________________
२८०
प्राकृतपैंगलम् कल्पनीयस्ततो भागलब्धस्य द्वितीयांकस्य समत्वाद्भागे एको लघुः कल्प्यः, अनंतरं चाक्षराभावान्न कल्पना, एवं च यत्र क्रमेण गुरुलघू भवत ईदृशो द्वयक्षरवृत्तस्य तृतीयो भेद इति वाच्यम् । एवं चतुर्थो भेदः कीदृश इति पृष्टे, पृष्टांकस्य चतुर्थस्य समत्वात्तद्भागे प्रथम एको लघुः कल्प्यः, ततो भागलब्धस्य द्वितीयांकस्यापि समत्वात्तद्भागेऽपि पुनरप्येको लघुः कल्प्यः अनंतरं चाक्षराभावान्न कल्पना, एवं च यत्र लघुद्वयं स द्व्यक्षरवृत्तस्य चतुर्थो भेद इति वाच्यम् ॥ एवं त्र्यक्षरस्य प्रथमो भेदः कीदृश इति पृष्ठे पृष्टांकस्य एकस्य विषमत्वादेकांकेन योजितस्य भागे एको गुरुः प्रथमः कल्प्यः, ततो भागलब्धस्यैकांकस्य विषमत्वादेकांकयोजनाद्वारद्वयं भागे गुरुद्वयकल्पनम्, अनंतरं चाक्षराभावान्न कल्पना, एवं च यत्र गुरुत्रयमीदृशस्त्र्यक्षरवृत्तस्य प्रथमो भेद इति वाच्यम् । एवं त्र्यक्षरस्य द्वितीयो भेदः कीदृश इति पृष्टे, पृष्ठांकस्य द्वितीयस्य समत्वाद्भागे प्रथममेको लघुः कल्प्यस्ततो भागलब्धस्यैकांकस्य विषमत्वादेकांकयोजनाद्वारद्वयं भागे गुरुद्वयं कल्पनीयमनंतरं चाक्षराभावान्न कल्पना, एवं यत्र प्रथममेको लघुस्ततो गुरुद्वयमीदृशस्त्र्यक्षरस्य द्वितीयो भेद इति वाच्यम् । एवं त्र्यक्षरस्य तृतीयो भेदः कीदृश इति (पृष्टे), पृष्टांकस्य तृतीयस्य विषमत्वादेकांकयोगेन भागकल्पने एकगुरुः कल्प्यस्ततो भागलब्धस्य द्वितीयांकस्य समत्वात्तद्भागे लघुः कल्प्यस्ततो भागलब्धस्य एकांकस्य विषमत्वादेकांकयोगेन तद्भागे गुरुः कल्प्यः, अनंतरं चाक्षराभावान्न कल्पना, एवं च यत्र प्रथममेको गुरुस्ततो लघुगुरू ईदृशस्त्र्यक्षरस्य तृतीयो भेद इति वाच्यम् । एवं त्र्यक्षरवृत्तस्य चतुर्थो भेदः कीदृश इति पृष्टे, पृष्टस्य चतुर्थीकस्य समत्वात्तद्भागेऽपि लघुः कल्पनीय; ततो भागलब्धस्यैकांकस्यापि समत्वात्तद्भागेपि लघुः कल्पनीयः, ततो भागलब्धस्यैकांकस्य विषमत्वादेकांकयोगेन तद्भागे गुरुः कल्पनीयस्तश्चाक्षराभावान्न कल्पना, एवं च यत्र प्रथमं लघुद्वयं तत एको गुरुरीदृशस्त्र्यक्षरवृत्तस्य चतुर्थो भेदः इति वाच्यम् । एवमग्रेऽप्यूह्यम् ।
एवं चतुरक्षरस्य प्रथमो भेदः कीदृश इति पृष्टे, पृष्टांकस्यैकस्य विषमत्वादेकं दत्वा तद्भागे एको गुरुः कल्पनीयः, ततो भागलब्धस्यैकांकस्य वारत्रयमेकांकयोजनेन भागे गुरुत्रयं कल्पयित्वा चतुर्गुरुश्चतुरक्षर (स्य) प्रथमो भेद इति वाच्यम् । एवं चतुरक्षरस्य द्वितीय भेदः कीदृश इति पृष्टे, पृष्टस्य द्वितीयांकस्य समत्वात्तद्भागे एको लघुः कल्पनीयस्ततो भागलब्धस्यैकस्य विषमत्वादेकांकं दत्वा वास्त्रयं भागकल्पने गुरुकल्पने गुरुत्रयं कल्पनीयम्, एवं च यत्रादौ एको लघुस्तततो गुरुत्रयमीदृशश्चतुरक्षरस्य द्वितीयो भेद इति वाच्यम् । एवमग्रेऽप्यूह्यम् ॥
