________________
२७९
परिशिष्ट (३) गुरूपदिष्टोऽनुसंधेयः । अयमर्थ:-अनिर्धारितप्रथमत्वद्वितीयत्वादिधर्मभेदस्वरूपं विन्यस्य प्रथमाक्षरोपरि एकत्वसंख्याबोधकोंऽक: स्थाप्यः, द्वितीयोऽक: स्थाप्यः, तृतीयस्थाने च तत्पूर्वाद्वितीयैकेत्यंकव्यैक्यक्रियानिःपन्नः तृतीयोंऽक: स्थाप्यश्चतुर्थस्थाने च तत्पूर्वतृतीयद्वितीयेत्यंकद्वयैक्यक्रियानिःपन्नः पंचमांऽक: स्थाप्यः, पंचमस्थाने च तत्पूर्वपंचमतृतीयेत्यंकद्वयैक्यक्रियानि:पन्नोऽष्टमोऽक: स्थाप्यः, षष्ठस्थाने च तत्पूर्वाष्टमपंचमतृतीयेत्यंकद्वयैक्यक्रियानि:पन्नस्त्रयोदशांऽकः स्थाप्याः । एवं षट्सु स्थानेषु षडंकाः यथाप्रस्तारसंख्यं षट्कलगणोदिष्टे स्थाप्याः । एवं पंचकलादावपि यथाप्रस्तारसंख्यमंकाः स्थाप्याः ।
एवं च त्रिगुरुः षट्कलस्य कतमो भेद इति पृष्टे, गुरुत्रयं लिखित्वा तत्र एकद्वित्रिपंचाष्टत्रयोदशेति षडंकान् क्रमेण गुरूणामुपर्युपर्यधश्च संस्थाप्य गुरु शिरस्थैकतृतीयोष्टमेत्यंकत्रयबोधितद्वादशसंख्यायाः शेषांकत्रयोदशबोधितसंख्यामध्यलोपे उर्वरिता एकत्वसंख्या, एवं च त्रिगुरुः षट्कलस्य प्रथमो भेद इति वाच्यम् । एवं यत्र लघुद्वयोत्तरं गुरुद्वयं पतति एतादृशः षट्कलस्य कतमो भेद इति पृष्टे, पूर्वोक्तरीत्या यथास्थानं षडंकान् संस्थाप्य गुरुशिरःस्थतृतीयाष्टमेत्यंकद्वयैक्यक्रियानि:पन्नैकादशांकबोधितसंख्यायास्त्रयोदशसंख्यामध्ये लोपे उर्वरिता द्वित्वसंख्या, तथा चायं द्वितीयो भेद इति वाच्यम् । एवं यत्रादौ लघुगुरू ततोऽपि लघुगुरू एवंभूतः षट्कलस्य कतमो भेद इति पृष्टे उक्तरीत्या उक्तस्थानेषु तत् षडंकस्थापने गुरुशिरःस्थद्वितीयाष्टमेत्यंकद्वयैक्यक्रियानि:पन्नदशांकबोधितसंख्यायास्त्रयोदशसंख्यामध्ये लोपे अवशिष्टा त्रित्वसंख्या, तथा चायं तृतीयो भेद इति वाच्यम् । एवमग्रेऽपि गुरुशिरोंऽकसंख्यायां त्रयोदशसंख्यामध्ये लुप्तोर्वरितसंख्या तत्तद्भेदे वाच्या । षड्लघुरूपे गुरुशिरोंकाऽभावादार्यसमाजसिद्धस्तादृशस्त्रयोदशो भेदो बोध्यः ।
_ एवं पंचकलप्रस्तारेऽपि अनिर्धारितप्रथमत्वाद् द्वितीयत्वादिधर्मभेदं लिखित्वा तद्वर्णोपरि एकद्वित्रिपंचाष्टेत्यंकपंचकं यथाप्रस्तारसंख्य यथाक्रममुत्तरोत्तरं स्थाप्यम् । एवं च यत्रादौ लघुस्ततो गुरुद्वयमीदृशः पंचकलस्य कतमो भेद इति पृष्टे, एकद्वित्रिपंचाष्टेत्यंकपंचके तथोक्तस्थाने यथाक्रममुत्तरोत्तरं संस्थापिते गुरुशिरःस्थद्वितीयपंचमेत्यंकद्वयैक्यक्रियानि:पन्नसप्तमांकबोधितसंख्यायाः सर्वांतिमाष्टमांकबोधितसंख्यामध्यलोपे उर्वरिता एकत्वसंख्या, एवं चायं प्रथमो भेद इति वाच्यम् । एवं यत्र प्रथमं गुरुलघू ततो गुरुरीदृशो भेद: पंचकलस्य कतम इति पृष्टे, एकद्वित्रिपंचाष्टेत्यंकपंचके यथास्थानं यथाक्रममुत्तरोत्तरं स्थापिते गुरुशिरःस्थैकपंचमेत्यंकद्वयमेव लब्धं, लब्धषष्ठसंख्यायाअष्टमसंख्यामध्यलोपे उर्वरिता द्वित्वसंख्या, तथाचायं द्वितीयो भेद इति वाच्यम् । एवं यत्र लघुत्रयांते गुरुरीदृशो भेदः कतम इति पृष्टे, पूर्वोक्तंऽकपंचके तथैव स्थापिते गुरुशिरःस्थपंचमांकबोधितसंख्यायाः सर्वातिमाष्टमांकबोधिताष्टमसंख्यामध्यलोपे उर्वरिता त्रित्वसंख्या, तथाचायं तृतीयो भेद इति वाच्यम् । एवमग्रे पि गुरुशिरोंऽकसंख्यामष्टमसंख्याया लुप्तोर्वरितसंख्या तत्तद्भेदे वाच्या।
