________________
प्राकृतपैंगलम्
२८८ ११-शर: १२-गगनं १३-शरभः १४-विमति: १५-क्षीरं १६-नगरं १७-नर: १८-स्निग्धः १९-स्नेहलः २०-मदकलः २१लोलः २२-शुद्धः २३-सरिः २४-कुम्भः २५-कलश: २६-शशी २७-इति हि शरभशेषशशधराः प्राकृतवयः खंधाण-स्कन्धके, सत्ताइस-सप्तविंशतिः णाम-नामानि, मुणह-जानीत ॥ क्वचित्तु णाम इत्यत्र जाण इति पाठस्तत्र विज्ञेय इत्यर्थस्तदा नामद्वैविध्यं परिहार्यम् । अत्र क्वचिदट्ठाइस खंधाण इत्ति पाठः, स तु लेखकप्रमादाज्जातः, एतदनुरोधेन च मनंद(मदन)स्ताटंक इति नामद्वयं विधाय त्रिगुर्वष्टपंचाशल्लघ्वात्मकमष्टाविंशतिभेदं वदंति, तदपि भ्रमविलसितं, क(त)स्य गाथाभेदत्वादत्रापि षष्ठो जगणो दलद्वये देयः, अन्ते च गुरुरेव स्थाप्य इति एकैको गुरुः (ज)गणस्य एकैकश्चात्य इति मिलित्वा प्रतिभेदं दलद्वये गुरुचतुष्टयमावश्यकम्, एवं च त्रिंशद्गुरवश्चत्वारो लघवश्च यत्र पतंति स आद्यो भेदः, चत्वारो गुरवः षट्पंचाशल्लघवश्च यत्र पतंति स चरमो भेद इति त्रिगुरूणामसंभवात् सप्तविंशतिरेव भेदा न त्वष्टाविंशतिरिति, तांश्च भेदाननुपदमेव स्पष्टीकरिष्यामः । चैतस्य गाथाभेदत्वे उत्तरार्धे षष्ठो गण एकलध्वात्मक एव स्यादिति वाच्यम्, उद्गाथावदत्रापि षष्ठे जगणस्थापने बाधकामावात् । ननु तथापि तद्वदत्रापि षष्ठो गणो नलघ्वात्मक एव स्यादिति पादांतस्थगुरुयुगस्यैवा(व)श्यकत्वं न तु जगणांतर्गतस्येति प्रतिभेदं कथं गुरुचतुष्टयस्यावश्यकत्वमिति चेत्तन्न, द्विगुरुषष्टिलघ्वात्मकैकोनत्रिंशत्तमभेदापत्ते-नलघुदानस्य सर्वथा निषेधात् । अतएव गाथामध्योदितसप्तगणदाननियमादत्र तद्भगेऽपि यथा नापी (पि)विशेषत्वहानिस्तथांतिमगुरुद्वयस्यैवावश्यकत्वं न पादांतस्यस्य, तथा च त्रिगुरुसत्वेऽपि तथाविधगुरुद्वयवत्त्वस्याबाधान्न त्रिगुर्वष्टपञ्चाशल्लध्वात्मके भेदे किंचिद्बाध(क)मस्तीत्यपास्तं द्विगुरुषष्टि(ल)घ्वात्मकभेदापत्तेः उर्वरि(त)त्वात् । किं च गाहिनीसिंहिन्योरुत्तरार्द्धपूर्वार्धयोरिवात्रापि गुर्वन्तसप्तगणनियमभंगेना(ने)यं विशेषत्वहानिर्भवति भवति च दलद्वयांतस्य गुरुद्वयनियमभंगे सर्वत्र उद्गाथादौ दलद्वयांतस्यगुरुद्वयनियमदर्शनात्, एवं चैतस्यावश्यकत्वे त्रिगुर्वष्टपञ्चाशल्लघ्वात्मको भेद: खपुष्पकल्प एवेति, न च तथापि, दलद्वयेपि षष्ठो जगण एव न देयः किन्तु एकत्र जगणः परत्र नलघुः एवं जगणस्थ एको गुरुः पादान्तस्थं गुरुद्वयमिति प्रतिभेदं गुरुत्रयमावश्यकमित्यं च यत्र षड्लघवः एकोनत्रिंशद्गुरवश्च पतंति स आद्यो भेदः, यत्र च त्रयो गुरवोष्टपंचाशल्लघवश्च पतंति सोऽतिमश्चेदिति तथाविधे भेदे न किं(चि)बाधकमस्त्यस्ति च तथाविधम् इति वाच्यम्, चौलहु कत्थबीति विरोधात्, उदाहरणे च दलद्वयेपि जगणस्यैव दर्शनात्, पूर्वं समरूपाश्चतुर्मात्रिका अष्टौ गणा देया इति लक्षणोक्तविरोधश्च, यतः समरूपत्वं तेषां तदैव निर्वहति यदि पूर्वार्द्ध यो गणः षष्ठः उत्तरार्द्धपि स एव स्यादिति, पूर्वोक्तभेदापत्या चैकत्र तदावश्यकत्वे परत्रापि तस्यैवोचितत्वात् दीयतां वा षष्ठे जगणः अपरत्र चतुर्लघुः (लघव) क्रियतां चानेनैव प्रकारेण भेदास्तथापि भवदुक्तरीत्या प्रस्तारक्रियया त्रिगुर्वष्टपंचाशल्लघ्वात्मको भेद: सप्तविंशतितम एवायाति न त्वष्टाविंशतितम इत्यस्मत्तातचरणैरुपदिष्टः पंथास्सुधीभिर्विभावनीयः ।
