________________
२८७
परिशिष्ट (३) ६६. अथ विगाथां लक्षयति विग्गाहेति । बिग्गाहा पढम दले-बिगाथाप्रथमदले पूर्वार्द्ध इति यावत्, सत्ताईसाई मत्ताईसप्तविंशतिर्मात्राः भवंतीति शेषः, पच्छिमदले-पश्चिमदले उत्तरार्द्ध इत्यर्थः, ण-ननु निश्चयेनेत्यर्थः, तीसा-त्रिशन्मात्रा भवंतीति पूर्वेणान्वयः, इअ-एवं पिंगलेन नागेन जंपिअ-जल्पितम् । अयं भावः । पूर्वे विपरीतगाथा विगाथा भवतीत्युक्ते, तथा च गाथा(या) उत्तरार्द्धम् एव पूर्वार्द्धम् अग्रे देयमित्युक्तं भवति, अतएव पूर्वार्द्ध सप्तविंशतिर्मात्रा उत्तरार्द्ध त्रिंशन्मात्रा उक्ताः एवं चात्रापि पूर्वार्द्ध षष्ठो गण एकलघ्वात्मको देय उत्तरार्द्ध च षष्ठो गणो जगणो नलघ्वात्मको वा देयः, विषमे च जगणो न देय एवेति सुधीभिर्बोध्यम् ।
६७. विगाथामुदाहरति परिहरेति । णीबस्य-नीपस्य कदम्बस्य कुसुमानि पेक्खहि-प्रेक्षस्व । किं तावतेत्यत आह तुज्झ कए इति । खरहिअओ-कठिनहृदयो निर्दय इति यावत् कामो-कामः, धणुहि-धनुषि गुडिआ गुटिकां, यद्वागुडिआधणूहि इत्येकं पदं, तस्य वटिकाधनुः गुटिकायुक्तां (क्तं) धनुरित्यर्थः । गुलेल इति लोके; गेण्हइ-गृह्णाति, अतो मानं परिहरेत्यर्थः ।
६८. उद्गाथां लक्षयति पुव्बद्ध इति । यत्र पु (व्ब) द्धे उत्तर्द्ध-पूर्वार्द्ध मत्ता तिसत्ति-मात्राः त्रिंशत् संभणिआ-संभणिताः, हे तु (सु) भग शिष्य । सो-तत् पिंगल कइ दिच(ट)-पिंगलकविना दृष्टं, सट्टि मत्तंगो-षष्टिमात्रांगं षष्टिमात्रात्मकशरीरमित्यर्थः, उग्गाहो वुत्तो-गुग्दा (उद्गा) थावृत्तम् । गाथापूर्वार्द्धदलद्वयेऽपि देयमिति भावः ।
६९. उद्गाथामुदाहरति सोऊणेति । हे सुमुहि-सुमुखि । जस्स णामं यस्य नाम सोऊण-श्रुत्वा अंसू-कर्तृभूतानि णअणाईनयने कर्मणी रुंधेइ-रुंधति, अतस्तस्य चेइपइणो-चेदिपते: मुहं-मुखं जहिच्छं-यथेच्छं कहं-कथं, पेख्खामि-पश्यामि इति त्वं भणकथय ।
७० अथ गाहिनी सिंहिनी लक्षयति पुव्व इति । मुद्धिणि-हे मुग्धे यत्र पुव्बद्धे तीस मत्ता-पूर्वार्द्ध त्रिंशन्मात्रा भवतीति शेषः, उत्तद्धे बत्तीसा-उत्तरार्द्ध द्वात्रिंशन्मात्रा भवंतीति पूर्वेणा(न्व)यः स गाहिणि-गाहिणी (नी)ति पिंगल पभणेइ-पिंगलः प्रभणति त्वं मुणेहि-जानीहि, अत्र तामिति शेषः । तथा च तां गाहिनी बिबरीअ-परावर्त्य विपरीतां कृत्वेति यावद् सिंहिणी-सिंहिनी सत्यं निस्संशयं भण-कथय । अयं भावः, पूर्व सामान्यतो गाहिन्यां द्विषष्टिमात्रा ऊक्तास्तत्र पूर्वार्द्ध कियत्य उत्तरार्द्ध कियत्य इति शिष्यजिज्ञासायां पूर्वं पूर्वार्द्ध त्रिंशन्मात्रा उत्तरार्द्ध द्वात्रिंशन्मात्रा इत्युक्तमेवं च पूर्वार्द्ध गाथाया इवास्या अपि कर्तव्या उत्तरार्द्ध द्वात्रिंशन्मात्रया उक्तत्वातत्र षष्ठं जगणं कृत्वा चतुर्मात्रिका अष्टौ गणा वक्ष्यमाणस्कंधकवत्कर्त्तव्या इति गाहिनीव्यवस्था। सिंहिन्यां च षष्ठं जगणं दत्वाष्टौ चतुर्मात्रिका गणाः पूर्वार्द्ध देया उत्तरार्द्ध च गाथाप्रथमदलवद्विधेयमिति निर्णय इति सुधीभिध्येयम् ।