४३. अमुकवर्णवृत्तमात्रागणप्रस्तारयोरेतावद्गुरुलघुको भेदः कतिसंख्याक इति अनिर्दिष्टक्रमस्थितिनिर्द्धारितसंख्याकगुरुलघुयुक्तत्वरूपप्रस्तारे निर्णीतस्वरूपानिर्द्धारितसंख्याभेदनिष्ठायाः एको द्वाविंशत्यादिपिंडीभूतैकत्वद्वित्वादिकायाः निखिलवर्णवृत्तमात्रागणभेदनिष्ठायाश्च पिंडीभूतद्विचतुरष्टषोडशेत्यादिकायाः संख्यायानिर्द्धारक कोष्ठस्थांकसमूहो वा मेरुः । अत्र निखिलभेदनिष्ठपिंडी- भूतद्वित्वचतुष्ट्वादिसंख्यानिर्द्धारणं तत्तन्मेरुपंक्तिनिखिलकोष्ठवर्त्यंकयोजननिष्पन्नांकेन बोध्यमिति गुरूपदेशो ऽनुसंधेयः । पूर्ववद्विविधे, तत्र वर्णमेरुप्रकारमाह । अक्खरसंखेति । अक्खरसंखे- 'संख्याताक्षराणाम् । अत्राक्षरपदस्य चरणाक्षरपादत्वात्संख्यातचरणाक्षराणामित्यर्थः । संख्यातानि एकादिषड्विंशतिपर्यंतसंख्यायुक्तानि चरणाक्षराणि येषां तेषां वृत्तानामिति निर्गलितार्थ: । कोट्ठ-कोष्ठानि गुरूपदेशादिति शेषः, करु-कुरु । एकाक्षरचरणवृत्तस्य कोष्ठद्वयं द्वयक्षरचरणवृत्तस्य कोष्टत्रयं, त्र्यक्षरचरणवृत्तस्य कोष्ठ (चतुष्टयं), चतुरक्षरचरणवृत्तस्य कोष्ठपंचकमित्येवं गुरुपदेशादुत्तरोत्तरेकैकवृद्ध्या एकाक्षरमारभ्य षड्विंशत्यक्षरपर्यंतं कोष्ठानि कल्पयेति निर्गलितार्थः । तेषु आइ अंतआद्यंतयोः कोष्ठयोः, पढमंक - प्रथममंकमेकत्वसंख्याबोधकमंकमिति यावत्, देहीति शेषः । अवर - अपरं आद्यंतांतरालस्थितमिति यावत् कोष्ठकं, सिर दुइ अंके - शिरोंऽकद्वयेन, अवहट्टभाषायां पूर्व्वनिपातानियमात् भरु- पूरय पूरणीयकोष्ठशिरः स्थांकद्वययोजननिष्पन्नांकेनाद्यंतांतरालस्थितं कोष्ठं पूरणीयमित्यर्थः । एवम्प्रकारेणेति शेषः, मेरु-मेरुः, णिसंक-निश्शंकं निश्चयेनेति यावत्, सूई - सूच्यते निर्मीयते इति योजना ।
अथैतन्निर्माणका लिख्यते । प्रथमं वामदक्षिणयोरेकांगुलमायतमूर्ध्वाधोरेखाद्वयं विनिर्माय तत्पार्श्वयोः ऋजुरेखया मेलनीयमेवमेकं दीर्घं कोष्ठं विधाय तत्र उर्ध्वरेखामध्यदेशमारभ्याधोरेखामध्यदेशपर्यंतमेकामृजुरेखां दत्वा कोष्ठद्वयं कल्पनीयं तत्र तत्र प्रत्येकमेकैकों को देयः, तत्र प्रथममिदं मेरुस्वरूपं प्रथमकोष्ठस्यैकांकेन एकवर्णवृत्त एकगुरुरेको भेदः, द्वितीयकोष्ठस्यैकांकेन च एकलघुरेको भेदः इति निर्द्धारितैकत्वसंख्यांक गुरुलघुयुक्तत्वस्वरूपनिर्णीतस्वरूपैकवर्णभेदनिष्ठैकत्वसंख्या प्रतीयते । कोष्ठद्वयस्थैकांकद्वयपरस्परयोजननिःपन्नद्वितीयांकेन चैकवर्णवृत्तभेदस्य द्वित्वरूपा समस्ता संख्या प्रतीयते, इतीयं कोष्ठद्वयात्मिका प्रथमा एकवर्णमेरुपंक्तिः ।
एवमेतत्पंक्त्यधोरेखां पार्श्वयोर्मनाग्वर्द्धयित्वा अंगुष्ठमात्रं मध्यदेशं त्यक्त्वा अधस्तादेका रेखा उपरितनरेखासमाना कार्या, पार्श्वयोश्च ऋजुरेखया मेलनं कार्यमेवमेकमायतं कोष्ठं विधाय तत्र उपरितनप्रथमकोष्ठस्थाधोरेखामध्यदेशमारभ्याधस्तनरेखापर्यंतमेका ऋजुरेखा देया, ततः द्वितीयकोष्ठाधोरेखामध्यमारभ्याधस्तनरेखापर्यंतमेका ऋजुरेखा देया, एवं कोष्ठत्रयं संपाद्य प्रथमान्त्यकोष्ठयो प्रत्येकमेकैकों को देयः, अंतरालवर्ती च द्वितीयः कोष्ठ शिरः स्थैककांकद्वययोजननिः पन्नद्वितीयांकेन पूरणीयः, तत्र द्वयक्षरवृत्तभेदेषु द्विगुरुरेको भेद इति निर्द्धारितद्वित्वसंख्याकगुरुयुक्तद्व्यक्षरवृत्तभेदनिष्ठैकत्वरूपसंख्या प्रथमकोष्ठस्थैकांकेन प्रतीयते । ततो द्वितीय-कोष्ठस्यद्वितीयांकेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org