एवं चतु:कले द्विगुरु: कतमो भेद इति पृष्टे एकद्वित्रिपंचेत्यंकचतुष्टये यथोक्तस्थाने यथाकममुत्तरोत्तरं स्थापिते गुरुशिर:स्थैकतृतीयेत्यंकद्वयबोधितचतुर्थसंख्यायाः सर्वांतिमपंचांकबोधितसंख्यामध्यलोपे उर्वरिता एकत्वसंख्या, तथा चायं प्रथमो भेद इति वाच्यम् । एवं चतुष्कले आदौ लघुद्वयं ततो गुरुशिरःस्थतृतीयांकबोधितत्रित्वसंख्यायाः सर्वांतिमपंचमांकबोधितसंख्यामध्यलोपे उर्वरिता द्वित्वसंख्या, तथा चायं द्वितीयो भेद इति वाच्यम् । एवं त्रिकले एकद्वित्रीति अंकत्रयं, द्विकले एकद्वीत्यंकद्वयं संस्थाप्य वाच्यम् ।
४२. अथ वर्णवृत्तभेदेषु नष्टप्रकारमाह णट्टेति । अंके समे विषमे वेत्यर्थः, भाअ-भाग, अशिमिति यावत् यथाप्रस्तारसंख्यामिति शेषः, करिज्जसु-कुरुष्व कल्पयेति यावत्, तत्र यः सम भाअहं-सम भागः समस्य भागः अर्धांश इत्यर्थः, तह-ततः, लहु-लघु मुणिज्जसु-जानीहि क(थ)येति यावत्, बिसम-विषमस्यांकस्य एक्क-एकम् एकत्वसंख्याबोधकमंकमित्यर्थः, देह-दत्वा संयोज्येति यावत्, वंटण-वंटनं भागमआँशमिति यावत्, किज्जसु-कुरुध्व कल्पयेति यावत्, वंटनमिति भागकल्पने देशी, ततः गुरु आणिज्जसुगुरुमानय कल्पयेति यावत् । एवंप्रकारेण वर्णवृत्तभेदानामिति शेषः, णट्टे-नष्टं नष्टप्रकारमिति यावत्, पिंगल जपइ-पिंगलो जल्पति कथयति ॥ समांकभागे कृते योऽक: स लघुकल्पकः, विषमांकभागे योऽक: स गुरुकल्पकः । विषमांकस्य भागस्तु विषमात्मकेन संयोज्य कल्पनीय इति निर्गलितार्थः । अत्र यद्यपि एकांकेन योजितो विषमः समभावं प्राप्नोति तथापि तस्य भाग: विषमांकभाग एवेति, ततो लघुकल्पनभ्रान्तिर्न कर्त्तव्येति ध्येयम् । अयमर्थः
एकाक्षरवृत्तस्य प्रथमो भेदः कीदृश इति पृष्टे, एकांके विषमे एकांकयोजनेन कृतभागे एको गुरुः कल्प्यः । अनंतरं चाक्षराभावान्न कल्पना । एवं च एकाक्षरवृत्तस्य प्रथमो भेद एकगुरुरिति वाच्यम् । एवमेकाक्षरवृत्तस्य द्वितीयो भेदः कीदृश इति पृष्ट कल्पनीयः, अनंतरं चाक्षराभावान्न कल्पना, एकलघुद्धितीयो भेद इति वाच्यम् ।
एवं व्यक्षरवृत्तस्य प्रथमो भेदः कीदृश इति पृष्टे, पृष्टस्य एकांकस्य विषमस्य एकांकयोजनेन भागे एको गुरुः कल्पनीयः, पुनरपि भागलब्धस्यैकांकस्य विषमस्य भागे द्वितीयो गुरुः कल्प्यः । अनंतरं चाक्षराभावान्न कल्पना, एवं द्विगुरुद्धयक्षरस्तस्य प्रथमो भेद इति वाच्यः । एवं द्वितीयो भेदः कीदृश इति पृष्टे पृष्टस्य द्वितीयांकस्य समस्य भागे एको लघुः कल्पनीयस्ततो भागलब्धस्यैकांकस्य विषमत्वादेकेन योजितस्य भागे एको गुरुः कल्प्यः, अनंतरं चाक्षराभावान्न कल्पना, एवं च प्रथममेको लघुस्तत एको गुरुरीदृशो द्वितीयो भेदः । एवं व्यक्षरवृत्तस्य तृतीयो भेदः कीदृश इति पृष्टे, पृष्टांकस्य तृतीयस्य विषमत्वादेकांकयोजनेन भागे प्रथममेको गुरुः
कतृतीयत्वकले आदाद इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org