________________
परिशिष्ट (३)
५०. अयैकाक्षरमारभ्य षड्विंशत्यक्षरपर्यंतसमस्तवर्णवृत्तपिंडीभूतसंख्यामाह छब्बीसेति । षड्विंशतिः सप्तशतानि तथा सप्तदशसहस्राणि द्विचत्वारिंशल्लक्षाणि त्रयोदशकोट्यः, एवं समग्राणि एकाक्षरादिषड्विंशत्यक्षरपर्यन्तानीत्यर्थः वर्णवृत्तानि भवन्तीति शेषः । मात्रावृत्तानामसंख्यातत्वात्तत्संख्या नोक्ता, वर्णवृत्तानां प्रत्येकसंख्या ग्रंथविस्तरभयादनतिप्रयोजनत्वाच्चास्माभिरत्र नोक्ता । ५१. अथ पुरस्ताद्वक्ष्यमाणानां गाहूप्रभृतिसप्तमात्राच्छन्दसां सामान्यतश्चरणचतुष्टयसमुचितां संख्यां रड्डावृत्तेनोद्दिशति, होइ गाहू इति । गाहूनामके छंदसीत्यर्थः मत्त चौअण- मात्राश्चतुः पंचाशत्, होइ-भवंति, तह गाहाइ सत्तावणइ - तथा गाथायां सप्तपंचाशत् मात्रा: भवतीति पूर्वानुषंगः, तेहि - तां गाथां पल्लट्टि - परावर्त्य, गाथायाः पूर्वार्द्धम् उत्तरार्द्धं कृत्वा उत्तरार्द्धं (च पूर्वार्द्ध) कृत्वेत्यर्थः, विग्गाहविगाथा, कंज्जिअइ-क्रियते । अत्र तेहि इत्येकारो ह्रस्वो बोध्यः एओ सुद्धा अ बण्ण मिलिआ बि लहू इत्युक्तत्वात् । उग्गाहउ— उद्गाथा छट्टिकला षष्टिकला षष्टिः कला मात्रा यस्याः सेत्यर्थः, गाहिणिअ - गाहिन्यां, बासट्ठि - द्विषष्टि, मत्तह- मात्रा: करु-कुरु, तह वि पलट्टि - तद्विपरीतायां तस्यां गाहिन्याः विपरीतायामित्यर्थः सिंहिणी- सिंहिन्यां, बे अग्गल-द्वयधिका, सट्ठि - षष्टिः मात्रा इत्यनुषंगः, होइ - भवन्ति, अत्र हो इत्योकारः पूर्वोक्तदिशा ह्रस्वो बोध्यः । अत्र क्वचित् तह गाहाइ सत्रा (त्ता) बणी इति, तह विग्गाह पलट्टि किज्जइ इति च पाठः, स रड्डालक्षणविरुद्धत्वादुपेक्ष्यः । खंध - स्कंधके, मत्त चौ (चउ) सट्ठि - मात्राः चतुः पष्टिर्भवंतीत्यनुषंग: । एतानि सत्तरूअ - सप्तरूपकाणि छन्दांसि, अण्णोष्णगुण- अन्योन्यगुणानि, अन्योन्यं गुणाः षष्ठजगणनलघ्वेकलघुपादांतगुर्वादयो येषां तादृशानीत्यर्थः, भवन्तीत्यनुषंगः, इति योजना |
२८५
५२. अथ गाहूप्रभृतिसप्तच्छंदः सु सामान्यतो मात्रा उद्दिश्य विशेषस्तानि लिलक्षयिषुः प्रथमं गाहूं लक्षयति पुव्वद्धे इति । यत्र पुव्वद्धे उत्तद्धे पूर्वाद्धे उत्तरार्द्धे, पअमज्झे-पादयोर्मध्ये पूर्वाद्धे प्रथमद्वितीयपादयोर्मध्ये, उत्तरार्द्धे तृतीयचतुर्थयोः पादयोर्मध्ये इत्यर्थः । सत्तग्गल - सप्ताधिकाः, मत्त बीसाईं - मात्रा: विंशतिः, सप्तविंशतिर्मात्रा इत्यर्थः पततीति शेष: छठ्ठमगणः - षष्ठो गणः, मेरुव्ब जुअलाईमेरो युगलं, मेरुर्लघुस्थयुगलमित्यर्थः । पूर्वार्द्ध उत्तरार्द्धे च प्रत्येकं गुर्वन्ताः सप्तगणाः स्थाप्यास्तत्र षष्ठस्थाने एको लघ्वात्मको गणः . स्थाप्यः, अन्यत्र चतुर्मात्रिक इत्यर्थः एवं च षण्णां चतुर्मात्रिकगणानां चतुर्विंशतिर्मात्रा एका च मात्रा षष्ठस्थानस्थलघोर्मात्राद्वयं चांतस्थगुरोरेवमत्र सप्तविंशतिमात्राः पूर्वार्द्ध उत्तरार्द्धे च प्रत्येकं पतंति तद्गाहूनामकं छंद इति निर्गलितार्थः ।
