________________
२८१
परिशिष्ट (३)
व्यक्षरस्यैकगुर्वंकलघुयुक्तौ द्वौ भेदाविति निर्धारितैकत्वसंख्याकगुरुलघुयुक्तद्व्यक्षरभेदनिष्ठद्वित्वरूपसंख्या प्रतीयते। ततस्तृतीयकोष्ठस्थैकांकेन व्यक्षरस्य द्विलघुरेको भेद इति निर्धारितद्वित्वरूपसंख्या प्रतीयते । ततस्तृतीयकोष्ठस्थैकांकेन व्यक्षरस्य द्विलघुरेको भेद इति निर्धारितद्वित्वसंख्याकलघुयुक्तद्व्यक्षरभेदनिष्ठैकत्वरूपसंख्या प्रतीयते । कोष्ठत्रयस्थलसमस्तांकयोजननिःपन्नचतुर्थांकेन च चतुष्ट्वरूपा समस्तभेदसंख्या निश्चीयते, सेयं कोष्ठत्र्यययुक्ता व्यक्षरमेरुपङ्क्तिद्वितीया ॥
एवमेतत्पंक्त्यधोरेखां पार्श्वयोर्मनाग्वर्द्धयित्वैकांगुलमात्रमध्यदेशं त्यक्त्वोपरितनरेखासमानाधस्तरेखा कार्या, पार्श्वयोश्च ऋजुरेखया मेलनं कार्यमेवमेकं दीर्घ कोष्ठं निर्माय तत्र उपरितनप्रथमकोष्ठाधोरेखामध्यमारभ्याधोरेखापर्यंतमेका ऋजुरेखा देया, एवं कोष्ठचतुष्टयं संपाद्य तत्राद्यंतकोष्ठयोः प्रत्येकमेकैकों को देयस्तदंतरालस्य द्वितीयकोष्ठस्य च तच्छिर:स्थैकद्वितीयेत्यंकद्वययोजननि:पन्नतृतीयांकेन पूरणं कार्य, तृतीयकोष्ठस्य च तच्छिर:स्थैकद्वितीयैकत्यंकद्वययोजननिःपन्नतृतीयांकेन पूरणं कार्य, तत्र प्रथमकोष्ठस्थैकांकेन त्र्यक्षरस्य त्रिगुरुरेको भेद इति निर्धारितत्रित्वसंख्याकगुरुयुक्तत्र्यक्षरवृत्तभेदनिष्ठैकत्वरूपसंख्या प्रतीयते । द्वितीयकोष्ठस्थतृतीयांकेन च त्र्यक्षरस्य द्विगुर्वेकलघुयुक्तं भेदत्रयमिति निर्धारितद्वित्वैकत्वसंख्याक गुरुलघुयुक्त त्र्यक्षरभेदनिष्ठत्रित्वगुरुरूपसंख्या निश्चीयते । एवं तृतीयकोष्ठस्थतृतीयांकेन(त्र्य)क्षरस्थैकगुरुद्विलघुयुक्तं भेदत्रयमिति निर्धारितैकत्वद्वित्वसंख्याकगुरुलघुयुक्तत्र्यक्षरभेदनिष्ठक(त्रित्व)रूपसंख्या निश्चीयते। एवं चतुर्थकोष्ठस्थैकांकेन त्र्यक्षरस्यत्रि लघुयुक्त एको भेद इति निर्धारितत्रित्वसंस्थाकलघुयुक्तत्र्यक्षरभेदनिष्ठैकत्वरूपसंख्या प्रतीयते । कोष्ठचतुष्टयस्थसर्वांकयोजननिष्पन्नाष्टमांकेन च त्र्यक्षरस्याष्टौ भेदा इति समस्ता व्यक्षरवृत्तभेदसंख्या निश्चीयते, सेयं तृतीया कोष्ठचतुष्टययुक्ता तृतीयाक्षरमेरुपंक्तिः ।
एवं पूर्वोक्तरीत्यैकं दीर्घ कोष्ठं निर्माय तत्र कोष्ठपंचकं विधाय प्रथमांत्ययोः कोष्ठयोरेकैको देयः, अंतरालस्थस्य द्वितीयकोष्ठस्य शिरःस्थैकतृतीयेत्यंकद्वययोजननिःपन्नचतुर्थांकेन पूरणं विधेयं, तृतीये कोष्ठस्य च शिरःस्थतृतीयांकद्वययोजन(न)नि:पन्नषष्ठांकेन पूरणं विधेयं, चतुर्थकोष्ठस्य च शिरस्थतृतीयैकेत्यंकद्वययोजननिपन्नषष्ठांकेन पूरणं विधेयं, तत्र प्रथमकोष्ठस्थैकांकेन चतुरक्ष(र)वृत्तस्य चतुर्गुरुरेको भेद इति निर्धारितचतुष्ट्वसंख्याकगुरुयुक्तचतुरक्षरवृत्तभेदनिष्ठैकत्वसंख्या प्रतीयते । द्वितीयकोष्ठस्थचतुर्थांकेन च चतुरक्षरस्य त्रिगुर्वेकस(ल)घुयुक्तं भेदचतुष्टयमिति निर्धारितत्रित्वैकत्वसंख्याकगुरुलघुयुक्तचतुरक्षरभेदनिष्ठचतुष्ट्वरूपसंख्या प्रतीयते । ततः चतुर्थकोष्टस्थचतुर्थांकेनैकगुरुत्रिलघुयुक्तं चतुरक्षरस्य भेदचतुष्टयमिति निर्धारितैकत्वत्रित्वसंख्याकगुरुलघुयुक्तचतुरक्षरभेदनिष्ठचतुष्ट्वत्र(रू)पसंख्या निश्चीयते । ततः पंचमकोष्ठस्थैकांकेन चतुर्लघुयुक्तश्चतुरक्षरस्यैकोभेद इति निर्धारितचतुष्ट्वसंख्याकलघुयुक्तचतुरक्षरभेदनिष्ठैकत्वरूपसंख्या निश्चीयते । कोष्ठपंचकनिष्ठसर्वांकयोजननि:पन्नषोडशांकेन च षोडशरूपा समस्ता चतुरक्षरभेदसंख्या प्रतीयते, सेयं पंचकोष्ठयुक्ता चतुर्था चतुरक्षरमेरुपंक्तिः ।
