________________
प्राकृतपैंगलम्
२८६ ५८. अथानुपदमेव वक्ष्यमाणेषु प्रथमं भेदं लक्ष्मीनामकं लक्षयति सत्ताइसेति । जस्सम्मि-यस्यां, सल्ला-श्लाघ्याः सत्ताइसा हारा:-सप्तविंशतिर्दीर्घा: गुरव इत्यर्थः, तिण्णि रेहाई-तिस्रो रेखा लघवश्चेत्यर्थः, पतंतीति शेषः, सा गाहाणं-गाथानां मध्ये, आआ, आद्या प्रथमेति यावत्, तीसक्खरात्रिंशदक्षरा, लच्छी-लक्ष्मी, गाहा-गाथा, सा लक्ष्मीनाम्नी गाथेत्यर्थः । अयमर्थः-पूर्वं गाथायाः प्रथमचरणे द्वादशमात्रादानमुक्तं, तासां च षड्गुरवो भवंति, द्वितीयचरणे अष्टादशमात्रादानमुक्तं, तत्र षष्ठस्थानपतितजगणाद्यंतस्थलघुद्वयवर्जनात्तासामष्टौ गुरवो भवंतीति पूर्वार्द्ध चतुर्दश गुरवः, एवं तृतीयेऽपि चरणे द्वादशमात्रादानस्योक्तत्वात्तासां षड्गुरवः चतुर्थे च पंचदशमात्रा दानस्योक्तत्वात्तत्र षष्ठस्थानपतितैकलघ्वात्मकगणवर्जनात्तासां सप्त गुरवः, इति उत्तरार्द्ध त्रयोदश गुरवः, एवं पूर्वार्दोत्तरार्द्धयोस्संकलने सप्तविंशतिर्गुरवः पूर्वार्द्धजगणाद्यंतस्थौ द्वौ लघू, उत्तरार्द्धं च षष्ठस्थैकलघुरेवं त्रयो लघवश्चेति त्रिंशदक्षराणि यत्र पतंति सा लक्ष्मीनाम्नो गाथेत्यर्थः ।
५९. अथ लक्ष्मीनाम्नी गाथां स्तौति तीसेति । विख्खाआ-विख्याता, हासइ-हसति, वंक-वक्र, गुरुरित्यर्थः । एकैकस्य गुरोर्हासेन लघुद्वयवृद्धिर्बोद्धव्या, अन्यथा (सप्त)पंचाशन्मात्राणां नैयत्यं न स्यात् । तासां करोति नामानि एकैकगुरोह्रासे लघुद्वय(यु)क्तस्य च वृद्धौ ये भेदास्तेषां नामानि करोतीत्यर्थः ।
६०, ६१. लच्छीति । क्रमानुरोधात्पुनरुपात्तं । खमआ-क्षमा, देही-देवी, राई-रात्रिः, चुण्णा-चूर्णा, महामारी । मनोरमा विश्वासिता । शोभा । तेन षड्विंशतिनामानि, भेदानामपि तावन्मात्रत्वात् । तथाहि, सप्तविंशतिरेव गाहायां गुरवो न त्वधिकाः, तत्रांतिमौ नियतौ एवं चावशिष्टपञ्चविंशतिगुरुणां भिद्यमानानां पञ्चविंशति भेदाः, एकश्चसर्वगुरुक इति षड्विंशतिरेव भेदाः । एतेन पादांत्यस्य मात्रापूरणनिर्वाहाय गुरुत्वापादनेऽपि वस्तुगत्या लघुत्वादष्टाविंशतिर्भेदाः इत्यनुसंधाय मानिनी रमा विश्वा वसितेति अष्टाविंशतिनामानि वदन्तः परास्ताः ।
अथ प्रथमो भेदो जगणमेवावलंब्य ततो द्वितीयादयश्चतुर्विशतिर्भेदाः षष्ठे जगणनलध्वात्मकगणान्यतरदानमवलंब्य बोध्याः, अंतस्तु षष्ठे नलघुभेदावलंब्येति हृदयम् । यत्तु माणी रामेती नामद्वयं विधाय एकगुरुपञ्चपंचाशल्लघ्वात्मक: सप्तविंशतितमो भेदः कैश्चित्स्वीकृतस्तदनवधानात् । तथाहि यदि षष्ठे जगणो दीयते तदा जगणमध्यस्थ एको गुरुद्दलद्वयांतस्य च गुरुद्वयमावश्यकमिति एको गुरुर्न संभवत्येव. यदि च षष्ठे नलघ्वात्मकगणो दीयते तदापि दलद्वयांतस्थगुरुद्वयस्यावश्यकत्वादेको गुरुर्न