________________
२८३
परिशिष्ट (३) समादित्यध्याहृत्य योज्यम्, एवं च समात्प्रथमे पूर्ववर्तिनि विषम इति, स एवार्थः, यतः समात्पूर्ववर्ती विषम एवेति, सऊ-समेषु द्वितीयचतुर्थषष्ठाष्टमादिषु कोष्ठेषु, बेबि मिलंत-द्वौ मिलितौ पूर्वांकाविति शेषः, स्थापयेत्यनुषंगः । आद्या ये विषमाः कोष्ठास्तेष्वेकांको देयः, ये समास्तेषु पूर्ववर्यंकद्वययोजननि:पन्नों को देय इत्यर्थः । ततः उबरल कोट्ठ-उर्वरितानि आयंतांतरालस्थितानि कोष्ठकानीत्यर्थः । सिर अंके तसु सिर पर अंके-शिरोंका: तच्छिरउपर्यंकाभ्यां, णीसंक (के)-नि:शंकं यथा स्यात् पूरह-पूरय, एवं अंक संचारिअंकान् संचार्य संस्थाप्य, जण दुइ चास्-िजना द्विचत्वारः, मत्ता मेरु–मात्रामेरं जाणह-(बुझ्झहु) बुध्यध्वम् इति योजना ।
अथैतन्निर्माणप्रकारो लिख्यते । एककलप्रस्ताराभावात् द्विकलमारभ्य मेरुप्रवृत्तिः । एवं च प्रथमं वामदक्षिणयो रेखांगुलमात्रदीर्घ मध्ये रेखाभूतमूर्वमधश्च व्यंगुलमात्रमंतरं विसृज्योधिो रेखात्रयं कार्य, ततस्तत्पार्श्वद्वयमेलनम् ऋजुरेखया कार्यम्, एवं दीर्घकोष्ठद्वयं विधाय तत्र प्रथमरेखामध्यदेशमारभ्याधस्तनतृतीयरेखामध्यदेशपर्यंतम् एकाम् ऋजुरेखां दत्वा प्रथमस्थाने ऊर्वाध:स्थित्या परस्परसंसक्तं कोष्ठकवचः चतुष्टयं कार्य, तत्रांतिमकोष्ठयोः प्रत्येकमको देयः, आद्ये उपरितने प्रथमे च विषमत्वादेको देयः, तदधस्तने च द्वितीयत्वात् समे उपरितनकोष्ठद्वयस्थैकांकद्वयरूपपूर्वांकद्वययोजननिःपन्नद्वितीयांकन पूरणं विधेयम् । एवं चोपरितनकोष्ठद्वयं द्विकलमेरुपंक्तिः, तत्र प्रथमकोष्ठस्थैकांकेन द्विकलस्यैक गुरुरूप एको भेद इति, द्वितीयकोष्ठस्थैकांकेन च द्विलघुरेको भेद इति प्रतीयते । कोष्ठद्वय स्थैकांकद्वययोजननिःपन्न द्वितीयांकेन च द्विकलस्य भेदद्वयमिति द्विकलगणभेदपिंडीभूता समस्ता द्वित्वसंख्या प्रतीयते । एवमधस्तनकोष्ठद्वयं त्रिमात्रमेरुपंक्तिः, तत्र प्रथमकोष्ठस्थद्वितीयांकेन त्रिकलप्रस्तारे एकगुरुयुक्तं भेदद्वयं, द्वितीयकोष्ठस्थैकांकेन च त्रिलघुयुक्त एको भेद इति प्रतीयते । कोष्ठद्वयस्थद्वितीयैकेत्यंकद्वययोजननिःपन्नतृतीयांकेन च त्रिकलस्य समस्तास्त्रयो भेदा इति पिंडीभूता समस्ता त्रित्वरूपा त्रिकलगणभेदसंख्या प्रतीयते । ततोऽधस्तनी तृतीयां रेखामाद्यंतपार्श्वयोर्मनाग्वर्द्धयित्वाऽधोऽध एकैकमंगुलमंतरं विसृज्य तत्परिमाणं रेखाद्वयं कार्यम्, ऋजुरेखया तत्पार्श्वद्वयमेलनं च कार्यम् । एवं त्रिकलमेरुपंक्तिसंसृष्टं तदधःस्थं दीर्घ कोष्ठद्वयं कार्य, तत्रोपरितनत्रिकलमेरुपंक्ति प्रथमकोष्ठाधोरेखामध्यदेशमारभ्याधस्तनांतिमरेखापर्यंतम् एका ऋजुरेखा कार्या, एवं तत्पंक्तिद्वितीयकोष्ठाधोरेखामध्यदेशमारभ्याधस्तनांतिमरेखापर्यंतमेका ऋजुरेखा कार्या, एवं द्वितीयस्थमेरूद्धर्वापेक्षया अध:स्थित्या परस्परसंसक्तं कोष्टषट्कं कार्य, तत्रोपरितनकोष्ठमयात्मिका सर्वापेक्षया तृतीया चतु:कलमेरुपंक्तिः, तत्र सर्वापेक्षया तृतीयस्वाद्विषमे प्रथमकोष्ठे सर्वातिमे च तृतीये एकोऽको देयः, द्वितीये च शिरोंऽकतच्छिरोंकद्वितीयैकेत्यंकद्वययोजननिःपन्न तृतीयांकेन पूरणं विधेयम्, एतदधस्तनी च कोष्ठत्रयात्मिका चतुर्थी पंचकलमेरुपंक्तिः, तत्र प्रथमकोष्ठे सर्वापेक्षया चतुर्थत्वात्समे