७१. तत्र गाहिनीमुदाहरति मुंचहीति । हे सुंदरि पाअं-पादं मुंचहि-सुंच हे सुमुखि हसिऊण-हसित्वा मे-मह्यं मम वा खग्गं-खड्गं अप्पहि-अफेय, मेच्छसरीरं-म्लेच्छशरीरं, कप्पिअ-कर्त्तयित्वा हम्मीरो-हम्मीरः तुह-तव वअणाइ-वदनं पेक्खइ-प्रेक्षते । युद्धार्थं संनद्धस्य हम्मीरस्य खड्गानयनार्थमागतवतः प्रतिरोधं कुर्वाणां कांतां प्रत्येतद्वाक्यम्, एवं च म्लेच्छान्निर्जित्य मया अक्षतेनैव झटित्यागत्य भवत्या दर्शनं विधेयम्, म्लेच्छतो वंदीभीतिर्मम वा संग्रामे मरणशंका न विधेयेति भावः ।।
७२. अथ सिंहिनीमुदाहरति बरिसईति । णीसंक-निश्शंक: जग्गंतो-जाग्रत् महाजागरूक इत्यर्थः, साहसंको-साहसांको विक्रमादित्यः, कण (अ) ह बिट्ठि-कनकस्य वृष्टिं बरिसइ-वर्षति, अथच दिआणिअं-अहोरात्रं, भुवने जगति तप्पइ-तपति, अत: इदं-इंद्रं च सूरबिंबं-सूयबिंबं च, णिदइ-निंदति । इंद्रो जलं वर्षति महातापसेभ्यः साशंकश्च, सूर्यश्च दिवैव तपत्यजागरूकश्च, अयं तु कनकं वर्षति निश्शंकश्च, सर्वदा च तपति जागरूकश्चेति तौ निंदतीति भावः ।
७३. अथ स्कंधकं लक्षयति चौमत्तेति । पुव्बद्धे उत्तद्धे बि-पूर्वाद्धे उत्तराद्धेऽपि, समरुआ-समरूपाः समं षष्ठजगणं तद्रूपं येषां तादृशा इत्यर्थः । यत्तु समं षष्ठजगणनलघ्वन्यतरत्कमिति तन्न, अत्र नलघुदानासंभवात् । इदं चानुपदमेव व्यक्तीभविष्यति । चौमत्ता अट्ठ गणा-चतुर्मात्रिका अष्टौ गणाः होंति-भवंति, तत् बहुसंभेआ-बहुसंभेदकं बहवो वक्ष्यमाणाः सप्तविंशतिविधभेदा यस्य तत्तादृशं खंधहा (आ)-स्कंधकं बिआणहु-बिजानीत इति पिंगल पभणेइ-पिंगलः प्रभणति, मुद्धि-हे मुग्धे । अत्र उत्तद्ध इति तकार: संयुक्तपरोऽपि लघुर्बोध्यः, कत्थबि संजुत्तपरो इत्युक्तेः अन्यथात्र षष्ठे पंचमात्रापत्या जगणासंभवाल्लक्षणं न संगच्छते, एतत्तत्वं पुनर्भेदप्रकारावसरेऽनुपदमेव विवेचयिष्यामः ।
७४. स्कंधकमुदाहरति जं जमिति । हणुआ-हनुमान्, रबिरहचक्कपरिधसाणसहं-रविरथचक्रपरिघर्षणसहं जं जं-यं यं गिरिपर्वतं, आणेइ-आनयति, तं तं णलो-नलः वामकरस्थंभिअं-वामकरोत्तंभितं, लीलाइ-लीलया अनायासेन, समुद्दे-समुद्रे, रएइरचयति ।।
७५. अथ पुरः सप्तविंशतिभेदानयनप्रकारं विवक्षुः रड्डावृत्तेन प्रथमं तावन्नामानि संख्यां चाह । नंद इति । नंद: १-भद्रः २-शेषः ३-सरंग-सारंगः ४-शिवः ५-ब्रह्मा ६-वारणः ७-वरुणः ८–णीलइ-नीलः ९-मणणतलंक-मदनताडंक: १०-शेखरः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org