५३. गाहूमुदाहति, चंदो इति । चंद्र: चंदनं हारो मुक्तादाम, एते तावत् रूपं स्वकांति प्रकाशयंति । चंडेश्वरवरकीर्त्तिः जावयावत्, अप्पं- आत्मानं स्वं न (ण) णिअंसेइ-न निदर्शति प्रकटयति ।
५४. अथ गाथां लक्षयति पढममिति । अत्र पढमं - प्रथममाद्यचरणं इत्यर्थः बारह मत्ता- द्वादशमात्रा: पतंतीति शेषः, या चबीए द्वितीये चरणे इत्यर्थः, अट्ठारहहिं - अष्टादशभिः मात्राभिरिति शेषः, संजुत्ता-संयुक्ता । यस्याश्च जह पढमं तह तीअं-यथा प्रथमस्तथा तृतीयः चरण इति शेषः, द्वादशमात्रायुक्त इत्यर्थः या च चतुर्थे चरणे इति शेषः दहपंचबिहूसिआ - पंचदशभिर्मात्राभिरिति शेष: विभूषिता सा गाहा गाथानामकं छंद इत्यर्थः ।
५५. गाथामुदाहरति जेणेति । येन (जेण) विणा ण जिविज्जइ-येन विना न जीव्यते सः कआवराहोवि - कृतापराधोपि, अणुणिज्जइ-अनुनीयते । एनमेवार्थमर्थांतरन्यासेन द्रढयति पत्ते वीति । पत्ते वि-प्राप्तेऽपि णअरडाहे-नगरदाहे, अग्गी - अग्निः, कस्स ण बल्लहो - कस्य न वल्लभ इति भण-वद, अपि तु सर्वस्यापि वल्लभ इत्यर्थः । मानवर्ती कांचिन्नायिकां प्रति सखीवाक्यमेतत् । अयं च वक्ष्यमाणभेदेषु चूर्णानामको दशमो भेद इति बोध्यम् ।
५६. अथ गाथायां मात्रानियममुक्त्वा गणनियममाह सत्तेति । गाहे-गाथायां, सत्तगणा दीहंता-सप्तगणा: दीर्घाताः दीर्घो गुरुस्तदंताः भवंति । अत्र विशेषपरोपि दीर्घशब्दः सामान्यगुरुपरो ज्ञेयः एवं च पूर्वार्द्ध उत्तरार्धे च गुर्व्वताश्चतुर्मात्रिकाः सप्तगणाः कर्त्तव्या इत्यर्थः, इह इत्यग्रेतनस्यानुकर्षः, इह गाथायां छठ्ठ-षष्ठः गणः, जो ण लहु-जो जगणः गुरुमध्यः, नलघु लघुयुक्तो नगणो वा भवति, कर्तव्येषु गुर्व्वतसप्तगणेषु षष्ठो जगणश्चतुष्कलः (१) नगणो वा देय इत्यर्थः । णेह जो विसमे-इह गाथायां विषमे (प्रथमे ) तृतीये पंचमे सप्तमे च स्थान इत्यर्थः यो (जो ) जगणो गुरुमध्यो न पततीत्यर्थः तह - तथा, बिअ अर्द्ध-द्वितीयार्द्धे छटुं लहुअं बिआणेहु-षष्ठं गणं लघुकम् एकलघुरयं विजानीत, एवं च पूर्वं नलघुजगणयोरन्यतरदानं पूर्वार्द्धाभिप्रायेणेति प्रतीयते, तथा च मध्यलघु (गुरुः) गण: लघुसंयुक्तो नगणस्त्रिलघ्वात्मको वा लगणः पूर्वाद्धे षष्ठे विधेयः, उत्तरार्द्धे च एकलघ्वात्मक एव षष्ठो गणो विधेय इति भावः ।
५७. अथ गाथायां वर्त्तमानषड्विंशतिविधायां समुदितमात्रानियममाह, सव्बाए इति । पुव्वद्धम्मि अ तीसा - पूर्वाद्धे त्रिंशत् परार्द्धे उत्तरार्द्धे इत्यर्थः सत्ताईसा - सप्तविंशतिः । एवं प्रकरेण सव्वाए गाहाए - सर्वस्यां गाथायां सत्तावण्णाइ- सप्तपंचाशत् मत्ताईमात्रा: होंति भवंतीत्यर्थः । पूर्वार्द्धे षष्ठे चतुर्मात्रिकस्य जगणस्य लघुयुक्तनगणस्य वा दानात्रिंशन्मात्रा: पतंति, उत्तरार्द्धे च षष्ठस्थाने एकलघ्वात्मकस्यैव गणस्य दानात्तदपेक्षाया मात्रात्रयं न्यूनं भवंतीति सप्तविंशतिमात्रा: पतंतीत्यर्थः ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org