एकद्वयेतिपूर्वांकद्वययोजननिःपन्नतृतीयैकेत्यंकद्वययोजननि:पन्नचतुर्थांकन पूरणं कार्यम् । तदग्रिमे च तृतीयकोष्ठे साँतिमे एकोऽको देयः, तत्रोपरितनकोष्ठरूपात्मकचतु:कलमेरुपंक्तिप्रथमकोष्ठस्थैकांकेन चतुःकलप्रस्तारे द्विगुरुरेको भेद इति प्रतीयते । तदग्रिमद्वितीयकोष्ठस्थतृतीयांकेन तत्र प्रस्तारे एकगुरुयुक्तं भेदत्रयमिति प्रतीयते । अंतिमतृतीयकोष्ठस्थैकांकेन च तत्र प्रस्तारे त्रिचतुः लघुयुक्त एको भेद इति प्रतीयते । एकतृतीयैकेतिकोष्ठत्रयस्थसमस्तांकयोजननि:पन्नपंचमाकेन त्रिचतु:कलस्य पंच भेदा इति समस्ता पिंडीभूता प्रस्तारसंख्या प्रतीयते । एवमेतदधस्तनकोष्ठत्रयात्मकपंचकलप्रस्तारे द्विगुरुयुक्तं भेदत्रयमिति प्रतीयते । तदग्रिमद्वितीयकोष्ठस्थचतुर्थांकन च तत्र प्रस्तारे एकगुरुयुक्तं भेदचतुष्टयमिति प्रतीयते । तदग्रिमतृतीयकोष्ठत्रयस्थत्रिचतुरेकेत्यंकत्रययोजननिःपन्नाष्टमांकेन च पंचकलस्याष्टौ भेदा इति समस्ता पिंडीभूताष्टत्वरूपा पंचकलप्रस्तारसंख्या प्रतीयते ।
एवं पूर्वमेतत्कोष्ठद्वयादधस्ताद्दीर्घ कोष्ठद्वयं निर्माय उपरितनपंचकलमेरुपंक्तिप्रथमकोष्ठाधोरेखामध्यदेशमारभ्याधस्तनद्वितीयकोष्ठाधोरेखापर्यंतमृजुरेखा देया, तत उपरितनद्वितीयकोष्ठाधोरेखामध्यदेशमारभ्याधस्तनकोष्ठाधोरेखापर्यंतमृजुरेखा देया, तत उपरितनतृतीयकोष्ठाधोरेखामध्य(देश)मारभ्याधस्तनकोष्ठाधोरेखापर्यंतमजुरेखा देया, एवं तृतीयस्थाने उदधि:स्थित्या परस्परसंसक्तं कोष्ठाष्टकं कार्य, तत्रोपरितनं कोष्ठचतुष्टयं षट्कलमेरुपंक्तिः । तत्र प्रथमकोष्ठे सर्वापेक्षया पंचमत्वाद्विषमसाँतिमे चतुर्थे च एकोऽको देयः । द्वितीयकोष्ठे न शिरोंकतच्छिरोंऽकतृतीयांकद्वययोजननि:पन्नषष्ठांकेन पूरणं कार्यम् । तदग्रिमे च तृतीयकोष्ठे शिरोंकतच्छिरोंकचतुर्थकत्यंकद्वययोजननि:पन्नपंचमांकन पूरणं विधेयम् । सर्वांतिमे च चतुर्थे कोष्ठे एकांकेन पूरणं विधेयम् । एवं चात्र प्रथमकोष्ठस्थैकांकेन षट्कलप्रस्तारे त्रिगुरुयुक्त एको भेद इति प्रतीयते । तदग्रिमद्वितीयकोष्ठस्थषष्ठांकेन च तत्र प्रस्तारे द्विगुरुयुक्ताः षड्भेदा इति प्रतीयते । तदग्रिमतृतीयकोष्ठस्थपंचमांकेन च तत्र प्रस्तारे एकगुरुयुक्ताः पंच भेदा इति प्रतीयते । तदग्रिमचतुर्थकोष्ठस्थैकांकेन च षड्लघुयुक्त एको भेद इति प्रतीयते । कोष्ठचतुष्टयस्थांकचतुष्टययोजननिःपन्नत्रयोदशांकेन च समस्ता पिंडीभूता षट्कलप्रस्तारे संख्या त्रयोदशरूपा प्रतीयते । तत्र प्रथमकोष्ठे च सर्वापेक्षया षष्ठत्वात्समे एकतृतीयेतिपूर्वांकद्वययोजननि:पन्नचतुर्थांकेन पूरणं कार्यम् । तदग्रिमे द्वितीयकोष्ठे शिरोंकतच्छिरोंकषष्ठचतुर्थेत्यंकद्वययोजननिःपन्नदशमांकन पूरणं कार्यम् । तदग्रिमतृतीयकोष्ठे च शिरोंऽकतच्छिरोंऽकपंचमैकेत्यंकद्वययोजननि:पन्नषष्ठांकेन पूरणं कार्यम् । अधस्तनं कोष्ठचतुष्टयं च सप्तकलचतुर्थांकेन सप्तकलप्रस्तारे त्रिगुरुयुक्तं भेदचतुष्टयमिति प्रतीयते । तदग्रिमद्वितीयकोष्ठस्थदशमांकेन च तत्र प्रस्तारे द्विगुरुयुक्ता दश भेदा इति प्रतीयते । तदग्रिमतृतीयकोष्ठस्थषष्ठांकेन च तत्र प्रस्तारे एकगुरुयुक्ताः षड्भेदा इति प्रतीयते । तदग्रिमचतुर्थकोष्ठस्थैकांकेन च तत्र प्रस्तारे सप्तलघुयुक्त एको भेद इति प्रतीयते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org