७६. अथ सप्तविंशतिभेदानदा(य)नप्रकारं दोहावृत्तेनाह । चौ लहु कत्थबीति । सहि-सखि, जहि-यत्र, चउ लहु-चत्वारः लघवः, कत्थबि-कुत्रापि, पसर-प्रसरंति सो णंदउ जाण-तं नंदं जानीहि, यदि गुरु टुट्टइ गुरुस्तुटति हृसतीत्यर्थः, बिबि लहु बढइद्वौ लघू वृद्धि प्राप्नुत इत्यर्थः, तदा तं तं णाम बिआण-तत्तत् भद्रादिकं नाम जानीहि । अयमर्थः-पूर्वोक्तप्रकारेण दलद्वये षष्ठं जगणमेव दत्वा चतुर्मात्रिका अष्टौ गणाः प्रतिदलं विधेयाः, एवं च गाथावदत्रापि प्रथमचरणे द्वादशमात्रा: स्थाप्यास्तासां षड्गुरवः, द्वितीयचरणे पंचचतुर्मात्रिकाणां सत्वात्तेषां विंशतिर्मात्रास्तासां च षष्ठजगणाद्यंतर्गतलघुद्वयं विहाय नवगुरवो भवन्ति, तदेवं प्रथमदले पंचदशगुरवो द्वौ लघू, एवं द्वितीयदलेऽपि, तथाच द्वयोर्दलयोमिलित्वा यत्र त्रिंशद्गुरुः षष्ठजग(ण) द्वयांतर्गताश्चत्वारो लघवः पतंति, स नंदः प्रथमभेदः, यदि च त्रिंशद्गुरुषु एकैकगुरुह्रासेन तत्समानमात्राकं लघुद्वयं वर्द्धते तदा भद्रादयो भेदा भवन्ति, ते च प्रदर्श्यते लिखित्वा ।
७७. अथ नंदाख्यं स्कन्धकभेदमुदाहरति चंदेति । चंदा-चंद्रः, कुंदा-कुन्दः, कासा-कासः, हारा-हारो मुक्तादाम, हीराहीरकं, तिलोअणा-त्रिलोचनः कर्पूरगौर इति यावत्, केलासा-कैलासः पर्वतः इत्यादीनीति शेषः जेत्ता जेत्ता सेत्ता-यावंति (यावंति) श्वेतानि, तेत्ता-तावंति, हे कासीस-काशीपते दिवोदास, ते तव कित्ती-कीर्त्या जिण्णिआ जिजा(ता) नि, एतेभ्योपि त्वदीया कीतिरतिधवलेति भावः ।
७८. अथ द्विपथां लक्षयति तेरहेति । पढमपादे, तेरह मत्ता-त्रयोदश मात्राः, देह-देहि, इदं च क्रियापदं सर्वत्रान्वेति, पुनः द्वितीयचरणे इत्यर्थः, तेरह-त्रयोदश मात्रा देहीति पूर्वेणान्वयः, चतुर्थचरणे इति शेषः एआरह-एकादश मात्रा देहीति तैनैवान्वयः, एहएतद् दोहा लक्खण-द्विपथालक्षणम् ॥
७९. द्विपथामुदाहरति सुरअरु इति । सुरतरुः कल्पवृक्ष इत्यर्थः, सुरही-सुरभिः कामधेनुरित्यर्त्तः, परसमणि-स्पर्शमणिः, एते इति शेषः वीरेस समाण-वीरेशसदृशा नहि । तत्र हेतुमाह ओ वक्कल इति । ओ-सः सुरतरुरित्यर्थः वक्कल ओ कठिणतणुवल्कलः वल्कलमय इति यावत् अथ च कठिनतनुः ओ पसु-सा सुरभिः पशुः विवेकरहिता । ओ पासाण–स स्पर्शमणिः पाषाण: जड इति भावः, वीरेश्वरस्तु मृदुचितः विवेकी महाबुद्धिरिति तेभ्यो विलक्षण इति भावः ।।
८०. अथैतद्भेदान् रड्डावृत्तेनाह भमरु इतिः-भ्रमरः १-भ्रामरः २-शरभः ३-सरबाण-श्येनः ४-मंडूकः ५-मर्कट: ६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org