________________
२८२
प्राकृतपैंगलम् परितेज्जसु-परित्यज । यस्य पूर्वांकस्य यत्परांकयोजने पूर्वप्राप्तोऽको निष्पद्यते तस्य तत्र योजनं न कार्यमिति द्वितीयो नियम इत्यर्थः । एवं प्रकारेण वर्णानामिति शेषः, पताका किज्जसु-पताकां कुरु इति योजना ।
___ अत्र यः पूर्वांक: यत्र परांके प्रथमं योज्यते तद्योजननिःपन्ना अंकाः तत्परांकादधोऽधः स्थाप्या इति नियमो गुरूपदेशादवधारणीयः । पूर्वांकस्य सर्वपरांकयोजने येऽका नि:पद्यंते तैः कोष्ठपंक्तिर्बोध्या ।
अथैतदनुसारेण चतुर्वर्णपताकालिखनप्रकार उच्यते । चतुर्वर्णपताकायामादौ एकं कोष्ठं कर्तव्यं, तत ऊर्वाधः कोष्ठचतुष्टयं कल्पनीयं, तत ऊर्वाधः कोष्ठषट्कं, ततः ऊधि : कोष्ठचतुष्टयं, ततएक: कोष्ठः । एवं परस्परसंश्लिष्टरेखं कोष्ठस्थानपंचकं विधाय, यत्रोपरितनप्रथमद्वितीयतृतीयचतुर्थपंचमकोष्ठेषु एकद्विचतुरष्टषोडशेति पंचांका यथाक्रमं स्थाप्याः, तत्र प्रथमकोष्ठस्थानमेकांकयुक्तमिति सर्वापेक्षया पूर्व एकोऽकः, स च उत्तरवर्तिषु द्वितीयचतुर्थाष्टमांकेषु योज्यमानः प्रथमं द्वितीयांके योज्यते इति तद्योजननिःपन्ना अंका द्वितीयांकादधोधः स्थाप्या इति एकांकद्वितीयांकयोजननि:पन्नस्तृतीयांको द्वितीयांकादधः स्थाप्या, तत एकांकचतुर्थांकयोजननिःपन्न: पंचमांकस्तृतीयांकादधः स्थाप्यः, ततः एकाष्टमांकयोजननि:पन्नो नवमोऽक: पंचमांकादधः स्थाप्यस्तत एकांकस्य षोडशांकयोजने सप्तदशोऽकः प्रस्तारसंख्यातोऽधिकसंख्याको नि:पद्यते इति तस्य तत्र योजनं न कार्यमेवं प्रथमांकस्य द्वितीयचतुर्थाष्टमांकेषु योजनं कृत्वा नि:पन्नद्वितीयतृतीयपंचमनवमैश्चतुर्भिरंकै द्वितीयस्थानकोष्ठपंक्ति: कल्पनीया । एतत्कोष्ठपंक्तिस्था द्वितीयादयश्चत्वारोऽप्यंकाश्चतुर्थाष्टमांकपूर्ववर्तित इति क्रमेण तयोर्योज्यमानाः प्रथमं चतुर्थांके योज्यंते तत्ततद्योजननिःपन्ना अंकाश्चतुर्थांकादधोऽधः स्थाप्या इति, द्वितीयचतुर्थांकयोजननिःपन्न सप्तमोऽक: षष्ठांकादधः स्थाप्यः, ततः पंचमचतुर्थयोजने नवमांकः प्रथमप्राप्तो नि:पद्यते इति तस्य तत्र योजनं न कार्यमिति, पंचमाष्टमांकयोजननिःपन्नस्त्रयोदशांक: सप्तमांकादधः स्थाप्यः, एवं द्वितीयादिचतुर्णामकानां चतुर्थांके योजनं कृत्वा द्वितीयाष्टमांकयोजननि:पन्नो दशमांकस्त्रयोदशांकादधः स्थाप्यस्ततः तृतीयाष्टमयोजननि:पन्न एकादशांको दशमांकादधः स्थाप्यः, ततः पंचमाष्टमयोजननि:पन्नत्रयोदशांक: प्रथमप्राप्तो नि:पद्यते इति तयोर्योजनं न कार्य, नवमाष्टमयोजननिःपन्नः सप्तदशो नवमषोडशयोजननिःपन्न: पंचविंशतितमश्चांकः प्रस्तारसंख्यातोऽधिकसंख्याको नि:पद्यते इति तद्योजनं न कार्यम् । एवं द्वितीयाद्यंकानां चतुर्थाष्टमांकयोर्योजनं कृत्वा चतुर्थषष्ठसप्तमत्रयोदशदशमैकादशेति षडंकैः तृतीयस्थानकोष्ठपंक्तिः कल्पनीया, ततश्चतुर्थादयः षडंकाअष्टमांकपूर्व (व) तिन इति तेषां तत्र योजने चतुर्थाष्टमयोजननिःपन्नो द्वादशांकोष्टमांकादधः स्थाप्यस्ततः षष्ठोष्टमांकयोजननि: पन्नश्चतुर्दशोऽको द्वादशांकादधः स्थाप्यस्ततः सप्तमाष्टमयोजननि:पन्नपंचदशोऽकश्चतुर्दशांकादधः स्थाप्यस्ततस्त्रयोदशदशैकादशांकानामष्टमांकयोजने, अष्टमादीनां च षोडशंकयोजने प्रस्तारसंख्यातोऽधिकसंख्याका