एवं पूर्वोक्तरीत्या एकं दीर्घ कोष्ठं विधाय तत्र कोष्ठषट्कं निर्माय प्रथमात्यकोष्ठयोरेकैकों को देयः, अंतरालस्थद्वितीयकोष्ठस्य शिर:स्थैकचतुर्थेत्यंकद्वययोजननि:पन्नपंचमांकन पूरणं विधेयं । ततस्तृतीयकोष्ठस्य शिरःस्थचतुर्थषष्ठेत्यंकद्वययोजननिःपन्नपंचमांकन पूरणं विधेयं । ततः पंचमकोष्ठस्य शिरःस्थचतुर्थेकेत्यंकद्वययोजननि:पन्नपंचमांकन पूरणं विधेयं । तत्र प्रथमकोष्ठस्यैकांकेन पंचाक्षरवृत्तस्य पंचगुरुरेको भेद इति निर्धारितपंचत्वसंख्याकगुरुयुक्तपंचाक्षरभेदनिष्ठकत्वसंख्या ततः द्वितीयकोष्ठस्थपंचमांकेन च पंचाक्षरवृत्तस्य चतुर्गुर्वेकलघुयुक्तं भेदपंचकमिति निर्धारितचतुष्टवैकत्वसंख्याकगुरुलघुयुक्तपंचाक्षरभेदनिष्ठपंचत्वसंख्या निश्चीयते । ततस्तृतीयकोष्ठस्थदशमकेनपंचाक्षरवृत्तस्य त्रिगुरुद्विलघुयुक्तं भेददशकमिति निर्धारित-त्रित्वसंख्याकगुरुलघुयुक्तपंचाक्षरभेदनिष्ठदशत्वसंख्या निश्चीयते । ततश्चतुर्थकोष्ठस्थदशमांकेन पंचाक्षरवृत्तस्य एकगुरुचतुर्लघुयुक्तं भेददशकमिति निर्धारितद्वित्वत्रित्वसंख्याकगुरुलघुपंचाक्षरभेदनिष्ठदशत्वसंख्या निश्चीयते । ततः पंचमकोष्ठस्थपंचमांकन पंचाक्षरवृत्तस्य एकगुरुचतुर्लघुयुक्तं भेदपंचकमिति निर्धारितैकत्वचतुष्ट्वसंख्याकगुरुलघुयुक्तपंचाक्षरभेदनिष्ठपंचत्वसंख्या निश्चीयते । ततः षष्ठकोष्ठस्थैकांकेन पंचाक्षरवृत्तस्य पंचलघुयुक्त एको भेद इति निर्धारितपंचत्वसंख्याकलघुयुक्तभेदनिष्ठैकत्वसंख्या निश्चीयते । कोष्ठषट्कनिष्ठसर्वांकयोजननिःपन्नद्वात्रिंशत्तमांकेन च द्वात्रिंशद्रूपा समस्ता पंचाक्षरवृत्तभेदसंख्या प्रतीयते । एवमग्रेऽपि सुधीभिः स्वयमा, ग्रन्थविस्तरभयान्न लिख्यते ॥
४४. अमुकवर्णमात्राप्रस्तारयोरेतावद्गुरुलघुयुक्तो भेद एतावत्संख्यक इति मेरुपंक्तिवर्तितत्तत्कोष्ठस्यांकनिर्धारितस्वरूपसंख्याकानां भेदानां प्रथमद्वितीयादिप्रातिस्वकरूपस्य निर्धारणं तन्निर्धारकांकसमूहो वा पताका, सा द्विविधा वर्णपताका चेति ।
वर्णपताकानिर्माणप्रकारमाह उद्दिछा सरि अंकेति । उद्दिट्ठा सरि-उद्दिष्टसदृशान् उद्दिष्टपदस्योद्दिष्टांकपरत्वादुद्दिष्टांकसदृशानित्यर्थः, अंक-अंकान्, दिज्जसु-देहि, पूर्वमेकमंकं दत्वा उत्तरोत्तरं द्विगुणितान् द्विचतुरष्टादिकानंकान् यथाप्रस्तारसंख्यं स्थापयेदित्यर्थः, ततः पुव्व अंक-पूर्वांकस्य, पर-परस्मिन्ननुत्तरवर्तिनीति यावत् अंके इति शेषः, पत्थरसंख-प्रस्तारसंख्यं प्रस्तारस्य संख्या यस्यां क्रियायां तद्यथा स्यात्तथेत्यर्थः, भरणयोजनं करिज्जसु-कुरु । यस्य पूर्वांकस्य यत्परांक योजने प्रस्तारसंख्याकोऽको निष्पद्यते, तस्य पूर्वांकस्य तत्र परांके योजनं न कार्यमित्येको नियम इत्यर्थः । एवं कृते पाउल अंक पढम-अवहट्ठभाषायां पूर्वनिपातानियमात् प्रथमप्राप्तमंकमित्यर्थः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org