________________
प्राकृतपैंगलम्
शब्दः एते अशेषा लघुभेदा भवतीत्यनुकर्षः इति प्रमाणं निश्चयः ।
३३. अथ वर्णवृत्तोपयोगिनो मगणादीनष्टौ गणान्नामलक्षणाभ्यामुद्दिशति मोति इति । तिगुरु - त्रिगुरुः गुरूत्रयस्वरुपो यो मगणः Sss, तिलहु - त्रिलघुः लघुत्रय स्वरूप इति यावन् णो-नगणः III, आदिलघुगुरू यभौ, तेन आदौ यस्य लघुः स यगण: आदौ यस्य गुरुः स भगणः इत्यर्थः । मध्यगुरुः- यस्य मध्ये गुरुः स जगणः । मध्यलघुः - यस्य मध्ये लघुः SIS, स रो- रगणः । अंतगुरुःयस्य अंते गुरुः स पुनः सो-सगणः । अंतलघुना उपलक्षितः तो- तगणः, यस्यांते लघुः स तगण इत्यर्थः ।
२७८
३४. मनुष्यकवित्वे कविनायकयोर्देवताकवित्वे देवतानां दुष्प्रधर्षत्वात्कवेरेव कवित्वस्यादौ दुष्टगणपाते अनीष्टफलप्राप्तिस्तच्छांत्यर्थं शुभगणपाते शुभफलवृद्धये च तत्त (द्) गणदेवताः पूज्या इति मगणाद्यष्टगणानां क्रमेण ता आह, पुहबीति । पुहबी - पृथिवी मगणस्य त्रिगुरो: १, जल-जलं नगणस्य त्रिलघोः २, सिहि - शिखी अग्निः यगणस्यादिलघोः ३, कालो भगणस्यादिगुरोः ४, गगनं मध्यगुरोर्जगणस्य ५, सूर्यश्च अंत (मध्य) लघोः रगणस्य ६, चंद्रमा मध्यलघोः (अंतगुरोः) सगणस्य ७, नागो अंतगुरोः (लघोः) तगणस्य ८, एते गणाष्टकेऽष्टदेवाः यथासंख्यं पूर्वोद्देश क्रमेण पिंगलेन कथिताः ।
३५. वक्ष्यमाणशुभाशुभफलोपोद्घातेन गणानां परस्परस्य मित्रादिभावं कथयति । भगण-यगणौ द्वौ गणौ, मित्रे मित्रसंज्ञाविति यावत् भवतः, भगणयगणौ द्वौ गणौ भृत्यौ भृत्यसंज्ञौ भवतः, ज-तौ जगण-तगणौ द्वौ उदासीनौ उदासीनसंज्ञौ, अवशिष्टौ रगण - सगणौ अरी शत्रुसंज्ञौ नित्यं भवत इति क्रियापदं द्विवचनांते सर्वत्र योज्यम् ।
३६. अथ मगणाद्यष्टगणानां काव्यादौ पतने प्रत्येकं फलमाह मगणेति । कवित्वस्यादौ यदि मगणः पतति, तदा ऋद्धिः कार्यं स्थिरं ददातीत्याकर्षः । यदि यगणः पतति.... तदा मरणं प्रयच्छति । यदि सगणः पतति, तदा सहवासान्निजदेशादुद्वासयति । यदि तगणः पतति, तदा शून्यं फलं कथयति । यदि जगणः पतति, तदा खरकिरणं संतापं विसर्जयति । भगणः अनेकानि मंगलानि कथयति । यावत्काव्यगाथादोहास्तत्र प्रथमाक्षरे प्रथमगणो यदि नगणो भवति, तदा तत्र ऋद्धिबुद्धयः सर्वाः स्फुरंति रणे राजकुले दुस्तरं तरति इति मुणह जानीत इति कविपिंगलो भाषते ।
३७. अत्र मनुष्यकवित्वे तदुक्तं फलं, पर्व्वतादिवर्णने कविगतं, देवतावर्णने न क्वापि । तदुक्तमभियुक्तैः - वर्ण्यते मनुजो यत्र फलं तद्गतमादिशेत् । अन्यथा तु कृते काव्ये कवेर्दोषावहं फलं । देवता वर्ण्यते यत्र काव्ये क्वापि कवीश्वरैः । मित्रामित्रविचारो वा न तत्र फलकल्पनेति ॥ उपर्युक्तगणगुणानपवदन् द्विगणविचारमाह, मित्त मित्तेति । मित्रात् मित्रं यदि पतति तदेति शेषः सर्वत्र यथायथं योजनीयः, ऋद्धि बुद्धिम् अपरं मंगलं ददाति, मित्राद्भृत्यो यदि पतति तदा युद्धे स्कन्धस्थैर्यं निर्भयं जयं करोति, मित्रादुदासीना यदि पतति तदा कार्यबंधं कार्यप्रतिबंधं खलु पुनः पुनः करोति, मित्रात् यदि शत्रुः भवति तदा गोत्रबान्धवान् पीडयति, अपरं भृत्यात् मित्रं यदि पतति तदा सर्वाणि कार्याणि भवंति, भृत्यात् भृत्यो यदि पतति तदा आयतिरुत्तरकालो वद्धते भृत्यात् उदासीनो यदि पतति तदा धनं नश्यति, भृत्यात् वैरी यदि पतति तदा हाकंदः हाहहाकारः पतति ।