अंका नि:पाते अतस्तेषां तत्र योजनं न कार्यमेवं चतुर्थाष्टमांकयोर्योजनं कृत्वाष्टमद्वादशचतुर्दशपंचदशेति चतुभिरकैश्चतुर्थस्थानकोष्ठपंक्ति: कल्पनीया। पंचमस्थानकोष्ठकं षोडशांकयुक्तं कल्पनीयम् । एवं चतुर्वर्णवृत्तपताकायां कोष्ठस्थानपंचकं कल्पनीयं, तत्स्वरूपं लिखित्वा प्रदर्श्यते । एवं च चतुर्वर्णमेरुपंक्तिवर्ति-प्रथमकोष्ठस्थैकांकनिर्धारितचतुर्गुरुयुक्तत्वरूपैकत्वसंख्याकस्य भेदः प्रथम इति प्रातिस्विकं रूपं पताकाप्रथम कोष्ठस्थैकांकेन निर्धार्यते चतुर्गुरुयुक्त एको भेदः प्रथम इति । एवं चतुर्वर्णमेरुपंक्तिवतिद्वितीयकोष्ठस्यचतुर्थांकनिर्धारितैकलघुत्रिगुरुयुक्तत्वस्वरूपचतुष्ट्वसंख्याकानां भेदानां द्वितीयतृतीयपंचमनवमेति प्रातिस्विकं रूपं चतुर्वर्णपताकाद्वितीयस्थानकोष्ठपंक्तिवर्तिभिश्चतुर्भिरंकैर्निर्धार्यते एकलघुत्रिगुरुयुक्ताश्चत्वारो भेदा द्वितीयतृतीयपंचमनवमरूपा इति । एवं चतुर्वर्ण मेरुपंक्ति वर्तितृतीयकोष्ठस्यषष्ठांक निर्धारितद्विगुरुद्विलघुयुक्त त्वस्वरूपषट्संख्याकानां भेदानां चतुर्थषष्ठांकनिर्धारितद्विगुरुद्विलघुयुक्तत्वस्वरूपषट्संख्याकानां भेदानां चतुर्थषष्ठसप्तमत्रयोदशदशमैकादशेति प्रातिस्विकं रूपं पताकातृतीयस्थानकोष्ठपंक्तिवर्तिभिः षड्भिरंकैर्निर्धार्यते द्विगुरुद्विलघुयुक्ताः षड्भेदाः चतुर्थषष्ठसप्तमत्रयोदशदशमैकादशरूपा इति । एवं चतुर्वर्णमेरुपंक्तिवत्ति-चतुर्थकोष्ठस्यचतुर्थांकनिर्धारितैकगुरुत्रिलघुयुक्तत्वस्वरूपचतुष्ट्वसंख्याकानां भेदानामष्टमद्वादशचतुर्दशपंचदशेति प्रातिस्विकं रूपं पताकाचतुर्थस्थानकोष्ठपंक्तिवर्तिभिश्चतुभिरंकैरवधार्यते एकलघुत्रिगुरुयुक्ताश्चत्वारो भेदा अष्टमद्वादशचतुर्दशपंचदशरूपा इति । एवं चतुर्वर्णमेरुपंक्तिवर्तिपंचमकोष्ठस्थैकांकनिर्धारितचतुर्लघुयुक्तत्वस्वरूपैकत्वसंख्याकस्य भेदस्य षोडश इति प्रातिस्विकं रूपं पताकापंचमकोष्ठस्थषोडशांकेन निर्धार्यते चतुर्लघुरेको भेदः षोडशेति । एवमन्यत्रापि पताका बोध्याः । ग्रंथविस्तरभयान्न लिख्यते ।
४५-४६. अथ मात्रामेरुप्रकारमाह दुइ दुइ कोटेति । दुइ दुइ-द्वयोर्द्वयोः कलयोरिति शेषः, कोट्ठा-कोष्ठकानि, सरि-सदृशानि समसंख्याकानीति यावत्, लिहहु-लिखत । एककलप्रस्ताराभावात् द्विकलमारभ्य मेरूत्पत्तिः, एवं च द्वितीयतृतीयेति द्वयोः कलयोः प्रत्यैकं कोष्ठद्वयम् ऊर्वाधः स्थित्या परस्परसंश्लिष्टं, चतुर्थपंचमेति द्वयोः कलयोः प्रत्येक कोष्ठत्रयमूद्धर्वाधः स्थित्या परस्परसंश्लिष्टं, षष्टसप्तमेति द्वयोः कलयोरूद्धर्वाध:स्थित्या परस्परसंसक्तं प्रत्येकं कोष्ठचतुष्टयमित्यादिरीत्या द्वयोर्द्वयो कलयोः समसंख्याकान्यूद्धर्वाध:स्थित्या परस्परसंसक्तानि कोष्ठकानि उत्तरोत्तरं वद्धितानि गुरूपदेशात् कल्पनीयानीति निर्गलितार्थः । अत्र कोष्ठसादृश्यं समसंख्याकत्वमेव । तसु-तेषु कोष्ठेषु, अंत-अंतिमे कोष्ठे इत्यर्थः, पढम अंक-प्रथमोऽक: स्थाप्य इति शेषः, तसु आइहि-तेष्वाद्येषु कोष्ठेषु मध्ये (पुनः) विषमे प्रथमतृतीयपंचमसप्तमादिकोष्ठेषु, एक्क-एक: अंकः स्थाप्य इत्यनुषंग: । क्वचिद्विषमे इत्यस्य स्थाने पढम इति पाठः, तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org