________________
२८४
प्राकृतपैंगलम् कोष्ठचतुष्टयस्थांकचतुष्टययोजननि:पन्नैकविंशतितमांकेन च समस्ता पिंडीभूता एकविंशतिरूपा सप्तकलमेरुपंक्तिः । एवमग्रेऽपि मेरुकल्पना यथेच्छं विधेया । अस्माभिस्तु ग्रन्थविस्तरभयात्प्रयोजनाभावाच्च न लिखिता ।
४७-४८. अथ मात्रापताकानिर्माणप्रकारमाह, उद्दिट्ठा सरि अंका इति । उद्दिठ्ठा सरि अंका-अत्र उद्दिष्टपदस्योद्दिष्टांकपरत्वादुद्दिष्टांकसदृशानंकानेकद्वित्रिपंचाष्टत्रयोदशादिरूपानित्यर्थः थप्पह-क्रमेणोत्तरोत्तरं स्थापयत तान् इति शेषः । वामाबत्तेवामावर्तेन प्रतिलोमविधिना सर्वांतिमांकाव्यवहितपूर्वांकमारभ्येति यावत् । लेइ-गृहीत्वा, पर-परस्मिन्, सर्वांतिमांके, लुप्पह-लोपयत न्यूनतां नयत सर्वांतिमेंऽके तदव्यवहितपूर्वांकमारभ्य पूर्वपूर्वांकाः क्रमेण लोप्याः, तत्र एक्कलोपे-एकलोपे, अत्र एकपदस्यैकांकपरत्वादेकांकलोपे इत्यर्थः, एक्क गुरु जाणहु-एकगुरुं जानीत । दुत्तिणिलोपे-द्विवाणामंकानां लोपे, दुत्तिणि-द्विवान् गुरून् जाणहु-जानीत । एकैकपूर्वांकलोपे येऽका अवशिष्यंते ते एकगुरुयुक्तभेदज्ञापकाः, पूर्वांकद्वयलोपे येऽका अवशिष्यते ते गुरुत्रययुक्तभेदज्ञापकाः, पूर्वांकत्रयलोपे येवशिष्यते गुरुत्रययुक्तभेदज्ञापका इति निर्गलितार्थः । एवं प्रकारेण पिंगल णाग-पिंगलो नागः मत्त पताका-मात्रापताकां गाबइ-गायति कथयतीत्यर्थः । जो पावइ-यः प्राप्नोति गुरुपदेशाज्जानाति, सो परहि बुझावह-स परं बोधयति इति योजना । अत्र (?) एकत्वसंख्याविशिष्टो द्वित्वसंख्याविशिष्टो च पूर्वाङ्कः प्रथमं सर्वान्तिमांके लुप्यते तदव्यवहितपूर्वाङ्कमारभ्यतेऽवशिष्टांकाः क्रमेणाधोधः स्थाप्या इति, यदंकद्वयलोपे अन्योऽवशिष्यते पूर्वप्राप्तो वांऽक: प्राप्यते तदंकद्वयलोपो न कार्य इति नियमत्रयं गुरुपदेशादध्यवसेयम् ।
अथ षट्कलपताकास्वरू(प)लिखनप्रकारतो वामदक्षिणयोरंगुलपंचकपरिमाणमूर्वाध ऋजुरेखाद्वयमढ्गुलमधिकं वा मध्यदेशेऽतरं विसृज्य कर्तव्यं, ततो ऋजुरेखया तत्पार्श्वमेलनं विधेयमेवमेकं दीर्घ कोष्ठं विधाय तत्रैकांगुलपरिमितमंतरं त्यक्त्वोद्धरखामारभ्याधोरेखापर्यन्तं पंच ऋजुरेखाः क्रमेण दत्वा कोष्ठषट्कमुत्तरोत्तरं परस्परसंश्लिष्टं विधेयं, तत्रोद्दिष्टांकसदृशा एकद्वित्रिपंचाष्टत्रयोदशेति षडंकाः क्रमेण स्थाप्याः । ततो द्वितीयांककोष्ठादधोआंगुलमितानि परस्परसंश्लिष्टानि पंच कोष्ठकानि कार्याणि, ततः पंचमांककोष्ठादधोऽधस्तादृशमेव कोष्ठचतुष्टयं कार्य, ततः सर्वान्तिमत्रयोदशांकमध्ये तदब्य(व)हिताष्टांकलोपे उर्वरितं पंचमांकं तत्र चतुर्थकोष्ठे विन्यस्तमेवास्तीति तदन्यत्र लेख्यमिति संप्रदायः । ततः सर्वान्तिमत्रयोदशांकमध्ये क्रमप्राप्तपञ्चमांकलोपे उर्वरितमष्टमांकं पञ्चमांकवो(को)ष्ठादधस्तनकोष्ठे स्थाप्यं, ततस्तत्र क्रमप्राप्ततृतीयांकलोपे उर्वरितं दशमांकमष्टमांककोष्ठादधस्तनकोष्ठे स्थाप्यं, ततस्तत्र क्रमप्राप्तद्वितीयांकलोपे उर्वरितमेकादशांक दशमांककोष्ठदधस्तनकोष्ठे स्थाप्यं, ततस्तत्र क्रमप्राप्तैकांकलोपे उर्वरितं द्वादशांकमेकादशांककोष्ठादधस्तनकोष्ठे स्थाप्यं, सेयमेकांकलोपनि:पन्नपञ्चकोष्ठात्मिका