संभवत्येवेति । षड्विंशतिरेव भेदा न सप्तविंशतिरिति सुधीभिविभावनीयम् । यदपि माणी रामेती एकं नाम विधाय गाहिनीति नाम लेखकप्रमादात्पतितमिति, लक्ष्म्याद्यास्त्रिगुर्व(क)पंचाशल्लघ्वात्मकांत्याः पञ्चविंशतिरेव भेदा नाम न च तु षड्विंशतिमिति, तदप्यनवधाननिबन्धनं यतः षष्ठ नलघुगुरूपगणदानेनात्ये चावश्यकगुरुद्वयदानेन निराबाधं सम्भवतो द्विगुरुत्रिपञ्चाशल्लघ्वात्मकस्य षड्विंशतितमस्य भेदस्य त्यागो नौचित्यमावहतीत्यलमितिविस्तरेणेत्यस्मत्तातचरणोपदिष्टः पंथा: सुधीभिविभावनीयः ।।
६२. अथ गाथापठनप्रकारमाह पढममिति । अत्र चीश(ब्द)स्त्वर्थः, तथाच पढमं ची-प्रथमं तु, गाहा–गाथा, (हंसप)हंसपदं, जाआ-यथा मंथरमित्यर्थः, तथा मंथर इति शेषः सर्वत्र योज्यः, बीए-द्वितीये चरणे, सिंहस्य बिक्कम-सिंहस्य विक्रमो यथा, तीए-तृतीये चरणे, गअबरलुलिअं-गजवरलुलिअं-गजेन्द्रगमनमित्यर्थः यथा, चउत्थए-चतुर्थे चरणे, अहिलुलिअं-अहिलुलितं सर्पगतिविशेष इति यावत् यथा ।
६३. अथ समस्थानेऽपि जगणदाने गाथायां गुणदोषावाह-एक्के जे इति । एक्के जे कुलबंती-एकस्मिन् जगणे सति कुलवती होइ-भवति गाथेति शेषः । यथोक्तषष्ठस्थानस्थजगणमात्रेण समीचीना गाथा भवतीति, तदतिरिक्तो जगणः समस्थानेऽपि न कर्त्तव्य इति भावः । वे णाअक्केण-द्विनायकाभ्यां द्वाभ्यां जगणाभ्यामिति यावत्, संगहणी-संगृहिणी भवतीति पूर्वेणान्वयः, द्वाभ्यां नायकाभ्यां परस्परं गृहीता कामिनी न सतां संमता तथेयमपीति, जगणद्वयमत्र न देयमी(मि)ति भावः । णाअकहीना(णा) रंडा-नायकेन जगणेन हीना रहिता, षष्ठे स्थाने नलघुयुक्तेत्यर्थः रंडेव रंडेत्यर्थः, तथा च यथा नायकेन हीना कामिनी न शोभते तथेयमपीति, बहुधा षष्ठो जगण एव देय इति भावः । वहुणाअक्का(का)-बहुनायका बहवो नायका जगणा यस्याः सा तादृशीत्यर्थः, वेश्या होइ-भवति । तथा च यथा वेश्या सतामनादरणीया तथेयं, बहवो जगणा न देया इति भावः ।
६४. अथ वर्णभेदेन गाथाया जातिभेदमाह तेरहेति । तेरह लहुआत्रयोदशलघुकाक्षराख्या गाथेत्यर्थः सर्वत्र योज्यं, बिप्पीविप्रा भवतीति शेषः, एआइसेहि-एकचत्वारिंशद्भिरेकविंशद्भिर्वेत्यर्थः लघुभिरिति शेषः खत्तिणी-क्षत्रिया भणिता । सत्ताईसेसप्तविंशतिभिलघुभिर्बेसी-वैश्या भणितेति पूर्वेणान्वयः, सेसा-शेषा, अनुक्तलघुसंख्याका सुद्दिणी होइ-शूद्रा भवतीत्यर्थः ।
६५. अथ विषमस्थानस्थजगणदोषमाह, जा इति । जा पढम तीअ पंचम सत्तम ठाणे-या प्रथमे तृतीये पंचमे सप्तमे च स्थाने, ण-ननु निश्चयेनेति यावत्, गुरुमज्झा-गुरुमध्यो जगणस्तद्युक्तेति यावत्, होइ-भवति, सा गाहा-गाथा गुणरहिता, गुब्बिणिएगुविणीव दोषं प्रकाशयति । तथाच विषमे गाथायां जगणो न देय इति भावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org