं वर्द्धते, एवमेकविंशतिर्गुरवः षड्लघवः यत्र पतंति, स भ्रामरः । एवं पूर्वभेदापेक्षया उत्तरत्र भेदे एकं गुरुं न्यूनं कृत्वा लघुद्वयमधिकं कृत्वा ते ते भेदा वाच्याः, ते लिखित्वा प्रदर्श्यते ।
८२. अर्थतेषु भेदेषु आद्यं भ्रमरनामकं भेदमुदाहरति जा अद्धङ्ग इति । जा अद्धङ्गे पव्वई-यस्यार्द्धाङ्ग पार्वती, सीसे गंगा जासु-शीर्षे गंगा (यस्य) जो-यो, देवानां वल्लभः, तासु पाअं-तस्य पादौ, बंदे-नमस्करोमि ।
८३. अथ वर्णभेदेन द्विपथाया जातिभेदमाह, (बारह) लहुआ-द्वादशलघुका द्विपथेति शेषः, विप्पी-विप्रा भवतीति शेषः, तह बाईसेहि-तथा द्वाविंशतिभिर्लघुभिरिति शेषोग्रेऽपि योजनीयः खत्तिणी भणिआ-क्षत्रिया भणिता, बत्तीस-द्वात्रिंशद्भिर्लघुभि: वेसीवैश्या होइ-भवति । जा इअरा-या इतरा अनुक्तलघुसंख्याका सा सुद्दिणी होइ-शूद्रा भवति ।
८४. अथ द्विपथाया गणविशेषपुरस्कारेण दोषमाह जस्सेति । जस्सा-यस्याः द्विपथायाः, पढमहि-प्रथमे, पाअ-पादे, तथा तीए-तृतीये, पाए-पादे, ण-ननु, निश्चितं, जगणा-मध्यगुरुका गणाः दीसंति-दृश्यंते, सा चंडालह घर रहिआ-चण्डालगृहस्थिता, दोहा-द्विपथा दोषं पआसेइ-प्रकाशयति । तथा च दोहाप्रथमतृतीयचरणयोजगणो न देय इति भावः ।
८५. अथ द्विपथाया उट्टवनिकामाह चक्कलु इति । आदौ छक्कलु-षट्कलः, ततः चक्कलु-चतुष्कलः, ततश्च त्रिकलः, एमपस्-िअनया परिपाट्या बिसम-विषमे चरणे गण इति शेषः, पलंति-पतंति, सम पाअहि-समे पादे द्वितीये चतुर्थे चेत्यर्थः । अन्ते षट्कलचतुष्कलयोरते इत्यर्थः एक्ककलु-एककलः पततीति शेषः, इमभंति एवं प्रकारेण, दोहा-दोहां, ठेबि-स्थापय । एक्ककलु अत्र एको ह्रस्वः । अयमर्थः-विषमचरणयोस्त्रयोदशमात्राणां सत्वात्प्रथमं षट्कलमात्रास्तत: चतुष्कलस्ततत्रिकल एवं त्रयोदश मात्रा: स्थाप्याः, समचरणयोश्च प्रथमं षट्कलस्ततश्चतुष्कलस्तत एककल एवमेकादश मात्रा: स्थाप्या इति ।।
८६. अत रसिकानामकं वृत्तं लक्षयति । दिअबरगणेति । हे मिअणअणि-मृगनयने, गअगमणि-गजगमने, दिअबरगण धरि जुअल-द्विजवरगणस्य चतुर्लधुयुक्तगणस्य युगले स्थापय, पुणविअ-पुनरपि च द्विजवरयुगलानंतरं चेत्यर्थः, तिअलहु पअल-त्रीन् लघू प्रकटय, इम बिहि-एवं विधिना छउ पअणि-षट्पदेषु प्रत्येकमिति भावः, एअ(ह)दह कल-एकादश कलाः, बिहु-विधेहि विरचयेत्यर्थः, एह(अ) रसिका, जिम-यथा, रअणि-रजन्यां, सुससि–पूर्णश्चंद्रः, तथा सुहइ-शोभते । यत्र एकादशमात्रा एवं षट्चरणानि यस्याः सा रसिकेति फलितार्थः ।
८७. रसिकामुदाहरति बिमुहेति । अचलः कश्चिद्राजा हअगअ बल-हयगजबलानि, परिहरिअ-परिहत्य, रण-रणे विमुखः सन्, चलिअ-चलितः पलायित इत्यर्थः, किंच जस जसु तिहुअण पिअइ-यस्य यशः त्रिभुवनं पिबति सोऽपीति शेषः, मलअणिबइमलयनृपतिः, हलहलिअ-हलहलितः, किंच बरणसि णरबइ-वाराणसीनरपति: दिवोदास इत्यर्थः, लुलिअ-लुलितः पराङ्मुखीभूत इति यावत् । अतः तस्य राज्ञः सकलोपरि यशः स्फुरितम् ॥
८८. अर्थतस्या नामान्तरकथनपूर्वकं भेदानयनप्रकारमाह आईति । उक्कछछ मह-उक्कछछामध्ये उक्कछछापरपर्यायरसिकामध्ये इति यावत्, सारु-सारभूता, लोहंगिणि-लोहांगिनी, आइकव्व-आदिकाव्यं प्रथमभेद: किउ-कृतं । गुरुर्वर्द्धते द्वौ लघू हसतः, तदा तं तं-तत्तद् वक्ष्यमाणं नाम बिआरु-विचारय । अत्र उक्कछछेति रसिकायाः पर्यायः, रसिकात्वं च सर्वभेदावृत्ति । तथा च
लक्ष्मीत्यादिवत् लोहांगिनीत्वादि व्याप्यं, रसिकात्वं गाथात्वमिव व्यापकं बोध्यम् । Jain Education International For Private & Personal Use Only
www.jainelibrary.org