३८. उदासीनात् यदि मित्रं पतति तदा कार्यं किमपि अनिष्टं दर्शयति, उदासीनात् यदि भृत्यः पतति तदा सर्व्वामायति चालयति, उदासीनात् यदि उदासीनः पतति तदा असत्फलं किमपि न दृश्यते, उदासीनात् यदि शत्रुः पतति तदा गोत्रमपि वैरिकृतं ज्ञेयम्, यदि शत्रोर्मित्रं भवति तदा शून्यं फलं भवति किमपि फलं न भवतीत्यर्थः । यदि शत्रोर्भृत्यो भवति तदा गृहिणी नश्यति, पुनः शत्रोरुदासीनो यदि पतति तदा धनं नश्यति, यदि शत्रोः शत्रुः पतति तदा नायकः स्खलति नश्यतीत्यर्थः ॥
Jain Education International
३९. निर्द्दिष्टप्रस्तारक्रमस्थितिनिर्द्धारितसंख्याकगुरुलघुयुक्तत्वं रूपनिर्णीतस्वरूपे भेदे प्रथमत्वद्वितीयत्वादिधर्मनिर्द्धारणमुद्दिष्टं । तद्विविधं मात्रावर्णभेदात् । तत्र केनचित्कौतुकाद्वर्णोद्दिष्टे (?) पृष्टे तत्प्रकारमाह । पुव्वजुअलेति । पुव्वजुअलसरिअंका - पूर्वयुगलसदृशांकान्, अत्र पूर्वपदस्य पूर्वांकपरत्वात् पूर्वयुगलेत्यर्थः । एवं च पूर्वं यदंकयुगलं तत्सदृशं तत्तुल्यं तदैक्यक्रियया यत्संपद्यते इति यावत् तमंकमित्यर्थः । दिज्जसु-ददस्व, अनिर्द्धारितप्रथमत्वद्वितीयत्वादिधर्मकभेदस्वरूपं लिखित्वा तदक्षरोपरि पूर्वांकयुगलसदृशांकं यथाप्रस्तारसंख्यं क्रमेणोत्तरोत्तरं स्थापयेत्यर्थः । अत्र यतः पूर्वांक एव नास्ति त (तः) प्रथमातिक्रमे कारणाभावात् प्रथमोऽकः स्थाप्यः यतश्च पूर्वम् अंकयुगलं नास्ति यत्र य एव पूर्वांको भवति तद्विगुणितांकः स्थाप्य इति गुरूपदेशो ऽनुसंधेयः । ततः गुरु सिर अंकन्हगुरुशिकान् गुरोः शिरसि ये अंकास्तान्, सेस-शेषे सर्वातिमे अंके, मिटिज्जसु-लोपय, गुरुशिरोंऽकबोधितसंख्यां सर्व्वातिकांकबोधितसंख्यायामूनीकुरु इति भावः । एवं सति उबरल अंक- उर्वरितमंकं गुरुशिरोंऽकबोधितसंलोपे सति सर्वांतिमांकमध्ये उर्वरितो योंऽकस्तमित्यर्थः, सर्वांतिमांकबोधितसंख्यामध्योर्वरितसंख्याबोधकमंकमिति यावत् | लेक्खिकइ-वप्रसंख्याः परिधार्य्येति यावत्, आणहु - आनयस्व जानीहि इति यावत्, तहि पर- तदुपरि तेनेति यावत् मात्राणामिति शेषः, उद्दिट्टा - उद्दिष्टम्, अनिर्द्धारितप्रथमत्वद्वितीयत्वादिधर्मे भेदे प्रथमत्वद्वितीयत्वादिधर्मनिर्द्धारणं, ध्रुवं निश्चितं, जाणह - जानीहि । अत्र गुरुशिर इति शिरः पदोपादानात् गुरोरपर्यधश्चांको देय इति सूच्यते, अन्यथा वर्णोद्दिष्टे लघूपरीतिवदत्रापि गुरोरुपरि इत्येव ब्रूयात् । लघोस्तु उपर्येवेति नियमो
For Private Personal Use Only
www.jainelibrary.org