षट्कलमेरुपंक्तितृतीयकोष्ठस्थपञ्चमांकनिर्धारितैकगुरुयुक्तत्वस्वरूपपञ्चस्वसंख्याकानां षट्कलगणभेदानां पञ्चमाष्टमदशमैकादशद्वादशेतिप्रातिस्विकरूपज्ञापिका षट्कलपताकापंक्तिः। ततो द्वयंकलोपेऽष्टमपञ्चमांकयोस्त्रयोदशांकमध्ये लोप: शून्यशेषत्वान्न कार्य इति, सर्वान्तिमत्रयोदशांकमध्ये अष्टमतृतीयेत्यंकद्वयलोपे उर्वरितं द्वितीयमंकं तद्वितीयकोष्ठेऽस्त्येव ततस्त्रयोदशमध्ये अष्टमद्वितीयेत्यंकद्वयलोपे उर्वरितं तृतीयांकं द्वितीयांककोष्ठादधस्तनकोष्ठे स्थाप्यं ततस्त्रयोदशमध्ये अष्टमैकेत्यंकद्वयलोपे उर्वरितं चतुर्थमकं तृतीयांककोष्ठादधस्तनकोष्ठे स्थाप्यं, ततस्त्रयोदशमध्ये पञ्चमतृतीयेत्यंकद्वयलोपे प्रथमप्राप्तः पञ्चमांकोऽवशिष्यते इति पञ्चमतृतीयांकयोर्लोपे त्यक्त्वा पञ्चमद्वितीययोर्लोपे अवशिष्टः षष्ठांकश्चतुर्थांककोष्ठादधस्तनकोष्ठे स्थाप्यः, ततस्तत्र पञ्चमैकेत्यंकद्वयलोपे अवशिष्टः सप्तमोऽक: षष्ठांककोष्ठादधस्तनकोष्ठे स्थाप्यः, ततस्तत्र पञ्चमैकेत्यंकलोपे अवशिष्टः सप्तमोऽकः षष्ठांककोष्ठादधस्तनकोष्ठे स्थाप्यः, ततस्तत्र तृतीयद्वितीयेत्यंकद्वयलोपे अवशिष्टोऽष्टमोऽक: प्रथमप्राप्तोवशिष्यते इति तयोस्तत्र लोपं त्यक्त्वा तृतीयैकत्यंकद्वयलोपे अवशिष्टो नवमोंऽक: सप्तमांककोष्ठादधस्तनकोष्ठे स्थाप्यः, सेयमंकद्वयलोपनि:पन्ना षट्कलमेरुपंक्तिद्वितीयकोष्ठस्थषष्ठांकनिर्धा(रि)ताद्विगुरुयुक्तत्वस्वरूपषट्संख्याकानां षट्कलभेदानां द्वितीयतृतीय च(तुर्थषष्ठसप्तमनवमेतिप्रातिस्विकरूपज्ञापिका षट्कोष्ठात्मिका षट्कलपताकापंक्तिः । एवं तत्र प्रथमतृतीयाष्टेत्यंकत्रयलोपे उर्वरित एकोऽकः, स च षट्कलमेरुप्रथमकोष्ठस्थैकांकनिर्धारितत्रिगुरयुक्तत्वस्वरूपैकत्वसंख्याकस्य षट्कलभेदस्य त्रिगुरुयुक्तो भेदः प्रथम इति प्रातिस्विकरूपज्ञापक: प्रकोष्ठेऽस्त्येवेति सर्व्वमनवद्यम् ।
४९. अथैतावत्संख्याककलाविशिष्टैतावत्संख्याकाक्षरचरणे वृत्ते कति गुरवः कति लघव इति कौतुकात्केनचित्पृष्टे उत्तरप्रकारमाह, पुछलेति । पुछल छंद कला पृष्टच्छंद:कलायाम्, अत्र कलापदस्य कलासंख्यापरत्वात्पृ(ष्ट)च्छन्दःकलासंख्यायामित्यर्थः । यस्य गुरुलघुजिज्ञासा तत्पृष्टं छंदस्तस्य या मात्रासंख्या तन्मध्ये इत्यर्थः । पुछल (अंक) छंद-पृष्टं छंदः, अत्रापि छंद:पदस्य छंदोऽक्षरसंख्यापरत्वात्पृष्टछंदोऽक्षरसंख्यामित्यर्थः । मेटाव-हीनां कुरु । एवं करि-(एवं) कृत्वा एवं कृते सतीत्यर्थः । अवसिट्ठउअवशिष्टा संख्येति शेषः, कलासंख्या मध्योर्वरिता संख्येत्यर्थः, गुरु जाणिअहु-गुरोर्ज्ञातव्या, उताव-उर्वरिता गुरुसंख्यातिरिक्ता वृत्ताक्षरसंख्येति यावत् । लघु जाणिअ-लघोर्ज्ञातव्या । यथा अष्टादशकलाविशिष्टैकादशाक्षरचरणे वृत्ते गुरवो लघवश्चेति पृष्टे, अष्टादशरूपकलासंख्यामध्य एकादशरूपाक्षरसंख्यालोपे उर्वरिता सप्तसंख्या, सा गुरुसंख्या ज्ञेया । एकादशाक्षरमध्ये यदि सप्त गुरुवस्तदोर्वरिता चतुष्टयसंख्या, लघोर्ज्ञातव्या, एवं चैतादृशचरणे वृत्ते सप्त गुरुश्चत्वारो लघव इत्युत्तरं देयमिदं च वृत्तमिंद्रवज्राख्यमेवमन्यत्राप्यूह्यम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org